अध्याय 225, Verse 1
उमोवाच ।
किंशीलः किंसमाचारः पुरुषः कैश्च कर्मभिः ।
स्वर्गं समभिपद्येत सम्प्रदानेन केन वा ॥ २२५.१॥
Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.
उमोवाच ।
किंशीलः किंसमाचारः पुरुषः कैश्च कर्मभिः ।
स्वर्गं समभिपद्येत सम्प्रदानेन केन वा ॥ २२५.१॥
महेश्वर उवाच ।
दाता ब्राह्मणसत्कर्ता दीनार्तकृपणादिषु ।
भक्षभोज्यान्नपानानां वाससां च महामतिः ॥ २२५.२॥
प्रतिश्रयान् सभाः कुर्यात् प्रपाः पुष्करिणीस्तथा ।
नित्यकादीनि कर्माणि करोति प्रयतः शुचिः ॥ २२५.३॥
आसनं शयनं यानं गृहं रत्नं धनं तथा ।
सस्यजातानि सर्वाणि सक्षेत्राण्यथ योषितः ॥ २२५.४॥
सुप्रशान्तमना नित्यं यः प्रयच्छति मानवः ।
एवम्भूतो नरो देवि देवलोकेऽभिजायते ॥ २२५.५॥
तत्रोष्य सुचिरं कालं भुक्त्वा भोगान् अनुत्तमान् ।
सहाप्सरोभिर्मुदितो रमित्वा नन्दनादिषु ॥ २२५.६॥
तस्माच्च्युतो महेशानि मानुषेषूपजायते ।
महाभागकुले देवि धनधान्यसमाचिते ॥ २२५.७॥
तत्र कामगुणैः सर्वैः समुपेतो मुदान्वितः ।
महाकार्यो महाभोगो धनी भवति मानवः ॥ २२५.८॥
एते देवि महाभागाः प्राणिनो दानशालिनः ।
ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः ॥ २२५.९॥
अपरे मानवा देवि प्रदानकृपणा द्विजाः ।
येऽन्नानि न प्रयच्छन्ति विद्यमानेऽप्यबुद्धयः ॥ २२५.१०॥
दीनान्धकृपणान् दृष्ट्वा भिक्षुकान् अतिथीन् अपि ।
याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः ॥ २२५.११॥
न धनानि न वासांसि न भोगान् न च काञ्चनम् ।
न गाश्च नान्नविकृतिं प्रयच्छन्ति कदाचन ॥ २२५.१२॥
अप्रलुब्धाश्च ये लुब्धा नास्तिका दानवर्जितः ।
एवम्भूता नरा देवि निरयं यान्त्यबुद्धयः ॥ २२५.१३॥
ते वै मनुष्यतां यान्ति यदा कालस्य पर्ययात् ।
धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः ॥ २२५.१४॥
क्षुत्पिपासापरीताश्च सर्वलोकबहिष्कृताः ।
निराशाः सर्वभोगेभ्यो जीवन्त्यधर्मजीविकाः ॥ २२५.१५॥
अल्पभोगकुले जाता अल्पभोगरता नराः ।
अनेन कर्मणा देवि भवन्त्यधनिनो नराः ॥ २२५.१६॥
अपरे दम्भिनो नित्यं मानिनः परतो रताः ।
आसनार्हस्य ये पीठं न यच्छन्त्यल्पचेतसः ॥ २२५.१७॥
मार्गार्हस्य च ये मार्गं न प्रयच्छन्त्यबुद्धयः ।
अर्घार्हान् न च संस्कारैरर्चयन्ति यथाविधि ॥ २२५.१८॥
पाद्यमाचमनीयं वा प्रयच्छन्त्यभिबुद्धयः ।
शुभं चाभिमतं प्रेम्णा गुरुं नाभिवदन्ति ये ॥ २२५.१९॥
अभिमानप्रवृद्धेन लोभेन सममास्थिताः ।
सम्मान्यांश्चावमन्यन्ते वृद्धान् परिभवन्ति च ॥ २२५.२०॥
एवंविधा नरा देवि सर्वे निरयगामिनः ।
ते चेद् यदि नरास्तस्मान् निरयाद् उत्तरन्ति च ॥ २२५.२१॥
वर्षपूगैस्ततो जन्म लभन्ते कुत्सिते कुले ।
श्वपाकपुल्कसादीनां कुत्सितानामचेतसाम् ॥ २२५.२२॥
कुलेषु तेऽभिजायन्ते गुरुवृद्धोपतापिनः ।
न दम्भी न च मानी यो देवतातिथिपूजकः ॥ २२५.२३॥
लोकपूज्यो नमस्कर्ता प्रसूतो मधुरं वचः ।
सर्वकर्मप्रियकरः सर्वभूतप्रियः सदा ॥ २२५.२४॥
अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा ।
स्वागतेनैव सर्वेषां भूतानामविहिंसकः ॥ २२५.२५॥
यथार्थं सत्क्रियापूर्वमर्चयन्न् अवतिष्ठते ।
मार्गार्हाय ददन् मार्गं गुरुमभ्यर्चयन् सदा ॥ २२५.२६॥
अतिथिप्रग्रहरतस्तथाभ्यागतपूजकः ।
एवम्भूतो नरो देवि स्वर्गतिं प्रतिपद्यते ॥ २२५.२७॥
ततो मानुष्यमासाद्य विशिष्टकुलजो भवेत् ।
तत्रासौ विपुलैर्भोगैः सर्वरत्नसमायुतः ॥ २२५.२८॥
यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत् ।
सम्मतः सर्वभूतानां सर्वलोकनमस्कृतः ॥ २२५.२९॥
स्वकर्मफलमाप्नोति स्वयमेव नरः सदा ।
एष धर्मो मया प्रोक्तो विधात्रा स्वयमीरितः ॥ २२५.३०॥