अध्याय 227, Verse 1
मुनय ऊचुः ।
अहो कृष्णस्य माहात्म्यं श्रुतमस्माभिरद्भुतम् ।
सर्वपापहरं पुण्यं धन्यं संसारनाशनम् ॥ २२७.१॥
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
अहो कृष्णस्य माहात्म्यं श्रुतमस्माभिरद्भुतम् ।
सर्वपापहरं पुण्यं धन्यं संसारनाशनम् ॥ २२७.१॥
सम्पूज्य विधिवद् भक्त्या वासुदेवं महामुने ।
कां गतिं यान्ति मनुजा वासुदेवार्चने रताः ॥ २२७.२॥
किं प्राप्नुवन्ति ते मोक्षं किं वा स्वर्गं महामुने ।
अथवा किं मुनिश्रेष्ठ प्राप्नुवन्त्युभयं फलम् ॥ २२७.३॥
छेत्तुमर्हसि सर्वज्ञ संशयं नो हृदि स्थितम् ।
छेत्ता नान्योऽस्ति लोकेऽस्मिंस्त्वदृते मुनिसत्तम ॥ २२७.४॥
व्यास उवाच ।
साधु साधु मुनिश्रेष्ठा भवद्भिर्यद् उदाहृतम् ।
शृणुध्वमानुपूर्व्येण वैष्णवानां सुखावहम् ॥ २२७.५॥
दीक्षामात्रेण कृष्णस्य नरा मोक्षं व्रजन्ति वै ।
किं पुनर्ये सदा भक्त्या पूजयन्त्यच्युतं द्विजाः ॥ २२७.६॥
न तेषां दुर्लभः स्वर्गो मोक्षश्च मुनिसत्तमाः ।
लभन्ते वैष्णवाः कामान् यान् यान् वाञ्छन्ति दुर्लभान् ॥ २२७.७॥
रत्नपर्वतमारुह्य नरो रत्नं यथाददेत् ।
स्वेच्छया मुनिशार्दूलास्तथा कृष्णान् मनोरथान् ॥ २२७.८॥
कल्पवृक्षं समासाद्य फलानि स्वेच्छया यथा ।
गृह्णाति पुरुषो विप्रास्तथा कृष्णान् मनोरथान् ॥ २२७.९॥
श्रद्धया विधिवत् पूज्य वासुदेवं जगद्गुरुम् ।
धर्मार्थकाममोक्षाणां प्राप्नुवन्ति नराः फलम् ॥ २२७.१०॥
आराध्य तं जगन्नाथं विशुद्धेनान्तरात्मना ।
प्राप्नुवन्ति नराः कामान् सुराणामपि दुर्लभान् ॥ २२७.११॥
येऽर्चयन्ति सदा भक्त्या वासुदेवाख्यमव्ययम् ।
न तेषां दुर्लभं किंचिद् विद्यते भुवनत्रये ॥ २२७.१२॥
धन्यास्ते पुरुषा लोके येऽर्चयन्ति सदा हरिम् ।
सर्वपापहरं देवं सर्वकामफलप्रदम् ॥ २२७.१३॥
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः ।
सम्पूज्य तं सुरवरं प्राप्नुवन्ति परां गतिम् ॥ २२७.१४॥
तस्माच्छृणुध्वं मुनयो यत् पृच्छत ममानघाः ।
प्रवक्ष्यामि समासेन गतिं तेषां महात्मनाम् ॥ २२७.१५॥
त्यक्त्वा मानुष्यकं देहं रोगायतनमध्रुवम् ।
जरामरणसंयुक्तं जलबुद्बुदसंनिभम् ॥ २२७.१६॥
मांसशोणितदुर्गन्धं विष्ठामूत्रादिभिर्युतम् ।
अस्थिस्थूणममेध्यं च स्नायुचर्मशिरान्वितम् ॥ २२७.१७॥
कामगेन विमानेन दिव्यगन्धर्वनादिना ।
तरुणादित्यवर्णेन किङ्किणीजालमालिना ॥ २२७.१८॥
उपगीयमाना गन्धर्वैरप्सरोभिरलंकृताः ।
व्रजन्ति लोकपालानां भवनं तु पृथक् पृथक् ॥ २२७.१९॥
मन्वन्तरप्रमाणं तु भुक्त्वा कालं पृथक् पृथक् ।
भुवनानि पृथक् तेषां सर्वभोगैरलंकृताः ॥ २२७.२०॥
ततोऽन्तरिक्षं लोकं ते यान्ति सर्वसुखप्रदम् ।
तत्र भुक्त्वा वरान् भोगान् दशमन्वन्तरं द्विजाः ॥ २२७.२१॥
तस्माद् गन्धर्वलोकं तु यान्ति वै वैष्णवा द्विजाः ।
विंशन्मन्वन्तरं कालं तत्र भुक्त्वा मनोरमान् ॥ २२७.२२॥
भोगान् आदित्यलोकं तु तस्माद् यान्ति सुपूजिताः ।
त्रिंशन्मन्वन्तरं तत्र भोगान् भुक्त्वातिदैवतान् ॥ २२७.२३॥
तस्माद् व्रजन्ति ते विप्राश्चन्द्रलोकं सुखप्रदम् ।
मन्वन्तराणां ते तत्र चत्वारिंशद् गुणान्वितम् ॥ २२७.२४॥
कालं भुक्त्वा शुभान् भोगाञ् जरामरणवर्जिताः ।
तस्मान् नक्षत्रलोकं तु विमानैः समलंकृतम् ॥ २२७.२५॥
व्रजन्ति ते मुनिश्रेष्ठा गुणैः सर्वैरलंकृताः ।
मन्वन्तराणां पञ्चाशद् भुक्त्वा भोगान् यथेप्सितान् ॥ २२७.२६॥
तस्माद् व्रजन्ति ते विप्रा देवलोकं सुदुर्लभम् ।
षष्टिमन्वन्तरं यावत् तत्र भुक्त्वा सुदुर्लभान् ॥ २२७.२७॥
भोगान् नानाविधान् विप्रा ऋग्द्व्यष्टकसमन्वितान् ।
शक्रलोकं पुनस्तस्माद् गच्छन्ति सुरपूजिताः ॥ २२७.२८॥
मन्वन्तराणां तत्रैव भुक्त्वा कालं च सप्ततिम् ।
भोगान् उच्चावचान् दिव्यान् मनसः प्रीतिवर्धनान् ॥ २२७.२९॥
तस्माद् व्रजन्ति ते लोकं प्राजापत्यमनुत्तमम् ।
भुक्त्वा तत्रेप्सितान् भोगान् सर्वकामगुणान्वितान् ॥ २२७.३०॥