अध्याय 237, Verse 1
मुनय ऊचुः ।
यद्येवं वेदवचनं कुरु कर्म त्यजेति च ।
कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥ २३७.१॥
Containing 89 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
यद्येवं वेदवचनं कुरु कर्म त्यजेति च ।
कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥ २३७.१॥
एतद् वै श्रोतुमिच्छामस्तद् भवान् प्रब्रवीतु नः ।
एतद् अन्योन्यवैरूप्यं वर्तते प्रतिकूलतः ॥ २३७.२॥
व्यास उवाच ।
शृणुध्वं मुनिशार्दूला यत् पृच्छध्वं समासतः ।
कर्मविद्यामयौ चोभौ व्याख्यास्यामि क्षराक्षरौ ॥ २३७.३॥
यां दिशं विद्यया यान्ति यां गच्छन्ति च कर्मणा ।
शृणुध्वं साम्प्रतं विप्रा गहनं ह्येतद् उत्तरम् ॥ २३७.४॥
अस्ति धर्म इति युक्तं नास्ति तत्रैव यो वदेत् ।
यक्षस्य सादृश्यमिदं यक्षस्येदं भवेद् अथ ॥ २३७.५॥
द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः ।
प्रवृत्तिलक्षणो धर्मो निवृत्तो वा विभाषितः ॥ २३७.६॥
कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।
तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ २३७.७॥
कर्मणा जायते प्रेत्य मूर्तिमान् षोडशात्मकः ।
विद्यया जायते नित्यमव्यक्तं ह्यक्षरात्मकम् ॥ २३७.८॥
कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धिरता नराः ।
तेन ते देहजालेन रमयन्त उपासते ॥ २३७.९॥
ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः ।
न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्न् इव ॥ २३७.१०॥
कर्मणां फलमाप्नोति सुखदुःखे भवाभवौ ।
विद्यया तद् अवाप्नोति यत्र गत्वा न शोचति ॥ २३७.११॥
न म्रियते यत्र गत्वा यत्र गत्वा न जायते ।
न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते ॥ २३७.१२॥
यत्र तद् ब्रह्म परममव्यक्तमचलं ध्रुवम् ।
अव्याकृतमनायामममृतं चाधियोगवित् ॥ २३७.१३॥
द्वंद्वैर्न यत्र बाध्यन्ते मानसेन च कर्मणा ।
समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः ॥ २३७.१४॥
विद्यामयोऽन्यः पुरुषो द्विजाः कर्ममयोऽपरः ।
विप्राश्चन्द्रसमस्पर्शः सूक्ष्मया कलया स्थितः ॥ २३७.१५॥
तद् एतद् ऋषिणा प्रोक्तं विस्तरेणानुगीयते ।
न वक्तुं शक्यते द्रष्टुं चक्रतन्तुमिवाम्बरे ॥ २३७.१६॥
एकादशविकारात्मा कलासम्भारसम्भृतः ।
मूर्तिमान् इति तं विद्याद् विप्राः कर्मगुणात्मकम् ॥ २३७.१७॥
देवो यः संश्रितस्तस्मिन् बुद्धीन्दुरिव पुष्करे ।
क्षेत्रज्ञं तं विजानीयान् नित्यं योगजितात्मकम् ॥ २३७.१८॥
तमो रजश्च सत्त्वं च ज्ञेयं जीवगुणात्मकम् ।
जीवमात्मगुणं विद्याद् आत्मानं परमात्मनः ॥ २३७.१९॥
सचेतनं जीवगुणं वदन्ति ।
स चेष्टते जीवगुणं च सर्वम् ।
ततः परं क्षेत्रविदो वदन्ति ।
प्रकल्पयन्तो भुवनानि सप्त ॥ २३७.२०॥
व्यास उवाच ।
प्रकृत्यास्तु विकारा ये क्षेत्रज्ञास्ते परिश्रुताः ।
ते चैनं न प्रजानन्ति न जानाति स तान् अपि ॥ २३७.२१॥
तैश्चैव कुरुते कार्यं मनःषष्ठैरिहेन्द्रियैः ।
सुदान्तैरिव संयन्ता दृढः परमवाजिभिः ॥ २३७.२२॥
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥ २३७.२३॥
महतः परमव्यक्तमव्यक्तात् परतोऽमृतम् ।
अमृतान् न परं किंचित् सा काष्ठा परमा गतिः ॥ २३७.२४॥
एवं सर्वेषु भूतेषु गूढात्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ २३७.२५॥
अन्तरात्मनि संलीय मनःषष्ठानि मेधया ।
इन्द्रियैरिन्द्रियार्थांश्च बहुचित्तमचिन्तयन् ॥ २३७.२६॥
ध्यानेऽपि परमं कृत्वा विद्यासम्पादितं मनः ।
अनीश्वरः प्रशान्तात्मा ततो गच्छेत् परं पदम् ॥ २३७.२७॥
इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः ।
आत्मनः सम्प्रदानेन मर्त्यो मृत्युमुपाश्नुते ॥ २३७.२८॥
विहत्य सर्वसंकल्पान् सत्त्वे चित्तं निवेशयेत् ।
सत्त्वे चित्तं समावेश्य ततः कालञ्जरो भवेत् ॥ २३७.२९॥
चित्तप्रसादेन यतिर्जहातीह शुभाशुभम् ।
प्रसन्नात्मात्मनि स्थित्वा सुखमत्यन्तमश्नुते ॥ २३७.३०॥