अध्याय 220, Verse 1
मुनय ऊचुः ।
भूयः प्रब्रूहि भगवञ् श्राद्धकल्पं सुविस्तरात् ।
कथं क्व च कदा केषु कैस्तद् ब्रूहि तपोधन ॥ २२०.१॥
Containing 212 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
भूयः प्रब्रूहि भगवञ् श्राद्धकल्पं सुविस्तरात् ।
कथं क्व च कदा केषु कैस्तद् ब्रूहि तपोधन ॥ २२०.१॥
व्यास उवाच ।
शृणुध्वं मुनिशार्दूलाः श्राद्धकल्पं सुविस्तरात् ।
यथा यत्र यदा येषु यैर्द्रव्यैस्तद् वदाम्यहम् ॥ २२०.२॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः श्राद्धं स्ववरणोदितम् ।
कुलधर्ममनुतिष्ठद्भिर्दातव्यं मन्त्रपूर्वकम् ॥ २२०.३॥
स्त्रीभिर्वर्णावरैः शूद्रैर्विप्राणामनुशासनात् ।
अमन्त्रकं विधिपूर्वं वह्नियागविवर्जितम् ॥ २२०.४॥
पुष्करादिषु तीर्थेषु पुण्येष्वायतनेषु च ।
शिखरेषु गिरीन्द्राणां पुण्यदेशेषु भो द्विजाः ॥ २२०.५॥
सरित्सु पुण्यतोयासु नदेषु च सरःसु च ।
संगमेषु नदीनां च समुद्रेषु च सप्तसु ॥ २२०.६॥
स्वनुलिप्तेषु गेहेषु स्वेष्वनुज्ञापितेषु च ।
दिव्यपादपमूलेषु यज्ञियेषु ह्रदेषु च ॥ २२०.७॥
श्राद्धमेतेषु दातव्यं वर्ज्यमेतेषु चोच्यते ।
किरातेषु कलिङ्गेषु कोङ्कणेषु कृमिष्वपि ॥ २२०.८॥
दशार्णेषु कुमार्येषु तङ्गणेषु क्रथेष्वपि ।
सिन्धोरुत्तरकूलेषु नर्मदायाश्च दक्षिणे ॥ २२०.९॥
पूर्वेषु करतोयाया न देयं श्राद्धमुच्यते ।
श्राद्धं देयमुशन्तीह मासि मास्युडुपक्षये ॥ २२०.१०॥
पौर्णमासेषु श्राद्धं च कर्तव्यम् ऋक्षगोचरे ।
नित्यश्राद्धमदैवं च मनुष्यैः सह गीयते ॥ २२०.११॥
नैमित्तिकं सुरैः सार्धं नित्यं नैमित्तिकं तथा ।
काम्यान्यन्यानि श्राद्धानि प्रतिसंवत्सरं द्विजैः ॥ २२०.१२॥
वृद्धिश्राद्धं च कर्तव्यं जातकर्मादिकेषु च ।
तत्र युग्मान् द्विजान् आहुर्मन्त्रपूर्वं तु वै द्विजाः ॥ २२०.१३॥
कन्यां गते सवितरि दिनानि दश पञ्च च ।
पूर्वेणैवेह विधिना श्राद्धं तत्र विधीयते ॥ २२०.१४॥
प्रतिपद्धनलाभाय द्वितीया द्विपदप्रदा ।
पुत्रार्थिनी तृतीया तु चतुर्थी शत्रुनाशिनी ॥ २२०.१५॥
श्रियं प्राप्नोति पञ्चम्यां षष्ठ्यां पूज्यो भवेन् नरः ।
गणाधिपत्यं सप्तम्यामष्टम्यां बुद्धिमुत्तमाम् ॥ २२०.१६॥
स्त्रियो नवम्यां प्राप्नोति दशम्यां पूर्णकामताम् ।
वेदांस्तथाप्नुयात् सर्वान् एकादश्यां क्रियापरः ॥ २२०.१७॥
द्वादश्यां जयलाभं च प्राप्नोति पितृपूजकः ।
प्रजावृद्धिं पशुं मेधां स्वातन्त्र्यं पुष्टिमुत्तमाम् ॥ २२०.१८॥
दीर्घायुरथवैश्वर्यं कुर्वाणस्तु त्रयोदशीम् ।
अवाप्नोति न संदेहः श्राद्धं श्रद्धासमन्वितः ॥ २२०.१९॥
यथासम्भविनान्नेन श्राद्धं श्रद्धासमन्वितः ।
युवानः पितरो यस्य मृताः शस्त्रेण वा हताः ॥ २२०.२०॥
तेन कार्यं चतुर्दश्यां तेषां तृप्तिमभीप्सता ।
श्राद्धं कुर्वन्न् अमावास्यां यत्नेन पुरुषः शुचिः ॥ २२०.२१॥
सर्वान् कामान् अवाप्नोति स्वर्गं चानन्तमश्नुते ।
अतःपरं मुनिश्रेष्ठाः शृणुध्वं वदतो मम ॥ २२०.२२॥
पितृणां प्रीतये यत्र यद् देयं प्रीतिकारिणा ।
मासं तृप्तिः पितृणां तु हविष्यान्नेन जायते ॥ २२०.२३॥
मासद्वयं मत्स्यमांसैस्तृप्तिं यान्ति पितामहाः ।
त्रीन् मासान् हारिणं मांसं विज्ञेयं पितृतृप्तये ॥ २२०.२४॥
पुष्णाति चतुरो मासाञ् शशस्य पिशितं पितृन् ।
शाकुनं पञ्च वै मासान् षण् मासाञ् शूकरामिषम् ॥ २२०.२५॥
छागलं सप्त वै मासान् ऐणेयं चाष्टमासकान् ।
करोति तृप्तिं नव वै रुरुमांसं न संशयः ॥ २२०.२६॥
गव्यं मांसं पितृतृप्तिं करोति दशमासिकीम् ।
तथैकादश मासांस्तु औरभ्रं पितृतृप्तिदम् ॥ २२०.२७॥
संवत्सरं तथा गव्यं पयः पायसमेव च ।
वाध्रीनमामिषं लोहं कालशाकं तथा मधु ॥ २२०.२८॥
रोहितामिषमन्नं च दत्तान्यात्मकुलोद्भवैः ।
अनन्तं वै प्रयच्छन्ति तृप्तियोगं सुतांस्तथा ॥ २२०.२९॥
पितृणां नात्र संदेहो गयाश्राद्धं च भो द्विजाः ।
यो ददाति गुडोन्मिश्रांस्तिलान् वा श्राद्धकर्मणि ॥ २२०.३०॥