अध्याय 228, Verse 1
व्यास उवाच ।
एकादश्यामुभे पक्षे निराहारः समाहितः ।
स्नात्वा सम्यग् विधानेन धौतवासा जितेन्द्रियः ॥ २२८.१॥
Containing 152 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
एकादश्यामुभे पक्षे निराहारः समाहितः ।
स्नात्वा सम्यग् विधानेन धौतवासा जितेन्द्रियः ॥ २२८.१॥
सम्पूज्य विधिवद् विष्णुं श्रद्धया सुसमाहितः ।
पुष्पैर्गन्धैस्तथा दीपैर्धूपैर्नैवेद्यकैस्तथा ॥ २२८.२॥
उपहारैर्बहुविधैर्जप्यैर्होमप्रदक्षिणैः ।
स्तोत्रैर्नानाविधैर्दिव्यैर्गीतवाद्यैर्मनोहरैः ॥ २२८.३॥
दण्डवत्प्रणिपातैश्च जयशब्दैस्तथोत्तमैः ।
एवं सम्पूज्य विधिवद् रात्रौ कृत्वा प्रजागरम् ॥ २२८.४॥
कथां वा गीतिकां विष्णोर्गायन् विष्णुपरायणः ।
याति विष्णोः परं स्थानं नरो नास्त्यत्र संशयः ॥ २२८.५॥
मुनय ऊचुः ।
प्रजागरे गीतिकायाः फलं विष्णोर्महामुने ।
ब्रूहि तच्छ्रोतुमिच्छामः परं कौतूहलं हि नः ॥ २२८.६॥
व्यास उवाच ।
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्याम्यनुपूर्वशः ।
गीतिकायाः फलं विष्णोर्जागरे यद् उदाहृतम् ॥ २२८.७॥
अवन्ती नाम नगरी बभूव भुवि विश्रुता ।
तत्रास्ते भगवान् विष्णुः शङ्खचक्रगदाधरः ॥ २२८.८॥
तस्या नगर्याः पर्यन्ते चाण्डालो गीतिकोविदः ।
सद्वृत्त्योत्पादितधनो भृत्यानां भरणे रतः ॥ २२८.९॥
विष्णुभक्तः स चाण्डालो मासि मासि दृढव्रतः ।
एकादश्यां समागम्य सोपवासोऽथ गायति ॥ २२८.१०॥
गीतिका विष्णुनामाङ्काः प्रादुर्भावसमाश्रिताः ।
गान्धारषड्जनैषाद+ ।
स्वरपञ्चमधैवतैः ॥ २२८.११॥
रात्रिजागरणे विष्णुं गाथाभिरुपगायति ।
प्रभाते च प्रणम्येशं द्वादश्यां गृहमेत्य च ॥ २२८.१२॥
जामातृभागिनेयांश्च भोजयित्वा सकन्यकाः ।
ततः सपरिवारस्तु पश्चाद् भुङ्क्ते द्विजोत्तमाः ॥ २२८.१३॥
एवं तस्यासतस्तत्र कुर्वतो विष्णुप्रीणनम् ।
गीतिकाभिर्विचित्राभिर्वयः प्रतिगतं बहु ॥ २२८.१४॥
एकदा चैत्रमासे तु कृष्णैकादशिगोचरे ।
विष्णुशुश्रूषणार्थाय ययौ वनमनुत्तमम् ॥ २२८.१५॥
वनजातानि पुष्पाणि ग्रहीतुं भक्तितत्परः ।
क्षिप्रातटे महारण्ये विभीतकतरोरधः ॥ २२८.१६॥
दृष्टः स राक्षसेनाथ गृहीतश्चापि भक्षितुम् ।
चाण्डालस्तमथोवाच नाद्य भक्ष्यस्त्वया ह्यहम् ॥ २२८.१७॥
प्रातर्भोक्ष्यसि कल्याण सत्यमेष्याम्यहं पुनः ।
अद्य कार्यं मम महत् तस्मान् मुञ्चस्व राक्षस ॥ २२८.१८॥
श्वः सत्येन समेष्यामि ततः खादसि मामिति ।
विष्णुशुश्रूषणार्थाय रात्रिजागरणं मया ।
कार्यं न व्रतविघ्नं मे कर्तुमर्हसि राक्षस ॥ २२८.१९॥
व्यास उवाच ।
तं राक्षसः प्रत्युवाच दशरात्रमभोजनम् ।
ममाभूद् अद्य च भवान् मया लब्धो मतङ्गज ॥ २२८.२०॥
न मोक्ष्ये भक्षयिष्यामि क्षुधया पीडितो भृशम् ।
निशाचरवचः श्रुत्वा मातङ्गस्तमुवाच ह ।
सान्त्वयञ् श्लक्ष्णया वाचा स सत्यवचनैर्दृढैः ॥ २२८.२१॥
मातङ्ग उवाच ।
सत्यमूलं जगत् सर्वं ब्रह्मराक्षस तच्छृणु ।
सत्येनाहं शपिष्यामि पुनरागमनाय च ॥ २२८.२२॥
आदित्यश्चन्द्रमा वह्निर्वायुर्भूर्द्यौर्जलं मनः ।
अहोरात्रं यमः संध्ये द्वे विदुर्नरचेष्टितम् ॥ २२८.२३॥
परदारेषु यत् पापं यत् परद्रव्यहारिषु ।
यच्च ब्रह्महनः पापं सुरापे गुरुतल्पगे ॥ २२८.२४॥
वन्ध्यापतेश्च यत् पापं यत् पापं वृषलीपतेः ।
यच्च देवलके पापं मत्स्यमांसाशिनश्च यत् ॥ २२८.२५॥
क्रोडमांसाशिनो यच्च कूर्ममांसाशिनश्च यत् ।
वृथा मांसाशिनो यच्च पृष्ठमांसाशिनश्च यत् ॥ २२८.२६॥
कृतघ्ने मित्रघातके यत् पापं दिधिषूपतौ ।
सूतकस्य च यत् पापं यत् पापं क्रूरकर्मणः ॥ २२८.२७॥
कृपणस्य च यत् पापं यच्च वन्ध्यातिथेरपि ।
अमावास्याष्टमी षष्ठी कृष्णशुक्लचतुर्दशी ॥ २२८.२८॥
तासु यद् गमनात् पापं यद् विप्रो व्रजति स्त्रियम् ।
रजस्वलां तथा पश्चाच्छ्राद्धं कृत्वा स्त्रियं व्रजेत् ॥ २२८.२९॥
सर्वस्वस्नातभोज्यानां यत् पापं मलभोजने ।
मित्रभार्यां गच्छतां च यत् पापं पिशुनस्य च ॥ २२८.३०॥