अध्याय 222, Verse 1
मुनय ऊचुः ।
श्रोतुमिच्छामहे ब्रह्मन् वर्णधर्मान् विशेषतः ।
चतुराश्रमधर्मांश्च द्विजवर्य ब्रवीहि तान् ॥ २२२.१॥
Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
श्रोतुमिच्छामहे ब्रह्मन् वर्णधर्मान् विशेषतः ।
चतुराश्रमधर्मांश्च द्विजवर्य ब्रवीहि तान् ॥ २२२.१॥
व्यास उवाच ।
ब्राह्मणक्षत्रियविशां शूद्राणां च यथाक्रमम् ।
शृणुध्वं संयता भूत्वा वर्णधर्मान् मयोदितान् ॥ २२२.२॥
दानदयातपोदेव+ ।
यज्ञस्वाध्यायतत्परः ।
नित्योदकी भवेद् विप्रः कुर्याच्चाग्निपरिग्रहम् ॥ २२२.३॥
वृत्त्यर्थं याजयेत् त्वन्यान् द्विजान् अध्यापयेत् तथा ।
कुर्यात् प्रतिग्रहादानं यज्ञार्थं ज्ञानतो द्विजाः ॥ २२२.४॥
सर्वलोकहितं कुर्यान् नाहितं कस्यचिद् द्विजाः ।
मैत्री समस्तसत्त्वेषु ब्राह्मणस्योत्तमं धनम् ॥ २२२.५॥
गवि रत्ने च पारक्ये समबुद्धिर्भवेद् द्विजाः ।
ऋतावभिगमः पत्न्यां शस्यते वास्य भो द्विजाः ॥ २२२.६॥
दानानि दद्याद् इच्छातो द्विजेभ्यः क्षत्रियोऽपि हि ।
यजेच्च विविधैर्यज्ञैरधीयीत च भो द्विजाः ॥ २२२.७॥
शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका ।
तस्यापि प्रथमे कल्पे पृथिवीपरिपालनम् ॥ २२२.८॥
धरित्रीपालनेनैव कृतकृत्या नराधिपाः ।
भवन्ति नृपते रक्षा यतो यज्ञादिकर्मणाम् ॥ २२२.९॥
दुष्टानां शासनाद् राजा शिष्टानां परिपालनात् ।
प्राप्नोत्यभिमतांल्लोकान् वर्णसंस्थापको नृपः ॥ २२२.१०॥
पाशुपाल्यं वणिज्यां च कृषिं च मुनिसत्तमाः ।
वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥ २२२.११॥
तस्याप्यध्ययनं यज्ञो दानं धर्मश्च शस्यते ।
नित्यनैमित्तिकादीनामनुष्ठानं च कर्मणाम् ॥ २२२.१२॥
द्विजातिसंश्रयं कर्म तदर्थं तेन पोषणम् ।
क्रयविक्रयजैर्वापि धनैः कारुभवैस्तु वा ॥ २२२.१३॥
दानं दद्याच्च शूद्रोऽपि पाकयज्ञैर्यजेत च ।
पित्र्यादिकं च वै सर्वं शूद्रः कुर्वीत तेन वै ॥ २२२.१४॥
भृत्यादिभरणार्थाय सर्वेषां च परिग्रहाः ।
ऋतुकालाभिगमनं स्वदारेषु द्विजोत्तमाः ॥ २२२.१५॥
दया समस्तभूतेषु तितिक्षा नाभिमानिता ।
सत्यं शौचमनायासो मङ्गलं प्रियवादिता ॥ २२२.१६॥
मैत्री चैवास्पृहा तद्वद् अकार्पण्यं द्विजोत्तमाः ।
अनसूया च सामान्या वर्णानां कथिता गुणाः ॥ २२२.१७॥
आश्रमाणां च सर्वेषामेते सामान्यलक्षणाः ।
गुणास्तथोपधर्माश्च विप्रादीनामिमे द्विजाः ॥ २२२.१८॥
क्षात्रं कर्म द्विजस्योक्तं वैश्यकर्म तथापदि ।
राजन्यस्य च वैश्योक्तं शूद्रकर्माणि चैतयोः ॥ २२२.१९॥
ससामर्थ्ये सति त्याज्यमुभाभ्यामपि च द्विजाः ।
तद् एवापदि कर्तव्यं न कुर्यात् कर्मसंकरम् ॥ २२२.२०॥
इत्येते कथिता विप्रा वर्णधर्मा मयाद्य वै ।
धर्ममाश्रमिणां सम्यग् ब्रुवतोऽपि निबोधत ॥ २२२.२१॥
बालः कृतोपनयनो वेदाहरणतत्परः ।
गुरोर्गेहे वसन् विप्रा ब्रह्मचारी समाहितः ॥ २२२.२२॥
शौचाचाररतस्तत्र कार्यं शुश्रूषणं गुरोः ।
व्रतानि चरता ग्राह्यो वेदश्च कृतबुद्धिना ॥ २२२.२३॥
उभे संध्ये रविं विप्रास्तथैवाग्निं समाहितः ।
उपतिष्ठेत् तथा कुर्याद् गुरोरप्यभिवादनम् ॥ २२२.२४॥
स्थिते तिष्ठेद् व्रजेद् याति नीचैरासीत चासिते ।
शिष्यो गुरौ द्विजश्रेष्ठाः प्रतिकूलं च संत्यजेत् ॥ २२२.२५॥
तेनैवोक्तं पठेद् वेदं नान्यचित्तः पुरस्थितः ।
अनुज्ञातं च भिक्षान्नमश्नीयाद् गुरुणा ततः ॥ २२२.२६॥
अवगाहेद् अपः पूर्वमाचार्येणावगाहिताः ।
समिज्जलादिकं चास्य कल्यकल्यमुपानयेत् ॥ २२२.२७॥
गृहीतग्राह्यवेदश्च ततोऽनुज्ञामवाप्य वै ।
गार्हस्थ्यमावसेत् प्राज्ञो निष्पन्नगुरुनिष्कृतिः ॥ २२२.२८॥
विधिनावाप्तदारस्तु धनं प्राप्य स्वकर्मणा ।
गृहस्थकार्यमखिलं कुर्याद् विप्राः स्वशक्तितः ॥ २२२.२९॥
निर्वापेण पितृन् अर्च्य यज्ञैर्देवांस्तथातिथीन् ।
अन्नैर्मुनींश्च स्वाध्यायैरपत्येन प्रजापतिम् ॥ २२२.३०॥