अध्याय 226, Verse 1
व्यास उवाच ।
श्रुत्वैवं सा जगन्माता भर्तुर्वचनमादितः ।
हृष्टा बभूव सुप्रीता विस्मिता च तदा द्विजाः ॥ २२६.१॥
Containing 67 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
श्रुत्वैवं सा जगन्माता भर्तुर्वचनमादितः ।
हृष्टा बभूव सुप्रीता विस्मिता च तदा द्विजाः ॥ २२६.१॥
ये तत्रासन् मुनिवरास्त्रिपुरारेः समीपतः ।
तीर्थयात्राप्रसङ्गेन गतास्तस्मिन् गिरौ द्विजाः ॥ २२६.२॥
तेऽपि सम्पूज्य तं देवं शूलपाणिं प्रणम्य च ।
पप्रच्छुः संशयं चैव लोकानां हितकाम्यया ॥ २२६.३॥
मुनय ऊचुः ।
त्रिलोचन नमस्तेऽस्तु दक्षक्रतुविनाशन ।
पृच्छामस्त्वां जगन्नाथ संशयं हृदि संस्थितम् ॥ २२६.४॥
संसारेऽस्मिन् महाघोरे भैरवे लोमहर्षणे ।
भ्रमन्ति सुचिरं कालं पुरुषाश्चाल्पमेधसः ॥ २२६.५॥
येनोपायेन मुच्यन्ते जन्मसंसारबन्धनात् ।
ब्रूहि तच्छ्रोतुमिच्छामः परं कौतूहलं हि नः ॥ २२६.६॥
महेश्वर उवाच ।
कर्मपाशनिबद्धानां नराणां दुःखभागिनाम् ।
नान्योपायं प्रपश्यामि वासुदेवात् परं द्विजाः ॥ २२६.७॥
ये पूजयन्ति तं देवं शङ्खचक्रगदाधरम् ।
वाङ्मनःकर्मभिः सम्यक् ते यान्ति परमां गतिम् ॥ २२६.८॥
किं तेषां जीवितेनेह पशुवच्चेष्टितेन च ।
येषां न प्रवणं चित्तं वासुदेवे जगन्मये ॥ २२६.९॥
ऋषय ऊचुः ।
पिनाकिन् भगनेत्रघ्न सर्वलोकनमस्कृत ।
माहात्म्यं वासुदेवस्य श्रोतुमिच्छाम शंकर ॥ २२६.१०॥
महेश्वर उवाच ।
पितामहाद् अपि वरः शाश्वतः पुरुषो हरिः ।
कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः ॥ २२६.११॥
दशबाहुर्महातेजा देवतारिनिषूदनः ।
श्रीवत्साङ्को हृषीकेशः सर्वदैवतयूथपः ॥ २२६.१२॥
ब्रह्मा तस्योदरभवस्तस्याहं च शिरोभवः ।
शिरोरुहेभ्यो ज्योतींषि रोमभ्यश्च सुरासुराः ॥ २२६.१३॥
ऋषयो देहसम्भूतास्तस्य लोकाश्च शाश्वताः ।
पितामहगृहं साक्षात् सर्वदेवगृहं च सः ॥ २२६.१४॥
सोऽस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः ।
संहर्ता चैव भूतानां स्थावरस्य चरस्य च ॥ २२६.१५॥
स हि देवदेवः साक्षाद् देवनाथः परंतपः ।
सर्वज्ञः सर्वसंस्रष्टा सर्वगः सर्वतोमुखः ॥ २२६.१६॥
न तस्मात् परमं भूतं त्रिषु लोकेषु किंचन ।
सनातनो महाभागो गोविन्द इति विश्रुतः ॥ २२६.१७॥
स सर्वान् पार्थिवान् संख्ये घातयिष्यति मानदः ।
सुरकार्यार्थमुत्पन्नो मानुष्यं वपुरास्थितः ॥ २२६.१८॥
नहि देवगणाः शक्तास्त्रिविक्रमविनाकृताः ।
भुवने देवकार्याणि कर्तुं नायकवर्जितः ॥ २२६.१९॥
नायकः सर्वभूतानां सर्वभूतनमस्कृतः ।
एतस्य देवनाथस्य कार्यस्य च परस्य च ॥ २२६.२०॥
ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च ।
ब्रह्मा वसति नाभिस्थः शरीरेऽहं च संस्थितः ॥ २२६.२१॥
सर्वाः सुखं संस्थिताश्च शरीरे तस्य देवताः ।
स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः ॥ २२६.२२॥
शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वजः ।
उत्तमेन सुशीलेन शौचेन च दमेन च ॥ २२६.२३॥
पराक्रमेण वीर्येण वपुषा दर्शनेन च ।
आरोहणप्रमाणेन वीर्येणार्जवसम्पदा ॥ २२६.२४॥
आनृशंस्येन रूपेण बलेन च समन्वितः ।
अस्त्रैः समुदितः सर्वैर्दिव्यैरद्भुतदर्शनैः ॥ २२६.२५॥
योगमायासहस्राक्षो विरूपाक्षो महामनाः ।
वाचा मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः ॥ २२६.२६॥
क्षमावांश्चानहंवादी स देवो ब्रह्मदायकः ।
भयहर्ता भयार्तानां मित्रानन्दविवर्धनः ॥ २२६.२७॥
शरण्यः सर्वभूतानां दीनानां पालने रतः ।
श्रुतवान् अथ सम्पन्नः सर्वभूतनमस्कृतः ॥ २२६.२८॥
समाश्रितानामुपकृच्छत्रूणां भयकृत् तथा ।
नीतिज्ञो नीतिसम्पन्नो ब्रह्मवादी जितेन्द्रियः ॥ २२६.२९॥
भवार्थमेव देवानां बुद्ध्या परमया युतः ।
प्राजापत्ये शुभे मार्गे मानवे धर्मसंस्कृते ॥ २२६.३०॥