अध्याय 218, Verse 1
मुनय ऊचुः ।
अधर्मस्य गतिर्ब्रह्मन् कथिता नस्त्वयानघ ।
धर्मस्य च गतिं श्रोतुमिच्छामो वदतां वर ॥ २१८.१॥
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
अधर्मस्य गतिर्ब्रह्मन् कथिता नस्त्वयानघ ।
धर्मस्य च गतिं श्रोतुमिच्छामो वदतां वर ॥ २१८.१॥
कृत्वा पापानि कर्माणि कथं यान्त्यशुभां गतिम् ।
कर्मणा च कृतेनेह केन यान्ति शुभां गतिम् ॥ २१८.२॥
व्यास उवाच ।
कृत्वा पापानि कर्माणि त्वधर्मवशमागतः ।
मनसा विपरीतेन निरयं प्रतिपद्यते ॥ २१८.३॥
मोहाद् अधर्मं यः कृत्वा पुनः समनुतप्यते ।
मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ॥ २१८.४॥
यदि विप्राः कथयते विप्राणां धर्मवादिनाम् ।
ततोऽधर्मकृतात् क्षिप्रमपराधात् प्रमुच्यते ॥ २१८.५॥
यथा यथा नरः सम्यग् अधर्ममनुभाषते ।
समाहितेन मनसा विमुञ्चति तथा तथा ॥ २१८.६॥
यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हते ।
तथा तथा शरीरं तु तेनाधर्मेण मुच्यते ॥ २१८.७॥
भुजंग इव निर्मोकान् पूर्वभुक्ताञ् जहाति तान् ।
दत्त्वा विप्रस्य दानानि विविधानि समाहितः ॥ २१८.८॥
मनःसमाधिसंयुक्तः स्वर्गतिं प्रतिपद्यते ।
दानानि तु प्रवक्ष्यामि यानि दत्त्वा द्विजोत्तमाः ॥ २१८.९॥
नरः कृत्वाप्यकार्याणि ततो धर्मेण युज्यते ।
सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् ॥ २१८.१०॥
सर्वमन्नं प्रदातव्यम् ऋजुना धर्ममिच्छता ।
प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुः प्रजायते ॥ २१८.११॥
अन्ने प्रतिष्ठिता लोकास्तस्माद् अन्नं प्रशस्यते ।
अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः ॥ २१८.१२॥
अन्नस्य हि प्रदानेन स्वर्गमाप्नोति मानवः ।
न्यायलब्धं प्रदातव्यं द्विजातिभ्योऽन्नमुत्तमम् ॥ २१८.१३॥
स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना ।
यस्य त्वन्नमुपाश्नन्ति ब्राह्मणाश्च सकृद् दश ॥ २१८.१४॥
हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् ।
ब्राह्मणानां सहस्राणि दशाभोज्य द्विजोत्तमाः ॥ २१८.१५॥
नरोऽधर्मात् प्रमुच्येत पापेष्वभिरतः सदा ।
भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः ॥ २१८.१६॥
स्वाध्यायनिरते विप्रे दत्त्वेह सुखमेधते ।
अहिंसन् ब्राह्मणस्वानि न्यायेन परिपाल्य च ॥ २१८.१७॥
क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति ।
द्विजेभ्यो वेदमुख्येभ्यः प्रयतः सुसमाहितः ॥ २१८.१८॥
तेनापोहति धर्मात्मा दुष्कृतं कर्म भो द्विजाः ।
षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् ॥ २१८.१९॥
वैश्यो ददद् द्विजातिभ्यः पापेभ्यः परिमुच्यते ।
अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम् ॥ २१८.२०॥
अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात् प्रमुच्यते ।
औरसेन बलेनान्नमर्जयित्वा विहिंसकः ॥ २१८.२१॥
यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते ।
न्यायेनावाप्तमन्नं तु नरो हर्षसमन्वितः ॥ २१८.२२॥
द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात् प्रमुच्यते ।
अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन् नरः ॥ २१८.२३॥
सतां पन्थानमावृत्य सर्वपापैः प्रमुच्यते ।
दानविद्भिः कृतः पन्था येन यान्ति मनीषिणः ॥ २१८.२४॥
तेष्वप्यन्नस्य दातारस्तेभ्यो धर्मः सनातनः ।
सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् ॥ २१८.२५॥
कार्यान् न्यायागतं नित्यमन्नं हि परमा गतिः ।
अन्नस्य हि प्रदानेन नरो याति परां गतिम् ॥ २१८.२६॥
सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम् ।
एवं पुण्यसमायुक्तो नरः पापैः प्रमुच्यते ॥ २१८.२७॥
तस्माद् अन्नं प्रदातव्यमन्यायपरिवर्जितम् ।
यस्तु प्राणाहुतीपूर्वमन्नं भुङ्क्ते गृही सदा ॥ २१८.२८॥
अवन्ध्यं दिवसं कुर्याद् अन्नदानेन मानवः ।
भोजयित्वा शतं नित्यं नरो वेदविदां वरम् ॥ २१८.२९॥
न्यायविद्धर्मविदुषामितिहासविदां तथा ।
न याति नरकं घोरं संसारं न च सेवते ॥ २१८.३०॥