अध्याय 230, Verse 1
मुनय ऊचुः ।
अस्माभिस्तु श्रुतं व्यास यत् त्वया समुदाहृतम् ।
प्रादुर्भावाश्रितं पुण्यं माया विष्णोश्च दुर्विदा ॥ २३०.१॥
Containing 82 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
अस्माभिस्तु श्रुतं व्यास यत् त्वया समुदाहृतम् ।
प्रादुर्भावाश्रितं पुण्यं माया विष्णोश्च दुर्विदा ॥ २३०.१॥
श्रोतुमिच्छामहे त्वत्तो यथावद् उपसंहृतिम् ।
महाप्रलयसंज्ञां च कल्पान्ते च महामुने ॥ २३०.२॥
व्यास उवाच ।
श्रूयतां भो मुनिश्रेष्ठा यथावद् अनुसंहृतिः ।
कल्पान्ते प्राकृते चैव प्रलये जायते यथा ॥ २३०.३॥
अहोरात्रं पितृणां तु मासोऽब्दं त्रिदिवौकसाम् ।
चतुर्युगसहस्रे तु ब्रह्मणोऽहर्द्विजोत्तमाः ॥ २३०.४॥
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
दैवैर्वर्षसहस्रैस्तु तद् द्वादशाभिरुच्यते ॥ २३०.५॥
चतुर्युगाण्यशेषाणि सदृशानि स्वरूपतः ।
आद्यं कृतयुगं प्रोक्तं मुनयोऽन्त्यं तथा कलिम् ॥ २३०.६॥
आद्ये कृतयुगे सर्गो ब्रह्मणा क्रियते यतः ।
क्रियते चोपसंहारस्तथान्तेऽपि कलौ युगे ॥ २३०.७॥
मुनय ऊचुः ।
कलेः स्वरूपं भगवन् विस्तराद् वक्तुमर्हसि ।
धर्मश्चतुष्पाद् भगवान् यस्मिन् वैकल्यम् ऋच्छति ॥ २३०.८॥
व्यास उवाच ।
कलिस्वरूपं भो विप्रा यत् पृच्छध्वं ममानघाः ।
निबोधध्वं समासेन वर्तते यन् महत्तरम् ॥ २३०.९॥
वर्णाश्रमाचारवती प्रवृत्तिर्न कलौ नृणाम् ।
न साम+ऋग्यजुर्वेद+ ।
विनिष्पादनहैतुकी ॥ २३०.१०॥
विवाहा न कलौ धर्मा न शिष्या गुरुसंस्थिताः ।
न पुत्रा धार्मिकाश्चैव न च वह्निक्रियाक्रमः ॥ २३०.११॥
यत्र तत्र कुले जातो बली सर्वेश्वरः कलौ ।
सर्वेभ्य एव वर्णेभ्यो नरः कन्योपजीवनः ॥ २३०.१२॥
येन तेनैव योगेन द्विजातिर्दीक्षितः कलौ ।
यैव सैव च विप्रेन्द्राः प्रायश्चित्तक्रिया कलौ ॥ २३०.१३॥
सर्वमेव कलौ शास्त्रं यस्य यद् वचनं द्विजाः ।
देवताश्च कलौ सर्वाः सर्वः सर्वस्य चाश्रमः ॥ २३०.१४॥
उपवासस्तथायासो वित्तोत्सर्गस्तथा कलौ ।
धर्मो यथाभिरुचितैरनुष्ठानैरनुष्ठितः ॥ २३०.१५॥
वित्तेन भविता पुंसां स्वल्पेनैव मदः कलौ ।
स्त्रीणां रूपमदश्चैव केशैरेव भविष्यति ॥ २३०.१६॥
सुवर्णमणिरत्नादौ वस्त्रे चोपक्षयं गते ।
कलौ स्त्रियो भविष्यन्ति तदा केशैरलंकृताः ॥ २३०.१७॥
परित्यक्ष्यन्ति भर्तारं वित्तहीनं तथा स्त्रियः ।
भर्ता भविष्यति कलौ वित्तवान् एव योषिताम् ॥ २३०.१८॥
यो यो ददाति बहुलं स स स्वामी तदा नृणाम् ।
स्वामित्वहेतुसम्बन्धो भविताभिजनस्तदा ॥ २३०.१९॥
गृहान्ता द्रव्यसंघाता द्रव्यान्ता च तथा मतिः ।
अर्थाश्चाथोपभोगान्ता भविष्यन्ति तदा कलौ ॥ २३०.२०॥
स्त्रियः कलौ भविष्यन्ति स्वैरिण्यो ललितस्पृहाः ।
अन्यायावाप्तवित्तेषु पुरुषेषु स्पृहालवः ॥ २३०.२१॥
अभ्यर्थितोऽपि सुहृदा स्वार्थहानिं तु मानवः ।
पणस्यार्धार्धमात्रेऽपि करिष्यति तदा द्विजाः ॥ २३०.२२॥
सदा सपौरुषं चेतो भावि विप्र तदा कलौ ।
क्षीरप्रदानसम्बन्धि भाति गोषु च गौरवम् ॥ २३०.२३॥
अनावृष्टिभयात् प्रायः प्रजाः क्षुद्भयकातराः ।
भविष्यन्ति तदा सर्वा गगनासक्तदृष्टयः ॥ २३०.२४॥
मूलपर्णफलाहारास्तापसा इव मानवाः ।
आत्मानं घातयिष्यन्ति तदावृष्ट्याभिदुःखिताः ॥ २३०.२५॥
दुर्भिक्षमेव सततं सदा क्लेशमनीश्वराः ।
प्राप्स्यन्ति व्याहतसुखं प्रमादान् मानवाः कलौ ॥ २३०.२६॥
अस्नातभोजिनो नाग्नि+ ।
देवतातिथिपूजनम् ।
करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् ॥ २३०.२७॥
लोलुपा ह्रस्वदेहाश्च बह्वन्नादनतत्पराः ।
बहुप्रजाल्पभाग्याश्च भविष्यन्ति कलौ स्त्रियः ॥ २३०.२८॥
उभाभ्यामथ पाणिभ्यां शिरःकण्डूयनं स्त्रियः ।
कुर्वत्यो गुरुभर्तृणामाज्ञां भेत्स्यन्त्यनावृताः ॥ २३०.२९॥
स्वपोषणपराः क्रुद्धा देहसंस्कारवर्जिताः ।
परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः ॥ २३०.३०॥