Brahma Purana

अध्याय 240

Containing 112 sacred Sanskrit shlokas with multi-author commentaries and translations.

Brahma Purana

अध्याय 240, Verse 1

मुनय ऊचुः ।

सम्यक् क्रियेयं विप्रेन्द्र वर्णिता शिष्टसम्मता ।

योगमार्गो यथान्यायं शिष्यायेह हितैषिणा ॥ २४०.१॥

Brahma Purana

अध्याय 240, Verse 2

सांख्ये त्विदानीं धर्मस्य विधिं प्रब्रूहि तत्त्वतः ।

त्रिषु लोकेषु यज्ज्ञानं सर्वं तद् विदितं हि ते ॥ २४०.२॥

Brahma Purana

अध्याय 240, Verse 3

व्यास उवाच ।

श‍ृणुध्वं मुनयः सर्वमाख्यानं विदितात्मनाम् ।

विहितं यतिभिर्वृद्धैः कपिलादिभिरीश्वरैः ॥ २४०.३॥

Brahma Purana

अध्याय 240, Verse 4

यस्मिन् सुविभ्रमाः केचिद् दृश्यन्ते मुनिसत्तमाः ।

गुणाश्च यस्मिन् बहवो दोषहानिश्च केवला ॥ २४०.४॥

Brahma Purana

अध्याय 240, Verse 5

ज्ञानेन परिसंख्याय सदोषान् विषयान् द्विजाः ।

मानुषान् दुर्जयान् कृत्स्नान् पैशाचान् विषयांस्तथा ॥ २४०.५॥

Brahma Purana

अध्याय 240, Verse 6

विषयान् औरगाञ् ज्ञात्वा गन्धर्वविषयांस्तथा ।

पितृणां विषयाञ् ज्ञात्वा तिर्यक्त्वं चरतां द्विजाः ॥ २४०.६॥

Brahma Purana

अध्याय 240, Verse 7

सुपर्णविषयाञ् ज्ञात्वा मरुतां विषयांस्तथा ।

महर्षिविषयांश्चैव राजर्षिविषयांस्तथा ॥ २४०.७॥

Brahma Purana

अध्याय 240, Verse 8

आसुरान् विषयाञ् ज्ञात्वा वैश्वदेवांस्तथैव च ।

देवर्षिविषयाञ् ज्ञात्वा योगानामपि वै परान् ॥ २४०.८॥

Brahma Purana

अध्याय 240, Verse 9

विषयांश्च प्रमाणस्य ब्रह्मणो विषयांस्तथा ।

आयुषश्च परं कालं लोकैर्विज्ञाय तत्त्वतः ॥ २४०.९॥

Brahma Purana

अध्याय 240, Verse 10

सुखस्य च परं कालं विज्ञाय मुनिसत्तमाः ।

प्राप्तकाले च यद् दुःखं पततां विषयैषिणाम् ॥ २४०.१०॥

Brahma Purana

अध्याय 240, Verse 11

तिर्यक्त्वे पततां विप्रास्तथैव नरकेषु यत् ।

स्वर्गस्य च गुणाञ् ज्ञात्वा दोषान् सर्वांश्च भो द्विजाः ॥ २४०.११॥

Brahma Purana

अध्याय 240, Verse 12

वेदवादे च ये दोषा गुणा ये चापि वैदिकाः ।

ज्ञानयोगे च ये दोषा ज्ञानयोगे च ये गुणाः ॥ २४०.१२॥

Brahma Purana

अध्याय 240, Verse 13

सांख्यज्ञाने च ये दोषांस्तथैव च गुणा द्विजाः ।

सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा ॥ २४०.१३॥

Brahma Purana

अध्याय 240, Verse 14

तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा ।

षड्गुणं च नभो ज्ञात्वा तमश्च त्रिगुणं महत् ॥ २४०.१४॥

Brahma Purana

अध्याय 240, Verse 15

द्विगुणं च रजो ज्ञात्वा सत्त्वं चैकगुणं पुनः ।

