अध्याय 224, Verse 1
उमोवाच ।
भगवन् सर्वभूतेश सुरासुरनमस्कृत ।
धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो ॥ २२४.१॥
Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.
उमोवाच ।
भगवन् सर्वभूतेश सुरासुरनमस्कृत ।
धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो ॥ २२४.१॥
कर्मणा मनसा वाचा त्रिविधैर्देहिनः सदा ।
बध्यन्ते बन्धनैः कैर्वा मुच्यन्ते वा कथं वद ॥ २२४.२॥
केन शीलेन वै देव कर्मणा कीदृशेन वा ।
समाचारैर्गुणैः कैर्वा स्वर्गं यान्तीह मानवाः ॥ २२४.३॥
शिव उवाच ।
देवि धर्मार्थतत्त्वज्ञे धर्मनित्ये उमे सदा ।
सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः ॥ २२४.४॥
सत्यधर्मरताः शान्ताः सर्वलिङ्गविवर्जिताः ।
नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः ॥ २२४.५॥
प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः सर्वदर्शिनः ।
वीतरागा विमुच्यन्ते पुरुषाः कर्मबन्धनैः ॥ २२४.६॥
कर्मणा मनसा वाचा ये न हिंसन्ति किंचन ।
ये न मज्जन्ति कस्मिंश्चित् ते न बध्नन्ति कर्मभिः ॥ २२४.७॥
प्राणातिपाताद् विरताः शीलवन्तो दयान्विताः ।
तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः ॥ २२४.८॥
सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु ।
त्यक्तहिंस्रसमाचारास्ते नराः स्वर्गगामिनः ॥ २२४.९॥
परस्वनिर्ममा नित्यं परदारविवर्जिकाः ।
धर्मलब्धार्थभोक्तारस्ते नराः स्वर्गगामिनः ॥ २२४.१०॥
मातृवत् स्वसृवच्चैव नित्यं दुहितृवच्च ये ।
परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः ॥ २२४.११॥
स्वदारनिरता ये च ऋतुकालाभिगामिनः ।
अग्राम्यसुखभोगाश्च ते नराः स्वर्गगामिनः ॥ २२४.१२॥
स्तैन्यान् निवृत्ताः सततं संतुष्टाः स्वधनेन च ।
स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः ॥ २२४.१३॥
परदारेषु ये नित्यं चारित्रावृतलोचनाः ।
जितेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः ॥ २२४.१४॥
एष दैवकृतो मार्गः सेवितव्यः सदा नरैः ।
अकषायकृतश्चैव मार्गः सेव्यः सदा बुधैः ॥ २२४.१५॥
अवृथापकृतश्चैव मार्गः सेव्यः सदा बुधैः ।
दानकर्मतपोयुक्तः शीलशौचदयात्मकः ।
स्वर्गमार्गमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः ॥ २२४.१६॥
उमोवाच ।
वाचा तु बध्यते येन मुच्यते ह्यथवा पुनः ।
तानि कर्माणि मे देव वद भूतपतेऽनघ ॥ २२४.१७॥
शिव उवाच ।
आत्महेतोः परार्थे वा अधर्माश्रितमेव च ।
ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥ २२४.१८॥
वृत्त्यर्थं धर्महेतोर्वा कामकारात् तथैव च ।
अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥ २२४.१९॥
श्लक्ष्णां वाणीं स्वच्छवर्णां मधुरां पापवर्जिताम् ।
स्वगतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ॥ २२४.२०॥
परुषं ये न भाषन्ते कटुकं निष्ठुरं तथा ।
न पैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः ॥ २२४.२१॥
पिशुनं न प्रभाषन्ते मित्रभेदकरं तथा ।
परपीडाकरं चैव ते नराः स्वर्गगामिनः ॥ २२४.२२॥
ये वर्जयन्ति परुषं परद्रोहं च मानवाः ।
सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः ॥ २२४.२३॥
शठप्रलापाद् विरता विरुद्धपरिवर्जकाः ।
सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः ॥ २२४.२४॥
न कोपाद् व्याहरन्ते ये वाचं हृदयदारिणीम् ।
शान्तिं विन्दन्ति ये क्रुद्धास्ते नराः स्वर्गगामिनः ॥ २२४.२५॥
एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः ।
शुभसत्यगुणैर्नित्यं वर्जनीया मृषा बुधैः ॥ २२४.२६॥
उमोवाच ।
मनसा बध्यते येन कर्मणा पुरुषः सदा ।
तन् मे ब्रूहि महाभाग देवदेव पिनाकधृक् ॥ २२४.२७॥
महेश्वर उवाच ।
मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा ।
स्वर्गं गच्छन्ति कल्याणि तन् मे कीर्तयतः शृणु ॥ २२४.२८॥
दुष्प्रणीतेन मनसा दुष्प्रणीतान्तराकृतिः ।
नरो बध्येत येनेह शृणु वा तं शुभानने ॥ २२४.२९॥
अरण्ये विजने न्यस्तं परस्वं दृश्यते यदा ।
मनसापि न गृह्णन्ति ते नराः स्वर्गगामिनः ॥ २२४.३०॥