अध्याय 235, Verse 1
मुनय ऊचुः ।
इदानीं ब्रूहि योगं च दुःखसंयोगभेषजम् ।
यं विदित्वाव्ययं तत्र युञ्जामः पुरुषोत्तमम् ॥ २३५.१॥
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
इदानीं ब्रूहि योगं च दुःखसंयोगभेषजम् ।
यं विदित्वाव्ययं तत्र युञ्जामः पुरुषोत्तमम् ॥ २३५.१॥
श्रुत्वा स वचनं तेषां कृष्णद्वैपायनस्तदा ।
अब्रवीत् परमप्रीतो योगी योगविदां वरः ॥ २३५.२॥
व्यास उवाच ।
योगं वक्ष्यामि भो विप्राः शृणुध्वं भवनाशनम् ।
यमभ्यस्याप्नुयाद् योगी मोक्षं परमदुर्लभम् ॥ २३५.३॥
श्रुत्वादौ योगशास्त्राणि गुरुमाराध्य भक्तितः ।
इतिहासं पुराणं च वेदांश्चैव विचक्षणः ॥ २३५.४॥
आहारं योगदोषांश्च देशकालं च बुद्धिमान् ।
ज्ञात्वा समभ्यसेद् योगं निर्द्वंद्वो निष्परिग्रहः ॥ २३५.५॥
भुञ्जन् सक्तुं यवागूं च तक्रमूलफलं पयः ।
यावकं कणपिण्याकमाहारं योगसाधनम् ॥ २३५.६॥
न मनोविकले ध्माते न श्रान्ते क्षुधिते तथा ।
न द्वंद्वे न च शीते च न चोष्णे नानिलात्मके ॥ २३५.७॥
सशब्दे न जलाभ्यासे जीर्णगोष्ठे चतुष्पथे ।
सरीसृपे श्मशाने च न नद्यन्तेऽग्निसंनिधौ ॥ २३५.८॥
न चैत्ये न च वल्मीके सभये कूपसंनिधौ ।
न शुष्कपर्णनिचये योगं युञ्जीत कर्हिचित् ॥ २३५.९॥
देशान् एतान् अनादृत्य मूढत्वाद् यो युनक्ति वै ।
प्रवक्ष्ये तस्य ये दोषा जायन्ते विघ्नकारकाः ॥ २३५.१०॥
बाधिर्यं जडता लोपः स्मृतेर्मूकत्वमन्धता ।
ज्वरश्च जायते सद्यस्तद्वद् अज्ञानसम्भवः ॥ २३५.११॥
तस्मात् सर्वात्मना कार्या रक्षा योगविदा सदा ।
धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ॥ २३५.१२॥
आश्रमे विजने गुह्ये निःशब्दे निर्भये नगे ।
शून्यागारे शुचौ रम्ये चैकान्ते देवतालये ॥ २३५.१३॥
रजन्याः पश्चिमे यामे पूर्वे च सुसमाहितः ।
पूर्वाह्णे मध्यमे चाह्नि युक्ताहारो जितेन्द्रियः ॥ २३५.१४॥
आसीनः प्राङ्मुखो रम्य आसने सुखनिश्चले ।
नातिनीचे न चोच्छ्रिते निःस्पृहः सत्यवाक् शुचिः ॥ २३५.१५॥
युक्तनिद्रो जितक्रोधः सर्वभूतहिते रतः ।
सर्वद्वंद्वसहो धीरः समकायाङ्घ्रिमस्तकः ॥ २३५.१६॥
नाभौ निधाय हस्तौ द्वौ शान्तः पद्मासने स्थितः ।
संस्थाप्य दृष्टिं नासाग्रे प्राणान् आयम्य वाग्यतः ॥ २३५.१७॥
समाहृत्येन्द्रियग्रामं मनसा हृदये मुनिः ।
प्रणवं दीर्घमुद्यम्य संवृतास्यः सुनिश्चलः ॥ २३५.१८॥
रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा ।
संछाद्य निर्मले शान्ते स्थितः संवृतलोचनः ॥ २३५.१९॥
हृत्पद्मकोटरे लीनं सर्वव्यापि निरञ्जनम् ।
युञ्जीत सततं योगी मुक्तिदं पुरुषोत्तमम् ॥ २३५.२०॥
करणेन्द्रियभूतानि क्षेत्रज्ञे प्रथमं न्यसेत् ।
क्षेत्रज्ञश्च परे योज्यस्ततो युञ्जति योगवित् ॥ २३५.२१॥
मनो यस्यान्तमभ्येति परमात्मनि चञ्चलम् ।
संत्यज्य विषयांस्तस्य योगसिद्धिः प्रकाशिता ॥ २३५.२२॥
यदा निर्विषयं चित्तं परे ब्रह्मणि लीयते ।
समाधौ योगयुक्तस्य तदाभ्येति परं पदम् ॥ २३५.२३॥
असंसक्तं यदा चित्तं योगिनः सर्वकर्मसु ।
भवत्यानन्दमासाद्य तदा निर्वाणम् ऋच्छति ॥ २३५.२४॥
शुद्धं धामत्रयातीतं तुर्याख्यं पुरुषोत्तमम् ।
प्राप्य योगबलाद् योगी मुच्यते नात्र संशयः ॥ २३५.२५॥
निःस्पृहः सर्वकामेभ्यः सर्वत्र प्रियदर्शनः ।
सर्वत्रानित्यबुद्धिस्तु योगी मुच्येत नान्यथा ॥ २३५.२६॥
इन्द्रियाणि न सेवेत वैराग्येण च योगवित् ।
सदा चाभ्यासयोगेन मुच्यते नात्र संशयः ॥ २३५.२७॥
न च पद्मासनाद् योगो न नासाग्रनिरीक्षणात् ।
मनसश्चेन्द्रियाणां च संयोगो योग उच्यते ॥ २३५.२८॥
एवं मया मुनिश्रेष्ठा योगः प्रोक्तो विमुक्तिदः ।
संसारमोक्षहेतुश्च किमन्यच्छ्रोतुमिच्छथ ॥ २३५.२९॥
लोमहर्षण उवाच ।
श्रुत्वा ते वचनं तस्य साधु साध्विति चाब्रुवन् ।
व्यासं प्रशस्य सम्पूज्य पुनः प्रष्टुं समुद्यताः ॥ २३५.३०॥