मार्गं विज्ञाय तत्त्वेन प्रलयप्रेक्षणेन तु ॥ २४०.१५॥

Brahma Purana

अध्याय 240, Verse 16

ज्ञानविज्ञानसम्पन्नाः कारणैर्भावितात्मभिः ।

प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम् ॥ २४०.१६॥

Brahma Purana

अध्याय 240, Verse 17

रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च ।

शब्दग्राह्यं तथा श्रोत्रं जिह्वां रसगुणेन च ॥ २४०.१७॥

Brahma Purana

अध्याय 240, Verse 18

त्वचं स्पर्शं तथा शक्यं वायुं चैव तदाश्रितम् ।

मोहं तमसि संयुक्तं लोभं मोहेषु संश्रितम् ॥ २४०.१८॥

Brahma Purana

अध्याय 240, Verse 19

विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम् ।

अप्सु देवीं समायुक्तामापस्तेजसि संश्रिताः ॥ २४०.१९॥

Brahma Purana

अध्याय 240, Verse 20

तेजो वायौ तु संयुक्तं वायुं नभसि चाश्रितम् ।

नभो महति संयुक्तं तमो महसि संस्थितम् ॥ २४०.२०॥

Brahma Purana

अध्याय 240, Verse 21

रजः सत्त्वं तथा सक्तं सत्त्वं सक्तं तथात्मनि ।

सक्तमात्मानमीशे च देवे नारायणे तथा ॥ २४०.२१॥

Brahma Purana

अध्याय 240, Verse 22

देवं मोक्षे च संयुक्तं ततो मोक्षं च न क्वचित् ।

ज्ञात्वा सत्त्वगुणं देहं वृतं षोडशभिर्गुणैः ॥ २४०.२२॥

Brahma Purana

अध्याय 240, Verse 23

स्वभावं भावनां चैव ज्ञात्वा देहसमाश्रिताम् ।

मध्यस्थमिव चात्मानं पापं यस्मिन् न विद्यते ॥ २४०.२३॥

Brahma Purana

अध्याय 240, Verse 24

द्वितीयं कर्म वै ज्ञात्वा विप्रेन्द्रा विषयैषिणाम् ।

इन्द्रियाणीन्द्रियार्थांश्च सर्वान् आत्मनि संश्रितान् ॥ २४०.२४॥

Brahma Purana

अध्याय 240, Verse 25

दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ।

प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ॥ २४०.२५॥

Brahma Purana

अध्याय 240, Verse 26

आद्यं चैवानिलं ज्ञात्वा प्रभवं चानिलं पुनः ।

सप्तधा तांस्तथा शेषान् सप्तधा विधिवत् पुनः ॥ २४०.२६॥

Brahma Purana

अध्याय 240, Verse 27

प्रजापतीन् ऋषींश्चैव सर्गांश्च सुबहून् वरान् ।

सप्तर्षींश्च बहूञ् ज्ञात्वा राजर्षींश्च परंतपान् ॥ २४०.२७॥

Brahma Purana

अध्याय 240, Verse 28

सुरर्षीन् मरुतश्चान्यान् ब्रह्मर्षीन् सूर्यसंनिभान् ।

ऐश्वर्याच्च्यावितान् दृष्ट्वा कालेन महता द्विजाः ॥ २४०.२८॥

Brahma Purana

अध्याय 240, Verse 29

महतां भूतसंघानां श्रुत्वा नाशं च भो द्विजाः ।

गतिं वाचां शुभां ज्ञात्वा अर्चार्हाः पापकर्मणाम् ॥ २४०.२९॥

Brahma Purana

अध्याय 240, Verse 30

वैतरण्यां च यद् दुःखं पतितानां यमक्षये ।

योनिषु च विचित्रासु संचारान् अशुभांस्तथा ॥ २४०.३०॥