अध्याय 236, Verse 1
मुनय ऊचुः ।
तव वक्त्राब्धिसम्भूतममृतं वाङ्मयं मुने ।
पिबतां नो द्विजश्रेष्ठ न तृप्तिरिह दृश्यते ॥ २३६.१॥
Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
तव वक्त्राब्धिसम्भूतममृतं वाङ्मयं मुने ।
पिबतां नो द्विजश्रेष्ठ न तृप्तिरिह दृश्यते ॥ २३६.१॥
तस्माद् योगं मुने ब्रूहि विस्तरेण विमुक्तिदम् ।
सांख्यं च द्विपदां श्रेष्ठ श्रोतुमिच्छामहे वयम् ॥ २३६.२॥
प्रज्ञावाञ् श्रोत्रियो यज्वा ख्यातः प्राज्ञोऽनसूयकः ।
सत्यधर्ममतिर्ब्रह्मन् कथं ब्रह्माधिगच्छति ॥ २३६.३॥
तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया ।
सांख्ये वा यदि वा योग एतत् पृष्टो वदस्व नः ॥ २३६.४॥
मनसश्चेन्द्रियाणां च यथैकाग्र्यमवाप्यते ।
येनोपायेन पुरुषस्तत् त्वं व्याख्यातुमर्हसि ॥ २३६.५॥
व्यास उवाच ।
नान्यत्र ज्ञानतपसोर्नान्यत्रेन्द्रियनिग्रहात् ।
नान्यत्र सर्वसंत्यागात् सिद्धिं विन्दति कश्चन ॥ २३६.६॥
महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयम्भुवः ।
भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु ॥ २३६.७॥
भूमेर्देहो जलात् स्नेहो ज्योतिषश्चक्षुषी स्मृते ।
प्राणापानाश्रयो वायुः कोष्ठाऽऽकाशं शरीरिणाम् ॥ २३६.८॥
क्रान्तौ विष्णुर्बले शक्रः कोष्ठेऽग्निर्भोक्तुमिच्छति ।
कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक् सरस्वती ॥ २३६.९॥
कर्णौ त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
दश तानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये ॥ २३६.१०॥
शब्दस्पर्शौ तथा रूपं रसं गन्धं च पञ्चमम् ।
इन्द्रियार्थान् पृथग् विद्याद् इन्द्रियेभ्यस्तु नित्यदा ॥ २३६.११॥
इन्द्रियाणि मनो युङ्क्ते अवश्यान् इव राजिनः मनश्चापि
इन्द्रियाणां तथैवैषां सर्वेषामीश्वरं मनः ।
नियमे च विसर्गे च भूतात्मा मनसस्तथा ॥ २३६.१३॥
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः ।
प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम् ॥ २३६.१४॥
आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतनाः ।
सत्त्वं हि तेजः सृजति न गुणान् वै कथंचन ॥ २३६.१५॥
एवं सप्तदशं देहं वृतं षोडशभिर्गुणैः ।
मनीषी मनसा विप्राः पश्यत्यात्मानमात्मनि ॥ २३६.१६॥
न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः ।
मनसा तु प्रदीप्तेन महान् आत्मा प्रकाशते ॥ २३६.१७॥
अशब्दस्पर्शरूपं तच्चारसागन्धमव्ययम् ।
अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम् ॥ २३६.१८॥
अव्यक्तं सर्वदेहेषु मर्त्येषु परमार्चितम् ।
योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयतः ॥ २३६.१९॥
विद्याविनयसम्पन्न+ ।
ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ २३६.२०॥
स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च ।
वसत्येको महान् आत्मा येन सर्वमिदं ततम् ॥ २३६.२१॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
यदा पश्यति भूतात्मा ब्रह्म सम्पद्यते तदा ॥ २३६.२२॥
यावान् आत्मनि वेदात्मा तावान् आत्मा परात्मनि ।
य एवं सततं वेद सोऽमृतत्वाय कल्पते ॥ २३६.२३॥
सर्वभूतात्मभूतस्य सर्वभूतहितस्य च ।
देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥ २३६.२४॥
शकुन्तानामिवाकाशे मत्स्यानामिव चोदके ।
यथा गतिर्न दृश्येत तथा ज्ञानविदां गतिः ॥ २३६.२५॥
कालः पचति भूतानि सर्वाण्येवात्मनात्मनि ।
यस्मिंस्तु पच्यते कालस्तन् न वेदेह कश्चन ॥ २३६.२६॥
न तद् ऊर्ध्वं न तिर्यक् च नाधो न च पुनः पुनः ।
न मध्ये प्रतिगृह्णीते नैव किंचिन् न कश्चन ॥ २३६.२७॥
सर्वे तत्स्था इमे लोका बाह्यमेषां न किंचन ।
यद्यप्यग्रे समागच्छेद् यथा बाणो गुणच्युतः ॥ २३६.२८॥
नैवान्तं कारणस्येयाद् यद्यपि स्यान् मनोजवः ।
तस्मात् सूक्ष्मतरं नास्ति नास्ति स्थूलतरं तथा ॥ २३६.२९॥
सर्वतःपाणिपादं तत् सर्वतोक्षिशिरोमुखम् ।
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ २३६.३०॥