अध्याय 232, Verse 1
व्यास उवाच ।
सर्वेषामेव भूतानां त्रिविधः प्रतिसंचरः ।
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको मतः ॥ २३२.१॥
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
सर्वेषामेव भूतानां त्रिविधः प्रतिसंचरः ।
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको मतः ॥ २३२.१॥
ब्राह्मो नैमित्तिकस्तेषां कल्पान्ते प्रतिसंचरः ।
आत्यन्तिको वै मोक्षश्च प्राकृतो द्विपरार्धिकः ॥ २३२.२॥
मुनय ऊचुः ।
परार्धसंख्यां भगवंस्त्वमाचक्ष्व यथोदिताम् ।
द्विगुणीकृतयज्ज्ञेयः प्राकृतः प्रतिसंचरः ॥ २३२.३॥
व्यास उवाच ।
स्थानात् स्थानं दशगुणमेकैकं गण्यते द्विजाः ।
ततोऽष्टादशमे भागे परार्धमभिधीयते ॥ २३२.४॥
परार्धं द्विगुणं यत् तु प्राकृतः स लयो द्विजाः ।
तदाव्यक्तेऽखिलं व्यक्तं सहेतौ लयमेति वै ॥ २३२.५॥
निमेषो मानुषो योऽयं मात्रामात्रप्रमाणतः ।
तैः पञ्चदशभिः काष्ठा त्रिंशत् काष्ठास्तथा कला ॥ २३२.६॥
नाडिका तु प्रमाणेन कला च दश पञ्च च ।
उन्मानेनाम्भसः सा तु पलान्यर्धत्रयोदश ॥ २३२.७॥
हेममाषैः कृतच्छिद्रा चतुर्भिश्चतुरङ्गुलैः ।
मागधेन प्रमाणेन जलप्रस्थस्तु स स्मृतः ॥ २३२.८॥
नाडिकाभ्यामथ द्वाभ्यां मुहूर्तो द्विजसत्तमाः ।
अहोरात्रं मुहूर्तास्तु त्रिंशन् मासो दिनैस्तथा ॥ २३२.९॥
मासैर्द्वादशभिर्वर्षमहोरात्रं तु तद् दिवि ।
त्रिभिर्वर्षशतैर्वर्षं षष्ट्या चैवासुरद्विषाम् ॥ २३२.१०॥
तैस्तु द्वादशसाहस्रैश्चतुर्युगमुदाहृतम् ।
चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम् ॥ २३२.११॥
स कल्पस्तत्र मनवश्चतुर्दश द्विजोत्तमाः ।
तदन्ते चैव भो विप्रा ब्रह्मनैमित्तिको लयः ॥ २३२.१२॥
तस्य स्वरूपमत्युग्रं द्विजेन्द्रा गदतो मम ।
शृणुध्वं प्राकृतं भूयस्ततो वक्ष्याम्यहं लयम् ॥ २३२.१३॥
चतुर्युगसहस्रान्ते क्षीणप्राये महीतले ।
अनावृष्टिरतीवोग्रा जायते शतवार्षिकी ॥ २३२.१४॥
ततो यान्यल्पसाराणि तानि सत्त्वान्यनेकशः ।
क्षयं यान्ति मुनिश्रेष्ठाः पार्थिवान्यतिपीडनात् ॥ २३२.१५॥
ततः स भगवान् कृष्णो रुद्ररूपी तथाव्ययः ।
क्षयाय यतते कर्तुमात्मस्थाः सकलाः प्रजाः ॥ २३२.१६॥
ततः स भगवान् विष्णुर्भानोः सप्तसु रश्मिषु ।
स्थितः पिबत्यशेषाणि जलानि मुनिसत्तमाः ॥ २३२.१७॥
पीत्वाम्भांसि समस्तानि प्राणिभूतगतानि वै ।
शोषं नयति भो विप्राः समस्तं पृथिवीतलम् ॥ २३२.१८॥
समुद्रान् सरितः शैलाञ् शैलप्रस्रवणानि च ।
पातालेषु च यत् तोयं तत् सर्वं नयति क्षयम् ॥ २३२.१९॥
ततस्तस्याप्यभावेन तोयाहारोपबृंहिताः ।
सहस्ररश्मयः सप्त जायन्ते तत्र भास्कराः ॥ २३२.२०॥
अधश्चोर्ध्वं च ते दीप्तास्ततः सप्त दिवाकराः ।
दहन्त्यशेषं त्रैलोक्यं सपातालतलं द्विजाः ॥ २३२.२१॥
दह्यमानं तु तैर्दीप्तैस्त्रैलोक्यं दीप्तभास्करैः ।
साद्रिनगार्णवाभोगं निःस्नेहमभिजायते ॥ २३२.२२॥
ततो निर्दग्धवृक्षाम्बु त्रैलोक्यमखिलं द्विजाः ।
भवत्येषा च वसुधा कूर्मपृष्ठोपमाकृतिः ॥ २३२.२३॥
ततः कालाग्निरुद्रोऽसौ भूतसर्गहरो हरः ।
शेषाहिश्वाससंतापात् पातालानि दहत्यधः ॥ २३२.२४॥
पातालानि समस्तानि स दग्ध्वा ज्वलनो महान् ।
भूमिमभ्येत्य सकलं दग्ध्वा तु वसुधातलम् ॥ २३२.२५॥
भुवो लोकं ततः सर्वं स्वर्गलोकं च दारुणः ।
ज्वालामालामहावर्तस्तत्रैव परिवर्तते ॥ २३२.२६॥
अम्बरीषमिवाभाति त्रैलोक्यमखिलं तदा ।
ज्वालावर्तपरीवारमुपक्षीणबलास्ततः ॥ २३२.२७॥
ततस्तापपरीतास्तु लोकद्वयनिवासिनः ।
हृतावकाशा गच्छन्ति महर्लोकं द्विजास्तदा ॥ २३२.२८॥
तस्माद् अपि महाताप+ ।
तप्ता लोकास्ततः परम् ।
गच्छन्ति जनलोकं ते दशावृत्या परैषिणः ॥ २३२.२९॥
ततो दग्ध्वा जगत् सर्वं रुद्ररूपी जनार्दनः ।
मुखनिःश्वासजान् मेघान् करोति मुनिसत्तमाः ॥ २३२.३०॥