अध्याय 216, Verse 1
मुनय ऊचुः ।
अहोऽतिदुःखं घोरं च यममार्गे त्वयोदितम् ।
नरकाणि च घोराणि द्वारं याम्यं च सत्तम ॥ २१६.१॥
Containing 89 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
अहोऽतिदुःखं घोरं च यममार्गे त्वयोदितम् ।
नरकाणि च घोराणि द्वारं याम्यं च सत्तम ॥ २१६.१॥
अस्त्युपायो न वा ब्रह्मन् यममार्गेऽतिभीषणे ।
ब्रूहि येन नरा यान्ति सुखेन यमसादनम् ॥ २१६.२॥
व्यास उवाच ।
इह ये धर्मसंयुक्तास्त्वहिंसानिरता नराः ।
गुरुशुश्रूषणे युक्ता देवब्राह्मणपूजकाः ॥ २१६.३॥
यस्मिन् मनुष्यलोकास्ते सभार्याः ससुतास्तथा ।
तमध्वानं च गच्छन्ति यथा तत् कथयामि वः ॥ २१६.४॥
विमानैर्विविधैर्दिव्यैः काञ्चनध्वजशोभितैः ।
धर्मराजपुरं यान्ति सेवमानाप्सरोगणैः ॥ २१६.५॥
ब्राह्मणेभ्यस्तु दानानि नानारूपाणि भक्तितः ।
ये प्रयच्छन्ति ते यान्ति सुखेनैव महापथे ॥ २१६.६॥
अन्नं ये तु प्रयच्छन्ति ब्राह्मणेभ्यः सुसंकृतम् ।
श्रोत्रियेभ्यो विशेषेण भक्त्या परमया युताः ॥ २१६.७॥
तरुणीभिर्वरस्त्रीभिः सेव्यमानाः प्रयत्नतः ।
धर्मराजपुरं यान्ति विमानैरभ्यलंकृतैः ॥ २१६.८॥
ये च सत्यं प्रभाषन्ते बहिरन्तश्च निर्मलाः ।
तेऽपि यान्त्यमरप्रख्या विमानैर्यममन्दिरम् ॥ २१६.९॥
गोदानानि पवित्राणि विष्णुमुद्दिश्य साधुषु ।
ये प्रयच्छन्ति धर्मज्ञाः कृशेषु कृशवृत्तिषु ॥ २१६.१०॥
ते यान्ति दिव्यवर्णाभैर्विमानैर्मणिचित्रितैः ।
धर्मराजपुरं श्रीमान् सेव्यमानाप्सरोगणैः ॥ २१६.११॥
उपानद्युगलं छत्त्रं शय्यासनमथापि वा ।
ये प्रयच्छन्ति वस्त्राणि तथैवाभरणानि च ॥ २१६.१२॥
ते यान्त्यश्वै रथैश्चैव कुञ्जरैश्चाप्यलंकृताः ।
धर्मराजपुरं दिव्यं छत्त्रैः सौवर्णराजतैः ॥ २१६.१३॥
ये च भक्त्या प्रयच्छन्ति गुडपानकमर्चितम् ।
ओदनं च द्विजाग्र्येभ्यो विशुद्धेनान्तरात्मना ॥ २१६.१४॥
ते यान्ति काञ्चनैर्यानैर्विविधैस्तु यमालयम् ।
वरस्त्रीभिर्यथाकामं सेव्यमानाः पुनः पुनः ॥ २१६.१५॥
ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु ।
ब्राह्मणेभ्यः प्रयत्नेन शुद्ध्योपेतं सुसंस्कृतम् ॥ २१६.१६॥
चक्रवाकप्रयुक्तैश्च विमानैस्तु हिरण्मयैः ।
यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम् ॥ २१६.१७॥
ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च ।
हंसयुक्तैर्विमानैस्तु यान्ति धर्मपुरं नराः ॥ २१६.१८॥
ये तिलांस्तिलधेनुं च घृतधेनुमथापि वा ।
श्रोत्रियेभ्यः प्रयच्छन्ति विप्रेभ्यः श्रद्धयान्विताः ॥ २१६.१९॥
सोममण्डलसंकाशैर्यानैस्ते यान्ति निर्मलैः ।
गन्धर्वैरुपगीयन्ते पुरे वैवस्वतस्य ते ॥ २१६.२०॥
येषां वाप्यश्च कूपाश्च तडागानि सरांसि च ।
दीर्घिकाः पुष्करिण्यश्च शीतलाश्च जलाशयाः ॥ २१६.२१॥
यानैस्ते हेमचन्द्राभैर्दिव्यघण्टानिनादितैः ।
व्यजनैस्तालवृन्तैश्च वीज्यमाना महाप्रभाः ॥ २१६.२२॥
येषां देवकुलान्यत्र चित्राण्यायतनानि च ।
रत्नैः प्रस्फुरमाणानि मनोज्ञानि शुभानि च ॥ २१६.२३॥
ते यान्ति लोकपालैस्तु विमानैर्वातरंहसैः ।
धर्मराजपुरं दिव्यं नानाजनसमाकुलम् ॥ २१६.२४॥
पानीयं ये प्रयच्छन्ति सर्वप्राण्युपजीवितम् ।
ते वितृष्णाः सुखं यान्ति विमानैस्तं महापथम् ॥ २१६.२५॥
काष्ठपादुकयानानि पीठकान्यासनानि च ।
यैर्दत्तानि द्विजातिभ्यस्तेऽध्वानं यान्ति वै सुखम् ॥ २१६.२६॥
सौवर्णमणिपीठेषु पादौ कृत्वोत्तमेषु च ।
ते प्रयान्ति विमानैस्तु अप्सरोगणमण्डितैः ॥ २१६.२७॥
आरामाणि विचित्राणि पुष्पाढ्यानीह मानवाः ।
रोपयन्ति फलाढ्यानि नराणामुपकारिणः ॥ २१६.२८॥
वृक्षच्छायासु रम्यासु शीतलासु स्वलंकृताः ।
वरस्त्रीगीतवाद्यैश्च सेव्यमाना व्रजन्ति ते ॥ २१६.२९॥
सुवर्णं रजतं वापि विद्रुमं मौक्तिकं तथा ।
ये प्रयच्छन्ति ते यान्ति विमानैः कनकोज्ज्वलैः ॥ २१६.३०॥