अध्याय 238, Verse 1
व्यास उवाच ।
सृजते तु गुणान् सत्त्वं क्षेत्रज्ञस्त्वधितिष्ठति ।
गुणान् विक्रियतः सर्वान् उदासीनवद् ईश्वरः ॥ २३८.१॥
Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
सृजते तु गुणान् सत्त्वं क्षेत्रज्ञस्त्वधितिष्ठति ।
गुणान् विक्रियतः सर्वान् उदासीनवद् ईश्वरः ॥ २३८.१॥
स्वभावयुक्तं तत् सर्वं यद् इमान् सृजते गुणान् ।
ऊर्णनाभिर्यथा सूत्रं सृजते तद् गुणांस्तथा ॥ २३८.२॥
प्रवृत्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते ।
एवमेके व्यवस्यन्ति निवृत्तिमिति चापरे ॥ २३८.३॥
उभयं सम्प्रधार्यैतद् अध्यवस्येद् यथामति ।
अनेनैव विधानेन भवेद् वै संशयो महान् ॥ २३८.४॥
अनादिनिधनो ह्यात्मा तं बुद्ध्वा विहरेन् नरः ।
अक्रुध्यन्न् अप्रहृष्यंश्च नित्यं विगतमत्सरः ॥ २३८.५॥
इत्येवं हृदये सर्वो बुद्धिचिन्तामयं दृढम् ।
अनित्यं सुखमासीनमशोच्यं छिन्नसंशयः ॥ २३८.६॥
तरयेत् प्रच्युतां पृथ्वीं यथा पूर्णां नदीं नराः ।
अवगाह्य च विद्वांसो विप्रा लोलमिमं तथा ॥ २३८.७॥
न तु तप्यति वै विद्वान् स्थले चरति तत्त्ववित् ।
एवं विचिन्त्य चात्मानं केवलं ज्ञानमात्मनः ॥ २३८.८॥
तां तु बुद्ध्वा नरः सर्गं भूतानामागतिं गतिम् ।
समचेष्टश्च वै सम्यग् लभते शममुत्तमम् ॥ २३८.९॥
एतद् द्विजन्मसामग्र्यं ब्राह्मणस्य विशेषतः ।
आत्मज्ञानसमस्नेह+ ।
पर्याप्तं तत्परायणम् ॥ २३८.१०॥
तत्त्वं बुद्ध्वा भवेद् बुद्धः किमन्यद् बुद्धलक्षणम् ।
विज्ञायैतद् विमुच्यन्ते कृतकृत्या मनीषिणः ॥ २३८.११॥
न भवति विदुषां महद् भयम् ।
यद् अविदुषां सुमहद् भयं परत्र ।
नहि गतिरधिकास्ति कस्यचिद् ।
भवति हि या विदुषः सनातनी ॥ २३८.१२॥
लोके मातरमसूयते नरस्- ।
तत्र देवमनिरीक्ष्य शोचते ।
तत्र चेत् कुशलो न शोचते ।
ये विदुस्तद् उभयं कृताकृतम् ॥ २३८.१३॥
यत् करोत्यनभिसंधिपूर्वकम् ।
तच्च निन्दयति यत् पुरा कृतम् ।
यत् प्रियं तद् उभयं न वाप्रियम् ।
तस्य तज्जनयतीह कुर्वतः ॥ २३८.१४॥
मुनय ऊचुः ।
यस्माद् धर्मात् परो धर्मो विद्यते नेह कश्चन ।
यो विशिष्टश्च भूतेभ्यस्तद् भवान् प्रब्रवीतु नः ॥ २३८.१५॥
व्यास उवाच ।
धर्मं च सम्प्रवक्ष्यामि पुराणम् ऋषिभिः स्तुतम् ।
विशिष्टं सर्वधर्मेभ्यः शृणुध्वं मुनिसत्तमाः ॥ २३८.१६॥
इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य तत्त्वतः ।
सर्वतः प्रसृतानीह पिता बालान् इवात्मजान् ॥ २३८.१७॥
मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं परमं तपः ।
विज्ञेयः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥ २३८.१८॥
तानि सर्वाणि संधाय मनःषष्ठानि मेधया ।
आत्मतृप्तः स एवासीद् बहुचिन्त्यमचिन्तयन् ॥ २३८.१९॥
गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि ।
तदा चैवात्मनात्मानं परं द्रक्ष्यथ शाश्वतम् ॥ २३८.२०॥
सर्वात्मानं महात्मानं विधूममिव पावकम् ।
प्रपश्यन्ति महात्मानं ब्राह्मणा ये मनीषिणः ॥ २३८.२१॥
यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः ।
आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम् ॥ २३८.२२॥
एवमात्मा न जानीते क्व गमिष्ये कुतोऽन्वहम् ।
अन्यो ह्यस्यान्तरात्मास्ति यः सर्वमनुपश्यति ॥ २३८.२३॥
ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मना ।
दृष्ट्वात्मानं तथा यूयं विरागा भवत द्विजाः ॥ २३८.२४॥
विमुक्ताः सर्वपापेभ्यो मुक्तत्वच इवोरगाः ।
परां बुद्धिमवाप्येहाप्यचिन्ता विगतज्वराः ॥ २३८.२५॥
सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिणीम् ।
पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम् ॥ २३८.२६॥
लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् ।
सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम् ॥ २३८.२७॥
अव्यक्तप्रभवां शीघ्रां कामक्रोधसमाकुलाम् ।
प्रतरध्वं नदीं बुद्ध्या दुस्तरामकृतात्मभिः ॥ २३८.२८॥
संसारसागरगमां योनिपातालदुस्तराम् ।
आत्मजन्मोद्भवां तां तु जिह्वावर्तदुरासदाम् ॥ २३८.२९॥
यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः ।
तां तीर्णः सर्वतो मुक्तो विधूतात्मात्मवाञ् शुचिः ॥ २३८.३०॥