Brahma Purana

अध्याय 239

Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.

Brahma Purana

अध्याय 239, Verse 1

मुनय ऊचुः ।

सांख्यं योगस्य नो विप्र विशेषं वक्तुमर्हसि ।

तव धर्मज्ञ सर्वं हि विदितं मुनिसत्तम ॥ २३९.१॥

Brahma Purana

अध्याय 239, Verse 2

व्यास उवाच ।

सांख्याः सांख्यं प्रशंसन्ति योगान् योगविदुत्तमाः ।

वदन्ति कारणैः श्रेष्ठैः स्वपक्षोद्भवनाय वै ॥ २३९.२॥

Brahma Purana

अध्याय 239, Verse 3

अनीश्वरः कथं मुच्येद् इत्येवं मुनिसत्तमाः ।

वदन्ति कारणैः श्रेष्ठं योगं सम्यङ् मनीषिणः ॥ २३९.३॥

Brahma Purana

अध्याय 239, Verse 4

वदन्ति कारणं वेदं सांख्यं सम्यग् द्विजातयः ।

विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ॥ २३९.४॥

Brahma Purana

अध्याय 239, Verse 5

ऊर्ध्वं स देहात् सुव्यक्तं विमुच्येद् इति नान्यथा ।

एतद् आहुर्महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम् ॥ २३९.५॥

Brahma Purana

अध्याय 239, Verse 6

स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् ।

शिष्टानां हि मतं ग्राह्यं भवद्भिः शिष्टसम्मतैः ॥ २३९.६॥

Brahma Purana

अध्याय 239, Verse 7

प्रत्यक्षं हेतवो योगाः सांख्याः शास्त्रविनिश्चयाः ।

उभे चैते मते तत्त्वे समवेते द्विजोत्तमाः ॥ २३९.७॥

Brahma Purana

अध्याय 239, Verse 8

उभे चैते मते ज्ञाते मुनीन्द्राः शिष्टसम्मते ।

अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् ॥ २३९.८॥

Brahma Purana

अध्याय 239, Verse 9

तुल्यं शौचं तयोर्युक्तं दया भूतेषु चानघाः ।

व्रतानां धारणं तुल्यं दर्शनं त्वसमं तयोः ॥ २३९.९॥

Brahma Purana

अध्याय 239, Verse 10

मुनय ऊचुः ।

यदि तुल्यं व्रतं शौचं दया चात्र महामुने ।

तुल्यं तद्दर्शनं कस्मात् तन् नो ब्रूहि द्विजोत्तम ॥ २३९.१०॥

Brahma Purana

अध्याय 239, Verse 11

व्यास उवाच ।

रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् ।

योगास्थिरोदितान् दोषान् पञ्चैतान् प्राप्नुवन्ति तान् ॥ २३९.११॥

Brahma Purana

अध्याय 239, Verse 12

यथा वानिमिषाः स्थूलं जालं छित्त्वा पुनर्जलम् ।

प्राप्नुवन्ति तथा योगात् तत् पदं वीतकल्मषाः ॥ २३९.१२॥

Brahma Purana

अध्याय 239, Verse 13

तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः ।

प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥ २३९.१३॥

Brahma Purana

अध्याय 239, Verse 14

लोभजानि तथा विप्रा बन्धनानि बलान्वितः ।

छित्त्वा योगात् परं मार्गं गच्छन्ति विमलं शुभम् ॥ २३९.१४॥

Brahma Purana

अध्याय 239, Verse 15

अचलास्त्वाविला विप्रा वागुरासु तथापरे ।

विनश्यन्ति न संदेहस्तद्वद् योगबलाद् ऋते ॥ २३९.१५॥

Brahma Purana

अध्याय 239, Verse 16

बलहीनाश्च विप्रेन्द्रा यथा जालं गता द्विजाः ।

बन्धं न गच्छन्त्यनघा योगास्ते तु सुदुर्लभाः ॥ २३९.१६॥

Brahma Purana

अध्याय 239, Verse 17

यथा च शकुनाः सूक्ष्मं प्राप्य जालमरिंदमाः ।

तत्राशक्ता विपद्यन्ते मुच्यन्ते तु बलान्विताः ॥ २३९.१७॥

Brahma Purana

अध्याय 239, Verse 18

कर्मजैर्बन्धनैर्बद्धास्तद्वद् योगपरा द्विजाः ।

अबला न विमुच्यन्ते मुच्यन्ते च बलान्विताः ॥ २३९.१८॥

Brahma Purana

अध्याय 239, Verse 19

अल्पकश्च यथा विप्रा वह्निः शाम्यति दुर्बलः ।

आक्रान्त इन्धनैः स्थूलैस्तद्वद् योगबलः स्मृतः ॥ २३९.१९॥

Brahma Purana

अध्याय 239, Verse 20

स एव च तदा विप्रा वह्निर्जातबलः पुनः ।

समीरणगतः कृत्स्नां दहेत् क्षिप्रं महीमिमाम् ॥ २३९.२०॥

Brahma Purana

अध्याय 239, Verse 21

तत्त्वज्ञानबलो योगी दीप्ततेजा महाबलः ।

अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत् ॥ २३९.२१॥

Brahma Purana

अध्याय 239, Verse 22

दुर्बलश्च यथा विप्राः स्रोतसा ह्रियते नरः ।

बलहीनस्तथा योगी विषयैर्ह्रियते च सः ॥ २३९.२२॥

Brahma Purana

अध्याय 239, Verse 23

तद् एव तु यथा स्रोतो विष्कम्भयति वारणः ।

तद्वद् योगबलं लब्ध्वा न भवेद् विषयैर्हृतः ॥ २३९.२३॥

Brahma Purana

अध्याय 239, Verse 24

विशन्ति वा वशाद् वाथ योगाद् योगबलान्विताः ।

प्रजापतीन् मनून् सर्वान् महाभूतानि चेश्वराः ॥ २३९.२४॥

Brahma Purana

अध्याय 239, Verse 25

न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः ।

विशन्ते तद् द्विजाः सर्वे योगस्यामिततेजसः ॥ २३९.२५॥

Brahma Purana

अध्याय 239, Verse 26

आत्मनां च सहस्राणि बहूनि द्विजसत्तमाः ।

योगं कुर्याद् बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ॥ २३९.२६॥

Brahma Purana

अध्याय 239, Verse 27

प्राप्नुयाद् विषयान् कश्चित् पुनश्चोग्रं तपश्चरेत् ।

संक्षिप्येच्च पुनर्विप्राः सूर्यस्तेजोगुणान् इव ॥ २३९.२७॥

Brahma Purana

अध्याय 239, Verse 28

बलस्थस्य हि योगस्य बलार्थं मुनिसत्तमाः ।

विमोक्षप्रभवं विष्णुमुपपन्नमसंशयम् ॥ २३९.२८॥

Brahma Purana

अध्याय 239, Verse 29

बलानि योगप्रोक्तानि मयैतानि द्विजोत्तमाः ।

निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनर्द्विजाः ॥ २३९.२९॥

Brahma Purana

अध्याय 239, Verse 30

आत्मनश्च समाधाने धारणां प्रति वा द्विजाः ।

निदर्शनानि सूक्ष्माणि श‍ृणुध्वं मुनिसत्तमाः ॥ २३९.३०॥