अध्याय 234, Verse 1
व्यास उवाच ।
आध्यात्मिकादि भो विप्रा ज्ञात्वा तापत्रयं बुधः ।
उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥ २३४.१॥
Containing 75 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
आध्यात्मिकादि भो विप्रा ज्ञात्वा तापत्रयं बुधः ।
उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥ २३४.१॥
आध्यात्मिकोऽपि द्विविधः शारीरो मानसस्तथा ।
शारीरो बहुभिर्भेदैर्भिद्यते श्रूयतां च सः ॥ २३४.२॥
शिरोरोगप्रतिश्याय+ ।
ज्वरशूलभगंदरैः ।
गुल्मार्शःश्वयथुश्वास+ ॅह्छर्द्यादिभिरनेकधा ॥ २३४.३॥
तथाक्षिरोगातीसार+ ।
कुष्ठाङ्गामयसंज्ञकैः ।
भिद्यते देहजस्तापो मानसं श्रोतुमर्हथ ॥ २३४.४॥
कामक्रोधभयद्वेष+ ।
लोभमोहविषादजः ।
शोकासूयावमानेर्ष्या+ ंआत्सर्याभिभवस्तथा ॥ २३४.५॥
मानसोऽपि द्विजश्रेष्ठास्तापो भवति नैकधा ।
इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥ २३४.६॥
मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः ।
सरीसृपाद्यैश्च नृणां जन्यते चाधिभौतिकः ॥ २३४.७॥
शीतोष्णवातवर्षाम्बु+ ।
वैद्युतादिसमुद्भवः ।
तापो द्विजवरश्रेष्ठाः कथ्यते चाधिदैविकः ॥ २३४.८॥
गर्भजन्मजराज्ञान+ ंऋत्युनारकजं तथा ।
दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तमाः ॥ २३४.९॥
सुकुमारतनुर्गर्भे जन्तुर्बहुमलावृते ।
उल्बसंवेष्टितो भग्न+ ।
पृष्ठग्रीवास्थिसंहतिः ॥ २३४.१०॥
अत्यम्लकटुतीक्ष्णोष्ण+ ।
लवणैर्मातृभोजनैः ।
अतितापिभिरत्यर्थं बाध्यमानोऽतिवेदनः ॥ २३४.११॥
प्रसारणाकुञ्चनादौ नागानां प्रभुरात्मनः ।
शकृन्मूत्रमहापङ्क+ ।
शायी सर्वत्र पीडितः ॥ २३४.१२॥
निरुच्छ्वासः सचैतन्यः स्मरञ् जन्मशतान्यथ ।
आस्ते गर्भेऽतिदुःखेन निजकर्मनिबन्धनः ॥ २३४.१३॥
जायमानः पुरीषासृङ्+ ंऊत्रशुक्राविलाननः ।
प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः ॥ २३४.१४॥
अधोमुखस्तैः क्रियते प्रबलैः सूतिमारुतैः ।
क्लेशैर्निष्क्रान्तिमाप्नोति जठरान् मातुरातुरः ॥ २३४.१५॥
मूर्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना ।
विज्ञानभ्रंशमाप्नोति जातस्तु मुनिसत्तमाः ॥ २३४.१६॥
कण्टकैरिव तुन्नाङ्गः क्रकचैरिव दारितः ।
पूतिव्रणान् निपतितो धरण्यां क्रिमिको यथा ॥ २३४.१७॥
कण्डूयनेऽपि चाशक्तः परिवर्तेऽप्यनीश्वरः ।
स्तनपानादिकाहारमवाप्नोति परेच्छया ॥ २३४.१८॥
अशुचिस्रस्तरे सुप्तः कीटदंशादिभिस्तथा ।
भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे ॥ २३४.१९॥
जन्मदुःखान्यनेकानि जन्मनोऽनन्तराणि च ।
बालभावे यदाप्नोति आधिभूतादिकानि च ॥ २३४.२०॥
अज्ञानतमसा छन्नो मूढान्तःकरणो नरः ।
न जानाति कुतः कोऽहं कुत्र गन्ता किमात्मकः ॥ २३४.२१॥
केन बन्धेन बद्धोऽहं कारणं किमकारणम् ।
किं कार्यं किमकार्यं वा किं वाच्यं किं न चोच्यते ॥ २३४.२२॥
को धर्मः कश्च वाधर्मः कस्मिन् वर्तेत वै कथम् ।
किं कर्तव्यमकर्तव्यं किं वा किं गुणदोषवत् ॥ २३४.२३॥
एवं पशुसमैर्मूढैरज्ञानप्रभवं महत् ।
अवाप्यते नरैर्दुःखं शिश्नोदरपरायणैः ॥ २३४.२४॥
अज्ञानं तामसो भावः कार्यारम्भप्रवृत्तयः ।
अज्ञानिनां प्रवर्तन्ते कर्मलोपस्ततो द्विजाः ॥ २३४.२५॥
नरकं कर्मणां लोपात् फलमाहुर्महर्षयः ।
तस्माद् अज्ञानिनां दुःखमिह चामुत्र चोत्तमम् ॥ २३४.२६॥
जराजर्जरदेहश्च शिथिलावयवः पुमान् ।
विचलच्छीर्णदशनो वलिस्नायुशिरावृतः ॥ २३४.२७॥
दूरप्रनष्टनयनो व्योमान्तर्गततारकः ।
नासाविवरनिर्यात+ ।
रोमपुञ्जश्चलद्वपुः ॥ २३४.२८॥
प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः ।
उत्सन्नजठराग्नित्वाद् अल्पाहारोऽल्पचेष्टितः ॥ २३४.२९॥
कृच्छ्रचङ्क्रमणोत्थान+ ।
शयनासनचेष्टितः ।
मन्दीभवच्छ्रोत्रनेत्र+ ।
गलल्लालाविलाननः ॥ २३४.३०॥