अध्याय 231, Verse 1
मुनय ऊचुः ।
आसन्नं विप्रकृष्टं वा यदि कालं न विद्महे ।
ततो द्वापरविध्वंसं युगान्तं स्पृहयामहे ॥ २३१.१॥
Containing 93 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
आसन्नं विप्रकृष्टं वा यदि कालं न विद्महे ।
ततो द्वापरविध्वंसं युगान्तं स्पृहयामहे ॥ २३१.१॥
प्राप्ता वयं हि तत् कालमनया धर्मतृष्णया ।
आदद्याम परं धर्मं सुखमल्पेन कर्मणा ॥ २३१.२॥
संत्रासोद्वेगजननं युगान्तं समुपस्थितम् ।
प्रनष्टधर्मं धर्मज्ञ निमित्तैर्वक्तुमर्हसि ॥ २३१.३॥
व्यास उवाच ।
अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः ।
युगान्ते प्रभविष्यन्ति स्वरक्षणपरायणाः ॥ २३१.४॥
अक्षत्रियाश्च राजानो विप्राः शूद्रोपजीविनः ।
शूद्राश्च ब्राह्मणाचारा भविष्यन्ति युगक्षये ॥ २३१.५॥
श्रोत्रियाः काण्डपृष्ठाश्च निष्कर्माणि हवींषि च ।
एकपङ्क्त्यामशिष्यन्ति युगान्ते मुनिसत्तमाः ॥ २३१.६॥
अशिष्टवन्तोऽर्थपरा नरा मद्यामिषप्रियाः ।
मित्रभार्यां भजिष्यन्ति युगान्ते पुरुषाधमाः ॥ २३१.७॥
राजवृत्तिस्थिताश्चौरा राजानश्चौरशीलिनः ।
भृत्या ह्यनिर्दिष्टभुजो भविष्यन्ति युगक्षये ॥ २३१.८॥
धनानि श्लाघनीयानि सतां वृत्तमपूजितम् ।
अकुत्सना च पतिते भविष्यति युगक्षये ॥ २३१.९॥
प्रनष्टनासाः पुरुषा मुक्तकेशा विरूपिणः ।
ऊनषोडशवर्षाश्च प्रसोष्यन्ति तथा स्त्रियः ॥ २३१.१०॥
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
प्रमदाः केशशूलाश्च भविष्यन्ति युगक्षये ॥ २३१.११॥
सर्वे ब्रह्म वदिष्यन्ति द्विजा वाजसनेयिकाः ।
शूद्राभा वादिनश्चैव ब्राह्मणाश्चान्त्यवासिनः ॥ २३१.१२॥
शुक्लदन्ता जिताक्षाश्च मुण्डाः काषायवाससः ।
शूद्रा धर्मं वदिष्यन्ति शाठ्यबुद्ध्योपजीविनः ॥ २३१.१३॥
श्वापदप्रचुरत्वं च गवां चैव परिक्षयः ।
साधूनां परिवृत्तिश्च विद्याद् अन्तगते युगे ॥ २३१.१४॥
अन्त्या मध्ये निवत्स्यन्ति मध्याश्चान्तनिवासिनः ।
निर्ह्रीकाश्च प्रजाः सर्वा नष्टास्तत्र युगक्षये ॥ २३१.१५॥
तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः ।
ऋतवो विपरीताश्च भविष्यन्ति युगक्षये ॥ २३१.१६॥
तथा द्विहायना दम्याः कलौ लाङ्गलधारिणः ।
चित्रवर्षी च पर्जन्यो युगे क्षीणे भविष्यति ॥ २३१.१७॥
सर्वे शूरकुले जाताः क्षमानाथा भवन्ति हि ।
यथा निम्नाः प्रजाः सर्वा भविष्यन्ति युगक्षये ॥ २३१.१८॥
पितृदेयानि दत्तानि भविष्यन्ति तथा सुताः ।
न च धर्मं चरिष्यन्ति मानवा निर्गते युगे ॥ २३१.१९॥
ऊषरा बहुला भूमिः पन्थानस्तस्करावृताः ।
सर्वे वाणिकाश्चैव भविष्यन्ति युगक्षये ॥ २३१.२०॥
पितृदायाददत्तानि विभजन्ति तथा सुताः ।
हरणे यत्नवन्तोऽपि लोभादिभिर्विरोधिनः ॥ २३१.२१॥
सौकुमार्ये तथा रूपे रत्ने चोपक्षयं गते ।
भविष्यन्ति युगस्यान्ते नार्यः केशैरलंकृताः ॥ २३१.२२॥
निर्वीर्यस्य रतिस्तत्र गृहस्थस्य भविष्यति ।
युगान्ते समनुप्राप्ते नान्या भार्यासमा रतिः ॥ २३१.२३॥
कुशीलानार्यभूयिष्ठा वृथारूपसमन्विताः ।
पुरुषाल्पं बहुस्त्रीकं तद् युगान्तस्य लक्षणम् ॥ २३१.२४॥
बहुयाचनको लोको न दास्यति परस्परम् ।
राजचौराग्निदण्डादि+ ।
क्षीणः क्षयमुपैष्यति ॥ २३१.२५॥
अफलानि च सस्यानि तरुणा वृद्धशीलिनः ।
अशीलाः सुखिनो लोके भविष्यन्ति युगक्षये ॥ २३१.२६॥
वर्षासु परुषा वाता नीचाः शर्करवर्षिणः ।
संदिग्धः परलोकश्च भविष्यति युगक्षये ॥ २३१.२७॥
वैश्या इव च राजन्या धनधान्योपजीविनः ।
युगापक्रमणे पूर्वं भविष्यन्ति न बान्धवाः ॥ २३१.२८॥
अप्रवृत्ताः प्रपश्यन्ति समयाः शपथास्तथा ।
ऋणं सविनयभ्रंशं युगे क्षीणे भविष्यति ॥ २३१.२९॥
भविष्यत्यफलो हर्षः क्रोधश्च सफलो नृणाम् ।
अजाश्चापि निरोत्स्यन्ति पयसोऽर्थे युगक्षये ॥ २३१.३०॥