अध्याय 219, Verse 1
मुनय ऊचुः ।
परलोकगतानां तु स्वकर्मस्थानवासिनाम् ।
तेषां श्राद्धं कथं ज्ञेयं पुत्रैश्चान्यैश्च बन्धुभिः ॥ २१९.१॥
Containing 116 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
परलोकगतानां तु स्वकर्मस्थानवासिनाम् ।
तेषां श्राद्धं कथं ज्ञेयं पुत्रैश्चान्यैश्च बन्धुभिः ॥ २१९.१॥
व्यास उवाच ।
नमस्कृत्य जगन्नाथं वाराहं लोकभावनम् ।
शृणुध्वं सम्प्रवक्ष्यामि श्राद्धकल्पं यथोदितम् ॥ २१९.२॥
पुरा कोकाजले मग्नान् पितृन् उद्धृतवान् विभुः ।
श्राद्धं कृत्वा तदा देवो यथा तत्र द्विजोत्तमाः ॥ २१९.३॥
मुनय ऊचुः ।
किमर्थं ते तु कोकायां निमग्नाः पितरोऽम्भसि ।
कथं तेनोद्धृतास्ते वै वाराहेण द्विजोत्तम ॥ २१९.४॥
तस्मिन् कोकामुखे तीर्थे भुक्तिमुक्तिफलप्रदे ।
श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥ २१९.५॥
व्यास उवाच ।
त्रेताद्वापरयोः संधौ पितरो दिव्यमानुषाः ।
पुरा मेरुगिरेः पृष्ठे विश्वैर्देवैः सह स्थिताः ॥ २१९.६॥
तेषां समुपविष्टानां पितृणां सोमसम्भवा ।
कन्या कान्तिमती दिव्या पुरतः प्राञ्जलिः स्थिता ।
तामूचुः पितरो दिव्या ये तत्रासन् समागताः ॥ २१९.७॥
पितर ऊचुः ।
कासि भद्रे प्रभुः को वा भवत्या वक्तुमर्हसि ॥ २१९.८॥
व्यास उवाच ।
सा प्रोवाच पितृन् देवान् कला चान्द्रमसीति ह ।
प्रभुत्वे भवतामेव वरयामि यदीच्छथ ॥ २१९.९॥
ऊर्जा नामास्ति प्रथमं स्वधा च तदनन्तरम् ।
भवद्भिश्चाद्यैव कृतं नाम कोकेति भावितम् ॥ २१९.१०॥
ते हि तस्या वचः श्रुत्वा पितरो दिव्यमानुषाः ।
तस्या मुखं निरीक्षन्तो न तृप्तिमधिजग्मिरे ॥ २१९.११॥
विश्वेदेवाश्च ताञ् ज्ञात्वा कन्यामुखनिरीक्षकान् ।
योगच्युतान् निरीक्ष्यैव विहाय त्रिदिवं गताः ॥ २१९.१२॥
भगवान् अपि शीतांशुरूर्जां नापश्यद् आत्मजाम् ।
समाकुलमना दध्यौ क्व गतेति महायशाः ॥ २१९.१३॥
स विवेद तदा सोमः प्राप्तां पितृंश्च कामतः ।
तैश्चावलोकितां हार्दात् स्वीकृतां च तपोबलात् ॥ २१९.१४॥
ततः क्रोधपरीतात्मा पितृञ् शशधरो द्विजाः ।
शशाप निपतिष्यध्वं योगभ्रष्टा विचेतसः ॥ २१९.१५॥
यस्माद् अदत्तां मत्कन्यां कामयध्वं सुबालिशाः ।
यस्माद् धृतवती चेयं पतीन् पितृमती सती ॥ २१९.१६॥
स्वतन्त्रा धर्ममुत्सृज्य तस्माद् भवतु निम्नगा ।
कोकेति प्रथिता लोके शिशिराद्रिसमाश्रिता ॥ २१९.१७॥
इत्थं शप्ताश्चन्द्रमसा पितरो दिव्यमानुषाः ।
योगभ्रष्टा निपतिता हिमवत्पादभूतले ॥ २१९.१८॥
ऊर्जा तत्रैव पतिता गिरिराजस्य विस्तृते ।
प्रस्थे तीर्थं समासाद्य सप्तसामुद्रमुत्तमम् ॥ २१९.१९॥
कोका नाम ततो वेगान् नदी तीर्थशताकुला ।
प्लावयन्ती गिरेः शृङ्गं सर्पणात् तु सरित् स्मृता ॥ २१९.२०॥
अथ ते पितरो विप्रा योगहीना महानदीम् ।
ददृशुः शीतसलिलां न विदुस्तां सुलोचनाम् ॥ २१९.२१॥
ततस्तु गिरिराड् दृष्ट्वा पितृंस्तांस्तु क्षुधार्दितान् ।
बदरीमादिदेशाथ धेनुं चैकां मधुस्रवाम् ॥ २१९.२२॥
क्षीरं मधु च तद् दिव्यं कोकाम्भो बदरीफलम् ।
इदं गिरिवरेणैषां पोषणाय निरूपितम् ॥ २१९.२३॥
तया वृत्त्या तु वसतां पितृणां मुनिसत्तमाः ।
दश वर्षसहस्राणि ययुरेकमहो यथा ॥ २१९.२४॥
एवं लोके विपितरि तथैव विगतस्वधे ।
दैत्या बभूवुर्बलिनो यातुधानाश्च राक्षसाः ॥ २१९.२५॥
ते तान् पितृगणान् दैत्या यातुधानाश्च वेगिताः ।
विश्वैर्देवैर्विरहितान् सर्वतः समुपाद्रवन् ॥ २१९.२६॥
दैतेयान् यातुधानांश्च दृष्ट्वैवापततो द्विजाः ।
कोकातटस्थामुत्तुङ्गां शिलां ते जगृहू रुषा ॥ २१९.२७॥
गृहीतायां शिलायां तु कोका वेगवती पितृन् ।
छादयामास तोयेन प्लावयन्ती हिमाचलम् ॥ २१९.२८॥
पितृन् अन्तर्हितान् दृष्ट्वा दैतेया राक्षसास्तथा ।
विभीतकं समारुह्य निराहारास्तिरोहिताः ॥ २१९.२९॥
सलिलेन विषीदन्तः पितरः क्षुद्भ्रमातुराः ।
विषीदमानमात्मानं समीक्ष्य सलिलाशयाः ।
जगुर्जनार्दनं देवं पितरः शरणं हरिम् ॥ २१९.३०॥