अध्याय 229, Verse 1
मुनय ऊचुः ।
श्रुतं फलं गीतिकाया अस्माभिः सुप्रजागरे ।
कृष्णस्य येन चाण्डालो गतोऽसौ परमां गतिम् ॥ २२९.१॥
Containing 88 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
श्रुतं फलं गीतिकाया अस्माभिः सुप्रजागरे ।
कृष्णस्य येन चाण्डालो गतोऽसौ परमां गतिम् ॥ २२९.१॥
यथा विष्णौ भवेद् भक्तिस्तन् नो ब्रूहि महामते ।
तपसा कर्मणा येन श्रोतुमिच्छाम साम्प्रतम् ॥ २२९.२॥
व्यास उवाच ।
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्यनुपूर्वशः ।
यथा कृष्णे भवेद् भक्तिः पुरुषस्य महाफला ॥ २२९.३॥
संसारेऽस्मिन् महाघोरे सर्वभूतभयावहे ।
महामोहकरे नृणां नानादुःखशताकुले ॥ २२९.४॥
तिर्यग्योनिसहस्रेषु जायमानः पुनः पुनः ।
कथंचिल्लभते जन्म देही मानुष्यकं द्विजाः ॥ २२९.५॥
मानुषत्वेऽपि विप्रत्वं विप्रत्वेऽपि विवेकिता ।
विवेकाद् धर्मबुद्धिस्तु बुद्ध्या तु श्रेयसां ग्रहः ॥ २२९.६॥
यावत् पापक्षयं पुंसां न भवेज्जन्म संचितम् ।
तावन् न जायते भक्तिर्वासुदेवे जगन्मये ॥ २२९.७॥
तस्माद् वक्ष्यामि भो विप्रा भक्तिः कृष्णे यथा भवेत् ।
अन्यदेवेषु या भक्तिः पुरुषस्येह जायते ॥ २२९.८॥
कर्मणा मनसा वाचा तद्गतेनान्तरात्मना ।
तेन तस्य भवेद् भक्तिर्यजने मुनिसत्तमाः ॥ २२९.९॥
स करोति ततो विप्रा भक्तिं चाग्नेः समाहितः ।
तुष्टे हुताशने तस्य भक्तिर्भवति भास्करे ॥ २२९.१०॥
पूजां करोति सततमादित्यस्य ततो द्विजाः ।
प्रसन्ने भास्करे तस्य भक्तिर्भवति शंकरे ॥ २२९.११॥
पूजां करोति विधिवत् स तु शम्भोः प्रयत्नतः ।
तुष्टे त्रिलोचने तस्य भक्तिर्भवति केशवे ॥ २२९.१२॥
सम्पूज्य तं जगन्नाथं वासुदेवाख्यमव्ययम् ।
ततो भुक्तिं च मुक्तिं च स प्राप्नोति द्विजोत्तमाः ॥ २२९.१३॥
मुनय ऊचुः ।
अवैष्णवा नरा ये तु दृश्यन्ते च महामुने ।
किं ते विष्णुं नार्चयन्ति ब्रूहि तत्कारणं द्विज ॥ २२९.१४॥
व्यास उवाच ।
द्वौ भूतसर्गौ विख्यातौ लोकेऽस्मिन् मुनिसत्तमाः ।
आसुरश्च तथा दैवः पुरा सृष्टः स्वयम्भुवा ॥ २२९.१५॥
दैवीं प्रकृतिमासाद्य पूजयन्ति ततोऽच्युतम् ।
आसुरीं योनिमापन्ना दूषयन्ति नरा हरिम् ॥ २२९.१६॥
मायया हतविज्ञाना विष्णोस्ते तु नराधमाः ।
अप्राप्य तं हरिं विप्रास्ततो यान्त्यधमां गतिम् ॥ २२९.१७॥
तस्य या गह्वरी माया दुर्विज्ञेया सुरासुरैः ।
महामोहकरी नृणां दुस्तरा चाकृतात्मभिः ॥ २२९.१८॥
मुनय ऊचुः ।
इच्छामस्तां महामायां ज्ञातुं विष्णोः सुदुस्तराम् ।
वक्तुमर्हसि धर्मज्ञ परं कौतूहलं हि नः ॥ २२९.१९॥
व्यास उवाच ।
स्वप्नेन्द्रजालसंकाशा माया सा लोककर्षणी ।
कः शक्नोति हरेर्मायां ज्ञातुं तां केशवाद् ऋते ॥ २२९.२०॥
या वृत्ता ब्राह्मणस्यासीन् मायार्थे नारदस्य च ।
विडम्बनां तु तां विप्राः शृणुध्वं गदतो मम ॥ २२९.२१॥
प्राग् आसीन् नृपतिः श्रीमान् आग्नीध्र इति विश्रुतः ।
नगरे कामदमनस्तस्याथ तनयः शुचिः ॥ २२९.२२॥
धर्मारामः क्षमाशीलः पितृशुश्रूषणे रतः ।
प्रजानुरञ्जको दक्षः श्रुतिशास्त्रकृतश्रमः ॥ २२९.२३॥
पितास्य त्वकरोद् यत्नं विवाहाय न चैच्छत ।
तं पिता प्राह किमिति नेच्छसे दारसंग्रहम् ॥ २२९.२४॥
सर्वमेतत् सुखार्थं हि वाञ्छन्ति मनुजाः किल ।
सुखमूला हि दाराश्च तस्मात् तं त्वं समाचर ॥ २२९.२५॥
स पितुर्वचनं श्रुत्वा तूष्णीमास्ते च गौरवात् ।
मुहुर्मुहुस्तं च पिता चोदयामास भो द्विजाः ॥ २२९.२६॥
अथासौ पितरं प्राह तात नामानुरूपता ।
मया समाश्रिता व्यक्ता वैष्णवी परिपालिनी ॥ २२९.२७॥
तं पिता प्राह संगम्य नैष धर्मोऽस्ति पुत्रक ।
न विधारयितव्या स्यात् पुरुषेण विपश्चिता ॥ २२९.२८॥
कुरु मद्वचनं पुत्र प्रभुरस्मि पिता तव ।
मा निमज्ज कुलं मह्यं नरके संततिक्षयात् ॥ २२९.२९॥
स हि तं पितुरादेशं श्रुत्वा प्राह सुतो वशी ।
प्रीतः संस्मृत्य पौराणीं संसारस्य विचित्रताम् ॥ २२९.३०॥