अध्याय 221, Verse 1
व्यास उवाच ।
एवं सम्यग् गृहस्थेन देवताः पितरस्तथा ।
सम्पूज्या हव्यकव्याभ्यामन्नेनातिथिबान्धवाः ॥ २२१.१॥
Containing 170 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
एवं सम्यग् गृहस्थेन देवताः पितरस्तथा ।
सम्पूज्या हव्यकव्याभ्यामन्नेनातिथिबान्धवाः ॥ २२१.१॥
भूतानि भृत्याः सकलाः पशुपक्षिपिपीलिकाः ।
भिक्षवो याचमानाश्च ये चान्ये पान्थका गृहे ॥ २२१.२॥
सदाचाररता विप्राः साधुना गृहमेधिना ।
पापं भुङ्क्ते समुल्लङ्घ्य नित्यनैमित्तिकीः क्रियाः ॥ २२१.३॥
मुनय ऊचुः ।
कथितं भवता विप्र नित्यनैमित्तिकं च यत् ।
नित्यं नैमित्तिकं काम्यं त्रिविधं कर्म पौरुषम् ॥ २२१.४॥
सदाचारं मुने श्रोतुमिच्छामो वदतस्तव ।
यं कुर्वन् सुखमाप्नोति परत्रेह च मानवः ॥ २२१.५॥
व्यास उवाच ।
गृहस्थेन सदा कार्यमाचारपरिरक्षणम् ।
न ह्याचारविहीनस्य भद्रमत्र परत्र वा ॥ २२१.६॥
यज्ञदानतपांसीह पुरुषस्य न भूतये ।
भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते ॥ २२१.७॥
दुराचारो हि पुरुषो नेहायुर्विन्दते महत् ।
कार्यो धर्मः सदाचार आचारस्यैव लक्षणम् ॥ २२१.८॥
तस्य स्वरूपं वक्ष्यामि सदाचारस्य भो द्विजाः ।
आत्मनैकमना भूत्वा तथैव परिपालयेत् ॥ २२१.९॥
त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना ।
तत्संसिद्धौ गृहस्थस्य सिद्धिरत्र परत्र च ॥ २२१.१०॥
पादेनाप्यस्य पारत्र्यं कुर्याच्छ्रेयः स्वमात्मवान् ।
अर्धेन चात्मभरणं नित्यनैमित्तिकानि च ॥ २२१.११॥
पादेनैव तथाप्यस्य मूलभूतं विवर्धयेत् ।
एवमाचरतो विप्रा अर्थः साफल्यम् ऋच्छति ॥ २२१.१२॥
तद्वत् पापनिषेधार्थं धर्मः कार्यो विपश्चिता ।
परत्रार्थस्तथैवान्यः कार्योऽत्रैव फलप्रदः ॥ २२१.१३॥
प्रत्यवायभयात् कामस्तथान्यश्चाविरोधवान् ।
द्विधा कामोऽपि रचितस्त्रिवर्गायाविरोधकृत् ॥ २२१.१४॥
परस्परानुबन्धांश्च सर्वान् एतान् विचिन्तयेत् ।
विपरीतानुबन्धांश्च बुध्यध्वं तान् द्विजोत्तमाः ॥ २२१.१५॥
धर्मो धर्मानुबन्धार्थो धर्मो नात्मार्थपीडकः ।
उभाभ्यां च द्विधा कामं तेन तौ च द्विधा पुनः ॥ २२१.१६॥
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थावनुचिन्तयेत् ।
समुत्थाय तथाचम्य प्रस्नातो नियतः शुचिः ॥ २२१.१७॥
पूर्वां संध्यां सनक्षत्रां पश्चिमां सदिवाकराम् ।
उपासीत यथान्यायं नैनां जह्याद् अनापदि ॥ २२१.१८॥
असत्प्रलापमनृतं वाक्पारुष्यं च वर्जयेत् ।
असच्छास्त्रमसद्वादमसत्सेवां च वै द्विजाः ॥ २२१.१९॥
सायम्प्रातस्तथा होमं कुर्वीत नियतात्मवान् ।
नोदयास्तमने चैवमुदीक्षेत विवस्वतः ॥ २२१.२०॥
केशप्रसाधनादर्श+ ।
दन्तधावनमञ्जनम् ।
पूर्वाह्ण एव कार्याणि देवतानां च तर्पणम् ॥ २२१.२१॥
ग्रामावसथतीर्थानां क्षेत्राणां चैव वर्त्मनि ।
न विण्मूत्रमनुष्ठेयं न च कृष्टे न गोव्रजे ॥ २२१.२२॥
नग्नां परस्त्रियं नेक्षेन् न पश्येद् आत्मनः शकृत् ।
उदक्यादर्शनस्पर्शमेवं सम्भाषणं तथा ॥ २२१.२३॥
नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत् ।
नाधितिष्ठेच्छकृन्मूत्रे केशभस्मसपालिकाः ॥ २२१.२४॥
तुषाङ्गारविशीर्णानि रज्जुवस्त्रादिकानि च ।
नाधितिष्ठेत् तथा प्राज्ञः पथि वस्त्राणि वा भुवि ॥ २२१.२५॥
पितृदेवमनुष्याणां भूतानां च तथार्चनम् ।
कृत्वा विभवतः पश्चाद् गृहस्थो भोक्तुमर्हति ॥ २२१.२६॥
प्राङ्मुखोदङ्मुखो वापि स्वाचान्तो वाग्यतः शुचिः ।
भुञ्जीत चान्नं तच्चित्तो ह्यन्तर्जानुः सदा नरः ॥ २२१.२७॥
उपघातम् ऋते दोषान् नान्नस्योदीरयेद् बुधः ।
प्रत्यक्षलवणं वर्ज्यमन्नमुच्छिष्टमेव च ॥ २२१.२८॥
न गच्छन् न च तिष्ठन् वै विण्मूत्रोत्सर्गमात्मवान् ।
कुर्वीत चैवमुच्छिष्टं न किंचिद् अपि भक्षयेत् ॥ २२१.२९॥
उच्छिष्टो नालपेत् किंचित् स्वाध्यायं च विवर्जयेत् ।
न पश्येच्च रविं चेन्दुं नक्षत्राणि च कामतः ॥ २२१.३०॥