अध्याय 223, Verse 1
मुनय ऊचुः ।
सर्वज्ञस्त्वं महाभाग सर्वभूतहिते रतः ।
भूतं भव्यं भविष्यं च न तेऽस्त्यविदितं मुने ॥ २२३.१॥
Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
सर्वज्ञस्त्वं महाभाग सर्वभूतहिते रतः ।
भूतं भव्यं भविष्यं च न तेऽस्त्यविदितं मुने ॥ २२३.१॥
कर्मणा केन वर्णानामधमा जायते गतिः ।
उत्तमा च भवेत् केन ब्रूहि तेषां महामते ॥ २२३.२॥
शूद्रस्तु कर्मणा केन ब्राह्मणत्वं च गच्छति ।
श्रोतुमिच्छामहे केन ब्राह्मणः शूद्रतामियात् ॥ २२३.३॥
व्यास उवाच ।
हिमवच्छिखरे रम्ये नानाधातुविभूषिते ।
नानाद्रुमलताकीर्णे नानाश्चर्यसमन्विते ॥ २२३.४॥
तत्र स्थितं महादेवं त्रिपुरघ्नं त्रिलोचनम् ।
शैलराजसुता देवी प्रणिपत्य सुरेश्वरम् ॥ २२३.५॥
इमं प्रश्नं पुरा विप्रा अपृच्छच्चारुलोचना ।
तद् अहं सम्प्रवक्ष्यामि शृणुध्वं मम सत्तमाः ॥ २२३.६॥
उमोवाच ।
भगवन् भगनेत्रघ्न पूष्णो दन्तविनाशन ।
दक्षक्रतुहर त्र्यक्ष संशयो मे महान् अयम् ॥ २२३.७॥
चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयम्भुवा ।
केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम् ॥ २२३.८॥
वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् ।
प्रतिलोमे कथं देव शक्यो धर्मो निवर्तितुम् ॥ २२३.९॥
केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते ।
क्षत्रियः शूद्रतामेति केन वा कर्मणा विभो ॥ २२३.१०॥
एतं मे संशयं देव वद भूतपतेऽनघ ।
त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः ॥ २२३.११॥
शिव उवाच ।
ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद् ब्राह्मणः शुभे ।
क्षत्रियो वैश्यशूद्रौ वा निसर्गाद् इति मे मतिः ॥ २२३.१२॥
कर्मणा दुष्कृतेनेह स्थानाद् भ्रश्यति स द्विजः ।
श्रेष्ठं वर्णमनुप्राप्य तस्माद् आक्षिप्यते पुनः ॥ २२३.१३॥
स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति ।
क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयं स गच्छति ॥ २२३.१४॥
यश्च विप्रत्वमुत्सृज्य क्षत्रधर्मान् निषेवते ।
ब्राह्मण्यात् स परिभ्रष्टः क्षत्रयोनौ प्रजायते ॥ २२३.१५॥
वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः ।
ब्राह्मण्यं दुर्लभं प्राप्य करोत्यल्पमतिः सदा ॥ २२३.१६॥
स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात् ।
स्वधर्मात् प्रच्युतो विप्रस्ततः शूद्रत्वमाप्नुयात् ॥ २२३.१७॥
तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः ।
ब्रह्मलोकात् परिभ्रष्टः शूद्रयोनौ प्रजायते ॥ २२३.१८॥
क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि ।
स्वानि कर्माण्यपाकृत्य शूद्रकर्म निषेवते ॥ २२३.१९॥
स्वस्थानात् स परिभ्रष्टो वर्णसंकरतां गतः ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः ॥ २२३.२०॥
यस्तु शूद्रः स्वधर्मेण ज्ञानविज्ञानवाञ् शुचिः ।
धर्मज्ञो धर्मनिरतः स धर्मफलमश्नुते ॥ २२३.२१॥
इदं चैवापरं देवि ब्रह्मणा समुदाहृतम् ।
अध्यात्मं नैष्ठिकी सिद्धिर्धर्मकामैर्निषेव्यते ॥ २२३.२२॥
उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् ।
घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव वा क्वचित् ॥ २२३.२३॥
शूद्रान्नं गर्हितं देवि सदा देवैर्महात्मभिः ।
पितामहमुखोत्सृष्टं प्रमाणमिति मे मतिः ॥ २२३.२४॥
शूद्रान्नेनावशेषेण जठरे म्रियते द्विजः ।
आहिताग्निस्तथा यज्वा स शूद्रगतिभाग् भवेत् ॥ २२३.२५॥
तेन शूद्रान्नशेषेण ब्रह्मस्थानाद् अपाकृतः ।
ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा ॥ २२३.२६॥
यस्यान्नेनावशेषेण जठरे म्रियते द्विजः ।
तां तां योनिं व्रजेद् विप्रो यस्यान्नमुपजीवति ॥ २२३.२७॥
ब्राह्मणत्वं सुखं प्राप्य दुर्लभं योऽवमन्यते ।
अभोज्यान्नानि वाश्नाति स द्विजत्वात् पतेत वै ॥ २२३.२८॥
सुरापो ब्रह्महा स्तेयी चौरो भग्नव्रतोऽशुचिः ।
स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः ॥ २२३.२९॥
अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी ।
विहीनसेवी विप्रो हि पतते ब्रह्मयोनितः ॥ २२३.३०॥