अध्याय 217, Verse 1
लोमहर्षण उवाच ।
श्रुत्वैवं यममार्गं ते नरकेषु च यातनाम् ।
पप्रच्छुश्च पुनर्व्यासं संशयं मुनिसत्तमाः ॥ २१७.१॥
Containing 118 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
श्रुत्वैवं यममार्गं ते नरकेषु च यातनाम् ।
पप्रच्छुश्च पुनर्व्यासं संशयं मुनिसत्तमाः ॥ २१७.१॥
मुनय ऊचुः ।
भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः ॥ २१७.२॥
ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च ।
गृहं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः ।
गच्छन्त्यमुत्र लोके वै कश्च तान् अनुगच्छति ॥ २१७.३॥
व्यास उवाच ।
एकः प्रसूयते विप्रा एक एव हि नश्यति ।
एकस्तरति दुर्गाणि गच्छत्येकस्तु दुर्गतिम् ॥ २१७.४॥
असहायः पिता माता तथा भ्राता सुतो गुरुः ।
ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च ॥ २१७.५॥
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः ।
मुहूर्तमिव रोदित्वा ततो यान्ति पराङ्मुखाः ॥ २१७.६॥
तैस्तच्छरीरमुत्सृष्टं धर्म एकोऽनुगच्छति ।
तस्माद् धर्मः सहायश्च सेवितव्यः सदा नृभिः ॥ २१७.७॥
प्राणी धर्मसमायुक्तो गच्छेत् स्वर्गगतिं पराम् ।
तथैवाधर्मसंयुक्तो नरकं चोपपद्यते ॥ २१७.८॥
तस्मात् पापागतैरर्थैर्नानुरज्येत पण्डितः ।
धर्म एको मनुष्याणां सहायः परिकीर्तितः ॥ २१७.९॥
लोभान् मोहाद् अनुक्रोशाद् भयाद् वाथ बहुश्रुतः ।
नरः करोत्यकार्याणि परार्थे लोभमोहितः ॥ २१७.१०॥
धर्मश्चार्थश्च कामश्च त्रितयं जीवतः फलम् ।
एतत् त्रयमवाप्तव्यमधर्मपरिवर्जितम् ॥ २१७.११॥
मुनय ऊचुः ।
श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् ।
शरीरनिचयं ज्ञातुं बुद्धिर्नोऽत्र प्रजायते ॥ २१७.१२॥
मृतं शरीरं हि नृणां सूक्ष्ममव्यक्ततां गतम् ।
अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति ॥ २१७.१३॥
व्यास उवाच ।
पृथिवी वायुराकाशमापो ज्योतिर्मनोन्तरम् ।
बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा ॥ २१७.१४॥
प्राणिनामिह सर्वेषां साक्षिभूता दिवानिशम् ।
एतैश्च सह धर्मो हि तं जीवमनुगच्छति ॥ २१७.१५॥
त्वग् अस्थि मांसं शुक्रं च शोणितं च द्विजोत्तमाः ।
शरीरं वर्जयन्त्येते जीवितेन विवर्जितम् ॥ २१७.१६॥
ततो धर्मसमायुक्तः स जीवः सुखमेधते ।
इहलोके परे चैव किं भूयः कथयामि वः ॥ २१७.१७॥
मुनय ऊचुः ।
तद् दर्शितं भगवता यथा धर्मोऽनुगच्छति ।
एतत् तु ज्ञातुमिच्छामः कथं रेतः प्रवर्तते ॥ २१७.१८॥
व्यास उवाच ।
अन्नमश्नन्ति ये देवाः शरीरस्था द्विजोत्तमाः ।
पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा ॥ २१७.१९॥
ततस्तृप्तेषु भो विप्रास्तेषु भूतेषु पञ्चसु ।
मनःषष्ठेषु शुद्धात्मा रेतः सम्पद्यते महत् ॥ २१७.२०॥
ततो गर्भः सम्भवति श्लेष्मा स्त्रीपुंसयोर्द्विजाः ।
एतद् वः सर्वमाख्यातं किं भूयः श्रोतुमिच्छथ ॥ २१७.२१॥
मुनय ऊचुः ।
आख्यातं नो भगवता गर्भः संजायते यथा ।
यथा जातस्तु पुरुषः प्रपद्यते तद् उच्यताम् ॥ २१७.२२॥
व्यास उवाच ।
आसन्नमात्रपुरुषस्तैर्भूतैरभिभूयते ।
विप्रयुक्तस्तु तैर्भूतैः पुनर्यात्यपरां गतिम् ॥ २१७.२३॥
स च भूतसमायुक्तः प्राप्नोति जीवमेव हि ।
ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् ।
देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छथ ॥ २१७.२४॥
मुनय ऊचुः ।
त्वग् अस्थि मांसमुत्सृज्य तैस्तु भूतैर्विवर्जितः ।
जीवः स भगवन् क्वस्थः सुखदुःखे समश्नुते ॥ २१७.२५॥
व्यास उवाच ।
जीवः कर्मसमायुक्तः शीघ्रं रेतःसमागतः ।
स्त्रीणां पुष्पं समासाद्य ततः कालेन भो द्विजाः ॥ २१७.२६॥
यमस्य पुरुषैः क्लेशो यमस्य पुरुषैर्वधः ।
दुःखं संसारचक्रं च नरः क्लेशं च विन्दति ॥ २१७.२७॥
इह लोके स तु प्राणी जन्मप्रभृति भो द्विजाः ।
सुकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः ॥ २१७.२८॥
यदि धर्मं समायुज्य जन्मप्रभृति सेवते ।
ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् ॥ २१७.२९॥
अथान्तरान्तरं धर्ममधर्ममुपसेवते ।
सुखस्यानन्तरं दुःखं स जीवोऽप्यधिगच्छति ॥ २१७.३०॥