अध्याय 215, Verse 1
मुनय ऊचुः ।
कथं दक्षिणमार्गेण विशन्ति पापिनः पुरम् ।
श्रोतुमिच्छाम तद् ब्रूहि विस्तरेण तपोधन ॥ २१५.१॥
Containing 142 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
कथं दक्षिणमार्गेण विशन्ति पापिनः पुरम् ।
श्रोतुमिच्छाम तद् ब्रूहि विस्तरेण तपोधन ॥ २१५.१॥
व्यास उवाच ।
सुघोरं तन् महाघोरं द्वारं वक्ष्यामि भीषणम् ।
नानाश्वापदसंकीर्णं शिवाशतनिनादितम् ॥ २१५.२॥
फेत्काररवसंयुक्तमगम्यं लोमहर्षणम् ।
भूतप्रेतपिशाचैश्च वृतं चान्यैश्च राक्षसैः ॥ २१५.३॥
एवं दृष्ट्वा सुदूरान्ते द्वारं दुष्कृतकारिणः ।
मोहं गच्छन्ति सहसा त्रासाद् विप्रलपन्ति च ॥ २१५.४॥
ततस्ताञ् शृङ्खलैः पाशैर्बद्ध्वा कर्षन्ति निर्भयाः ।
ताडयन्ति च दण्डैश्च भर्त्सयन्ति पुनः पुनः ॥ २१५.५॥
लब्धसंज्ञास्ततस्ते वै रुधिरेण परिप्लुताः ।
व्रजन्ति दक्षिणं द्वारं प्रस्खलन्तः पदे पदे ॥ २१५.६॥
तीव्रकण्टकयुक्तेन शर्करानिचितेन च ।
क्षुरधारानिभैस्तीक्ष्णैः पाषाणैर्निचितेन च ॥ २१५.७॥
क्वचित् पङ्केन निचिता निरुत्तारैश्च खातकैः ।
लोहसूचीनिभैर्दन्तैः संछन्नेन क्वचित् क्वचित् ॥ २१५.८॥
तटप्रपातविषमैः पर्वतैर्वृक्षसंकुलैः ।
प्रतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः ॥ २१५.९॥
क्वचिद् विषमगर्ताभिः क्वचिल्लोष्टैः सुपिच्छलैः ।
सुतप्तवालुकाभिश्च तथा तीक्ष्णैश्च शङ्कुभिः ॥ २१५.१०॥
अयःशृङ्गाटकैस्तप्तैः क्वचिद् दावाग्निना युतम् ।
क्वचित् तप्तशिलाभिश्च क्वचिद् व्याप्तं हिमेन च ॥ २१५.११॥
क्वचिद् वालुकया व्याप्तमाकण्ठान्तःप्रवेशया ।
क्वचिद् दुष्टाम्बुना व्याप्तं क्वचित् कर्षाग्निना पुनः ॥ २१५.१२॥
क्वचित् सिंहैर्वृकैर्व्याघ्रैर्दशकीटैश्च दारुणैः ।
क्वचिन् महाजलौकाभिः क्वचिद् अजगरैः पुनः ॥ २१५.१३॥
मक्षिकाभिश्च रौद्राभिः क्वचित् सर्पविषोल्बणैः ।
क्वचिद् दुष्टगजैश्चैव बलोन्मत्तैः प्रमाथिभिः ॥ २१५.१४॥
पन्थानमुल्लिखद्भिश्च तीक्ष्णशृङ्गैर्महावृषैः ।
महाशृङ्गैश्च महिषैरुष्ट्रैर्मत्तैश्च खादनैः ॥ २१५.१५॥
डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः ।
व्याधिभिश्च महारौद्रैः पीड्यमाना व्रजन्ति ते ॥ २१५.१६॥
महाधूलिविमिश्रेण महाचण्डेन वायुना ।
महापाषाणवर्षेण हन्यमाना निराश्रयाः ॥ २१५.१७॥
क्वचिद् विद्युन्निपातेन दीर्यमाणा व्रजन्ति ते ।
महता बाणवर्षेण भिद्यमानाश्च सर्वशः ॥ २१५.१८॥
पतद्भिर्वज्रनिर्घातैरुल्कापातैः सुदारुणैः ।
प्रदीप्ताङ्गारवर्षेण दह्यमाना विशन्ति च ॥ २१५.१९॥
महता पांशुवर्षेण पूर्यमाणा रुदन्ति च ।
मेघारवैः सुघोरैश्च वित्रास्यन्ते मुहुर्मुहुः ॥ २१५.२०॥
निःशेषाः शरवर्षेण चूर्ण्यमाणाश्च सर्वतः ।
महाक्षाराम्बुधाराभिः सिच्यमाना व्रजन्ति च ॥ २१५.२१॥
महाशीतेन मरुता रूक्षेण परुषेण च ।
समन्ताद् दीर्यमाणाश्च शुष्यन्ते संकुचन्ति च ॥ २१५.२२॥
इत्थं मार्गेण पुरुषाः पाथेयरहितेन च ।
निरालम्बेन दुर्गेण निर्जलेन समन्ततः ॥ २१५.२३॥
अतिश्रमेण महता निर्गतेनाश्रमाय वै ।
नीयन्ते देहिनः सर्वे ये मूढाः पापकर्मिणः ॥ २१५.२४॥
यमदूतैर्महाघोरैस्तदाज्ञाकारिभिर्बलात् ।
एकाकिनः पराधीना मित्रबन्धुविवर्जिताः ॥ २१५.२५॥
शोचन्तः स्वानि कर्माणि रुदन्ति च मुहुर्मुहुः ।
प्रेतीभूता निषिद्धास्ते शुष्ककण्ठौष्ठतालुकाः ॥ २१५.२६॥
कृशाङ्गा भीतभीताश्च दह्यमानाः क्षुधाग्निना ।
बद्धाः शृङ्खलया केचित् केचिद् उत्तानपादयोः ॥ २१५.२७॥
आकृष्यन्ते शुष्यमाणा यमदूतैर्बलोत्कटैः ।
नरा अधोमुखाश्चान्ये कृष्यमाणाः सुदुःखिताः ॥ २१५.२८॥
अन्नपानीयरहिता याचमानाः पुनः पुनः ।
देहि देहीति भाषन्तः साश्रुगद्गदया गिरा ॥ २१५.२९॥
कृताञ्जलिपुटा दीनाः क्षुत्तृष्णापरिपीडिताः ।
भक्ष्यान् उच्चावचान् दृष्ट्वा भोज्यान् पेयांश्च पुष्कलान् ॥ २१५.३०॥