अध्याय 24, Verse 1
लोमहर्षण उवाच ।
तारामयं भगवतः शिशुमाराकृति प्रभोः ।
दिवि रूपं हरेर्यत् तु तस्य पुच्छे स्थितो ध्रुवः ॥ २४.१॥
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
तारामयं भगवतः शिशुमाराकृति प्रभोः ।
दिवि रूपं हरेर्यत् तु तस्य पुच्छे स्थितो ध्रुवः ॥ २४.१॥
सएष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान् ।
भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥ २४.२॥
सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह ।
वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै ॥ २४.३॥
शिशुमाराकृति प्रोक्तं यद् रूपं ज्योतिषां दिवि ।
नारायणः परं धाम तस्याधारः स्वयं हृदि ॥ २४.४॥
उत्तानपादतनयस्तमाराध्य प्रजापतिम् ।
स ताराशिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥ २४.५॥
आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः ।
ध्रुवस्य शिशुमारश्च ध्रुवे भानुर्व्यवस्थितः ॥ २४.६॥
तद् आधारं जगच्चेदं सदेवासुरमानुषम् ।
येन विप्रा विधानेन तन् मे शृणुत साम्प्रतम् ॥ २४.७॥
विवस्वान् अष्टभिर्मासैर्ग्रसत्यपो रसात्मिकाः ।
वर्षत्यम्बु ततश्चान्नमन्नादमखिलं जगत् ॥ २४.८॥
विवस्वान् अंशुभिस्तीक्ष्णैरादाय जगतो जलम् ।
सोमं पुष्यत्यथेन्दुश्च वायुनाडीमयैर्दिवि ॥ २४.९॥
जलैर्विक्षिप्यतेऽभ्रेषु धूमाग्न्यनिलमूर्तिषु ।
न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः ॥ २४.१०॥
अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः ।
संस्कारं कालजनितं विप्राश्चासाद्य निर्मलाः ॥ २४.११॥
सरित्समुद्रा भौमास्तु तथापः प्राणिसम्भवाः ।
चतुष्प्रकारा भगवान् आदत्ते सविता द्विजाः ॥ २४.१२॥
आकाशगङ्गासलिलं तथाहृत्य गभस्तिमान् ।
अनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥ २४.१३॥
तस्य संस्पर्शनिर्धूत+ ।
पापपङ्को द्विजोत्तमाः ।
न याति नरकं मर्त्यो दिव्यं स्नानं हि तत् स्मृतम् ॥ २४.१४॥
दृष्टसूर्यं हि तद् वारि पतत्यभ्रैर्विना दिवः ।
आकाशगङ्गासलिलं तद् गोभिः क्षिप्यते रवेः ॥ २४.१५॥
कृत्तिकादिषु ऋक्षेषु विषमेष्वम्बु यद् दिवः ।
दृष्ट्वार्कं पतितं ज्ञेयं तद् गाङ्गं दिग्गजोह्नितम् ॥ २४.१६॥
युग्मर्क्षेषु तु यत् तोयं पतत्यर्कोद्गितं दिवः ।
तत् सूर्यरश्मिभिः सद्यः समादाय निरस्यते ॥ २४.१७॥
उभयं पुण्यमत्यर्थं नृणां पापहरं द्विजाः ।
आकाशगङ्गासलिलं दिव्यं स्नानं द्विजोत्तमाः ॥ २४.१८॥
यत् तु मेघैः समुत्सृष्टं वारि तत् प्राणिनां द्विजाः ।
पुष्णात्योषधयः सर्वा जीवनायामृतं हि तत् ॥ २४.१९॥
तेन वृद्धिं परां नीतः सकलश्चौषधीगणः ।
साधकः फलपाकान्तः प्रजानां तु प्रजायते ॥ २४.२०॥
तेन यज्ञान् यथाप्रोक्तान् मानवाः शास्त्रचक्षुषः ।
कुर्वतेऽहरहश्चैव देवान् आप्याययन्ति ते ॥ २४.२१॥
एवं यज्ञाश्च वेदाश्च वर्णाश्च द्विजपूर्वकाः ।
सर्वदेवनिकायाश्च पशुभूतगणाश्च ये ॥ २४.२२॥
वृष्ट्या धृतमिदं सर्वं जगत् स्थावरजङ्गमम् ।
सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तमाः ॥ २४.२३॥
आधारभूतः सवितुर्ध्रुवो मुनिवरोत्तमाः ।
ध्रुवस्य शिशुमारोऽसौ सोऽपि नारायणाश्रयः ॥ २४.२४॥
हृदि नारायणस्तस्य शिशुमारस्य संस्थितः ।
विभर्ता सर्वभूतानामादिभूतः सनातनः ॥ २४.२५॥
एवं मया मुनिश्रेष्ठा ब्रह्माण्डं समुदाहृतम् ।
भूसमुद्रादिभिर्युक्तं किमन्यच्छ्रोतुमिच्छथ ॥ २४.२६॥