अध्याय 23, Verse 1
मुनय ऊचुः ।
कथितं भवता सर्वमस्माकं सकलं तथा ।
भुवर्लोकादिकांल्लोकाञ् श्रोतुमिच्छामहे वयम् ॥ २३.१॥
Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
कथितं भवता सर्वमस्माकं सकलं तथा ।
भुवर्लोकादिकांल्लोकाञ् श्रोतुमिच्छामहे वयम् ॥ २३.१॥
तथैव ग्रहसंस्थानं प्रमाणानि यथा तथा ।
समाचक्ष्व महाभाग यथावल्लोमहर्षण ॥ २३.२॥
लोमहर्षण उवाच ।
रविचन्द्रमसोर्यावन् मयूखैरवभास्यते ।
ससमुद्रसरिच्छैला तावती पृथिवी स्मृता ॥ २३.३॥
यावत्प्रमाणा पृथिवी विस्तारपरिमण्डला ।
नभस्तावत्प्रमाणं हि विस्तारपरिमण्डलम् ॥ २३.४॥
भूमेर्योजनलक्षे तु सौरं विप्रास्तु मण्डलम् ।
लक्षे दिवाकराच्चापि मण्डलं शशिनः स्थितम् ॥ २३.५॥
पूर्णे शतसहस्रे तु योजनानां निशाकरात् ।
नक्षत्रमण्डलं कृत्स्नमुपरिष्टात् प्रकाशते ॥ २३.६॥
द्विलक्षे चोत्तरे विप्रा बुधो नक्षत्रमण्डलात् ।
तावत्प्रमाणभागे तु बुधस्याप्युशना स्थितः ॥ २३.७॥
अङ्गारकोऽपि शुक्रस्य तत्प्रमाणे व्यवस्थितः ।
लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः ॥ २३.८॥
सौरिर्बृहस्पतेरूर्ध्वं द्विलक्षे समवस्थितः ।
सप्तर्षिमण्डलं तस्माल्लक्षमेकं द्विजोत्तमाः ॥ २३.९॥
ऋषिभ्यस्तु सहस्राणां शताद् ऊर्ध्वं व्यवस्थितः ।
मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ॥ २३.१०॥
त्रैलोक्यमेतत् कथितं संक्षेपेण द्विजोत्तमाः ।
इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता ॥ २३.११॥
ध्रुवाद् ऊर्ध्वं महर्लोको यत्र ते कल्पवासिनः ।
एकयोजनकोटी तु महर्लोको विधीयते ॥ २३.१२॥
द्वे कोट्यौ तु जनो लोको यत्र ते ब्रह्मणः सुताः ।
सनन्दनाद्याः कथिता विप्राश्चामलचेतसः ॥ २३.१३॥
चतुर्गुणोत्तरं चोर्ध्वं जनलोकात् तपः स्मृतम् ।
वैराजा यत्र ते देवाः स्थिता देहविवर्जिताः ॥ २३.१४॥
षड्गुणेन तपोलोकात् सत्यलोको विराजते ।
अपुनर्मारकं यत्र सिद्धादिमुनिसेवितम् ॥ २३.१५॥
पादगम्यं तु यत् किंचिद् वस्त्वस्ति पृथिवीमयम् ।
स भूर्लोकः समाख्यातो विस्तारोऽस्य मयोदितः ॥ २३.१६॥
भूमिसूर्यान्तरं यत् तु सिद्धादिमुनिसेवितम् ।
भुवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तमाः ॥ २३.१७॥
ध्रुवसूर्यान्तरं यत् तु नियुतानि चतुर्दश ।
स्वर्लोकः सोऽपि कथितो लोकसंस्थानचिन्तकैः ॥ २३.१८॥
त्रैलोक्यमेतत् कृतकं विप्रैश्च परिपठ्यते ।
जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ॥ २३.१९॥
कृतकाकृतको मध्ये महर्लोक इति स्मृतः ।
शून्यो भवति कल्पान्ते योऽन्तं न च विनश्यति ॥ २३.२०॥
एते सप्त महालोका मया वः कथिता द्विजाः ।
पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः ॥ २३.२१॥
एतद् अण्डकटाहेन तिर्यग् ऊर्ध्वमधस्तथा ।
कपित्थस्य यथा बीजं सर्वतो वै समावृतम् ॥ २३.२२॥
दशोत्तरेण पयसा द्विजाश्चाण्डं च तद् वृतम् ।
स चाम्बुपरिवारोऽसौ वह्निना वेष्टितो बहिः ॥ २३.२३॥
वह्निस्तु वायुना वायुर्विप्रास्तु नभसावृतः ।
आकाशोऽपि मुनिश्रेष्ठा महता परिवेष्टितः ॥ २३.२४॥
दशोत्तराण्यशेषाणि विप्राश्चैतानि सप्त वै ।
महान्तं च समावृत्य प्रधानं समवस्थितम् ॥ २३.२५॥
अनन्तस्य न तस्यान्तः संख्यानं चापि विद्यते ।
तद् अनन्तमसंख्यातं प्रमाणेनापि वै यतः ॥ २३.२६॥
हेतुभूतमशेषस्य प्रकृतिः सा परा द्विजाः ।
अण्डानां तु सहस्राणां सहस्राण्ययुतानि च ॥ २३.२७॥
ईदृशानां तथा तत्र कोटिकोटिशतानि च ।
दारुण्यग्निर्यथा तैलं तिले तद्वत् पुमान् इह ॥ २३.२८॥
प्रधानेऽवस्थितो व्यापी चेतनात्मनिवेदनः ।
प्रधानं च पुमांश्चैव सर्वभूतानुभूतया ॥ २३.२९॥
विष्णुशक्त्या द्विजश्रेष्ठा धृतौ संश्रयधर्मिणौ ।
तयोः सैव पृथग्भावे कारणं संश्रयस्य च ॥ २३.३०॥