अध्याय 22, Verse 1
लोमहर्षण उवाच ।
ततश्चानन्तरं विप्रा नरका रौरवादयः ।
पापिनो येषु पात्यन्ते ताञ् शृणुध्वं द्विजोत्तमाः ॥ २२.१॥
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
ततश्चानन्तरं विप्रा नरका रौरवादयः ।
पापिनो येषु पात्यन्ते ताञ् शृणुध्वं द्विजोत्तमाः ॥ २२.१॥
रौरवः शौकरो रोधस्तानो विशसनस्तथा ।
महाज्वालस्तप्तकुड्यो महालोभो विमोहनः ॥ २२.२॥
रुधिरान्धो वसातप्तः कृमीशः कृमिभोजनः ।
असिपत्त्रवनं कृष्णो लालाभक्षश्च दारुणः ॥ २२.३॥
तथा पूयवहः पापो वह्निज्वालो ह्यधःशिराः ।
सदंशः कृष्णसूत्रश्च तमश्चावीचिरेव च ॥ २२.४॥
श्वभोजनोऽथाप्रतिष्ठोम+ ।
आवीचिश्च तथापरः ।
इत्येवमादयश्चान्ये नरका भृशदारुणाः ॥ २२.५॥
यमस्य विषये घोराः शस्त्राग्निविषदर्शिनः ।
पतन्ति येषु पुरुषाः पापकर्मरताश्च ये ॥ २२.६॥
कूटसाक्षी तथा सम्यक् पक्षपातेन यो वदेत् ।
यश्चान्यद् अनृतं वक्ति स नरो याति रौरवम् ॥ २२.७॥
भ्रूणहा पुरहन्ता च गोघ्नश्च मुनिसत्तमाः ।
यान्ति ते रौरवं घोरं यश्चोच्छ्वासनिरोधकः ॥ २२.८॥
सुरापो ब्रह्महा हर्ता सुवर्णस्य च शूकरे ।
प्रयाति नरके यश्च तैः संसर्गमुपैति वै ॥ २२.९॥
राजन्यवैश्यहा चैव तथैव गुरुतल्पगः ।
तप्तकुम्भे स्वसृगामी हन्ति राजभटं च यः ॥ २२.१०॥
माध्वीविक्रयकृन् वध्यपालः केसरविक्रयी ।
तप्तलोहे पतन्त्येते यश्च भक्तं परित्यजेत् ॥ २२.११॥
सुतां स्नुषां चापि गत्वा महाज्वाले निपात्यते ।
अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः ॥ २२.१२॥
वेददूषयिता यश्च वेदविक्रयकश्च यः ।
अगम्यगामी यश्च स्यात् ते यान्ति शबलं द्विजाः ॥ २२.१३॥
चौरो विमोहे पतति मर्यादादूषकस्तथा ।
देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ॥ २२.१४॥
स याति कृमिभक्ष्ये वै कृमीशे तु दुरिष्टिकृत् ।
पितृदेवातिथीन् यस्तु पर्यश्नाति नराधमः ॥ २२.१५॥
लालाभक्ष्ये स यात्युग्रे शरकर्ता च वेधके ।
करोति कर्णिनो यश्च यश्च खड्गादिकृन् नरः ॥ २२.१६॥
प्रयान्त्येते विशसने नरके भृशदारुणे ।
असत्प्रतिग्रहीता च नरके यात्यधोमुखे ॥ २२.१७॥
अयाज्ययाजकस्तत्र तथा नक्षत्रसूचकः ।
कृमिपूये नरश्चैको याति मिष्टान्नभुक् सदा ॥ २२.१८॥
लाक्षामांसरसानां च तिलानां लवणस्य च ।
विक्रेता ब्राह्मणो याति तमेव नरकं द्विजाः ॥ २२.१९॥
मार्जारकुक्कुटच्छाग+ ।
श्ववराहविहंगमान् ।
पोषयन् नरकं याति तमेव द्विजसत्तमाः ॥ २२.२०॥
रङ्गोपजीवी कैवर्तः कुण्डाशी गरदस्तथा ।
सूची माहिषिकश्चैव पर्वगामी च यो द्विजः ॥ २२.२१॥
अगारदाही मित्रघ्नः शकुनिग्रामयाजकः ।
रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये ॥ २२.२२॥
मधुहा ग्रामहन्ता च याति वैतरणीं नरः ।
रेतःपानादिकर्तारो मर्यादाभेदिनश्च ये ॥ २२.२३॥
ते कृच्छ्रे यान्त्यशौचाश्च कुहकाजीविनश्च ये ।
असिपत्त्रवनं याति वनच्छेदी वृथैव यः ॥ २२.२४॥
औरभ्रिका मृगव्याधा वह्निज्वाले पतन्ति वै ।
यान्ति तत्रैव ते विप्रा यश्चापाकेषु वह्निदः ॥ २२.२५॥
व्रतोपलोपको यश्च स्वाश्रमाद् विच्युतश्च यः ।
संदंशयातनामध्ये पततस्तावुभावपि ॥ २२.२६॥
दिवा स्वप्नेषु स्यन्दन्ते ये नरा ब्रह्मचारिणः ।
पुत्रैरध्यापिता ये तु ते पतन्ति श्वभोजने ॥ २२.२७॥
एते चान्ये च नरकाः शतशोऽथ सहस्रशः ।
येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ २२.२८॥
तथैव पापान्येतानि तथान्यानि सहस्रशः ।
भुज्यन्ते जातिपुरुषैर्नरकान्तरगोचरैः ॥ २२.२९॥
वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः ।
कर्मणा मनसा वाचा निरयेषु पतन्ति ते ॥ २२.३०॥