अध्याय 233, Verse 1
व्यास उवाच ।
सप्तर्षिस्थानमाक्रम्य स्थितेऽम्भसि द्विजोत्तमाः ।
एकार्णवं भवत्येतत् त्रैलोक्यमखिलं ततः ॥ २३३.१॥
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
सप्तर्षिस्थानमाक्रम्य स्थितेऽम्भसि द्विजोत्तमाः ।
एकार्णवं भवत्येतत् त्रैलोक्यमखिलं ततः ॥ २३३.१॥
अथ निःश्वासजो विष्णोर्वायुस्ताञ् जलदांस्ततः ।
नाशं नयति भो विप्रा वर्षाणामधिकं शतम् ॥ २३३.२॥
सर्वभूतमयोऽचिन्त्यो भगवान् भूतभावनः ।
अनादिरादिर्विश्वस्य पीत्वा वायुमशेषतः ॥ २३३.३॥
एकार्णवे ततस्तस्मिञ् शेषशय्यास्थितः प्रभुः ।
ब्रह्मरूपधरः शेते भगवान् आदिकृद् धरिः ॥ २३३.४॥
जनलोकगतैः सिद्धैः सनकाद्यैरभिष्टुतः ।
ब्रह्मलोकगतैश्चैव चिन्त्यमानो मुमुक्षुभिः ॥ २३३.५॥
आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः ।
आत्मानं वासुदेवाख्यं चिन्तयन् परमेश्वरः ॥ २३३.६॥
एष नैमित्तिको नाम विप्रेन्द्राः प्रतिसंचरः ।
निमित्तं तत्र यच्छेते ब्रह्मरूपधरो हरिः ॥ २३३.७॥
यदा जागर्ति सर्वात्मा स तदा चेष्टते जगत् ।
निमीलत्येतद् अखिलं मायाशय्याशयेऽच्युते ॥ २३३.८॥
पद्मयोनेर्दिनं यत् तु चतुर्युगसहस्रवत् ।
एकार्णवकृते लोके तावती रात्रिरुच्यते ॥ २३३.९॥
ततः प्रबुद्धो रात्र्यन्ते पुनः सृष्टिं करोत्यजः ।
ब्रह्मस्वरूपधृग् विष्णुर्यथा वः कथितं पुरा ॥ २३३.१०॥
इत्येष कल्पसंहारो अन्तरप्रलयो द्विजाः ।
नैमित्तिको वः कथितः शृणुध्वं प्राकृतं परम् ॥ २३३.११॥
अवृष्ट्यग्न्यादिभिः सम्यक् कृते शय्यालये द्विजाः ।
समस्तेष्वेव लोकेषु पातालेष्वखिलेषु च ॥ २३३.१२॥
महदादेर्विकारस्य विशेषात् तत्र संक्षये ।
कृष्णेच्छाकारिते तस्मिन् प्रवृत्ते प्रतिसंचरे ॥ २३३.१३॥
आपो ग्रसन्ति वै पूर्वं भूमेर्गन्धादिकं गुणम् ।
आत्तगन्धा ततो भूमिः प्रलयाय प्रकल्पते ॥ २३३.१४॥
प्रनष्टे गन्धतन्मात्रे भवत्युर्वी जलात्मिका ।
आपस्तदा प्रवृत्तास्तु वेगवत्यो महास्वनाः ॥ २३३.१५॥
सर्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च ।
सलिलेनैवोर्मिमता लोकालोकः समन्ततः ॥ २३३.१६॥
अपामपि गुणो यस्तु ज्योतिषा पीयते तु सः ।
नश्यन्त्यापः सुतप्ताश्च रसतन्मात्रसंक्षयात् ॥ २३३.१७॥
ततश्चापोऽमृतरसा ज्योतिष्ट्वं प्राप्नुवन्ति वै ।
अग्न्यवस्थे तु सलिले तेजसा सर्वतो वृते ॥ २३३.१८॥
स चाग्निः सर्वतो व्याप्य आदत्ते तज्जलं तदा ।
सर्वमापूर्यतो चाभिस्तदा जगद् इदं शनैः ॥ २३३.१९॥
अर्चिभिः संतते तस्मिंस्तिर्यग् ऊर्ध्वमधस्तथा ।
ज्योतिषोऽपि परं रूपं वायुरत्ति प्रभाकरम् ॥ २३३.२०॥
प्रलीने च ततस्तस्मिन् वायुभूतेऽखिलात्मके ।
प्रनष्टे रूपतन्मात्रे कृतरूपो विभावसुः ॥ २३३.२१॥
प्रशाम्यति तदा ज्योतिर्वायुर्दोधूयते महान् ।
निरालोके तदा लोके वायुसंस्थे च तेजसि ॥ २३३.२२॥
ततः प्रलयमासाद्य वायुसम्भवमात्मनः ।
ऊर्ध्वं च वायुस्तिर्यक् च दोधवीति दिशो दश ॥ २३३.२३॥
वायोस्त्वपि गुणं स्पर्शमाकाशं ग्रसते ततः ।
प्रशाम्यति तदा वायुः खं तु तिष्ठत्यनावृतम् ॥ २३३.२४॥
अरूपमरसस्पर्शमगन्धवद् अमूर्तिमत् ।
सर्वमापूरयच्चैव सुमहत् तत् प्रकाशते ॥ २३३.२५॥
परिमण्डलतस्तत् तु आकाशं शब्दलक्षणम् ।
शब्दमात्रं तथाकाशं सर्वमावृत्य तिष्ठति ॥ २३३.२६॥
ततः शब्दगुणं तस्य भूतादिर्ग्रसते पुनः ।
भूतेन्द्रियेषु युगपद् भूतादौ संस्थितेषु वै ॥ २३३.२७॥
अभिमानात्मको ह्येष भूतादिस्तामसः स्मृतः ।
भूतादिं ग्रसते चापि महाबुद्धिर्विचक्षणा ॥ २३३.२८॥
उर्वी महांश्च जगतः प्रान्तेऽन्तर्बाह्यतस्तथा ।
एवं सप्त महाबुद्धिः क्रमात् प्रकृतयस्तथा ॥ २३३.२९॥
प्रत्याहारैस्तु ताः सर्वाः प्रविशन्ति परस्परम् ।
येनेदमावृतं सर्वमण्डमप्सु प्रलीयते ॥ २३३.३०॥