अध्याय 214, Verse 1
मुनय ऊचुः ।
न तृप्तिमधिगच्छामः पुण्यधर्मामृतस्य च ।
मुने त्वन्मुखगीतस्य तथा कौतूहलं हि नः ॥ २१४.१॥
Containing 384 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
न तृप्तिमधिगच्छामः पुण्यधर्मामृतस्य च ।
मुने त्वन्मुखगीतस्य तथा कौतूहलं हि नः ॥ २१४.१॥
उत्पत्तिं प्रलयं चैव भूतानां कर्मणो गतिम् ।
वेत्सि सर्वं मुने तेन पृच्छामस्त्वां महामतिम् ॥ २१४.२॥
श्रूयते यमलोकस्य मार्गः परमदुर्गमः ।
दुःखक्लेशकरः शश्वत् सर्वभूतभयावहः ॥ २१४.३॥
कथं तेन नरा यान्ति मार्गेण यमसादनम् ।
प्रमाणं चैव मार्गस्य ब्रूहि नो वदतां वर ॥ २१४.४॥
मुने पृच्छाम सर्वज्ञ ब्रूहि सर्वमशेषतः ।
कथं नरकदुःखानि नाप्नुवन्ति नरान् मुने ॥ २१४.५॥
केनोपायेन दानेन धर्मेण नियमेन च ।
मानुषस्य च याम्यस्य लोकस्य कियद् अन्तरम् ॥ २१४.६॥
कथं च स्वर्गतिं यान्ति नरकं केन कर्मणा ।
स्वर्गस्थानानि कियन्ति कियन्ति नरकाणि च ॥ २१४.७॥
कथं सुकृतिनो यान्ति कथं दुष्कृतकारिणः ।
किं रूपं किं प्रमाणं वा को वर्णस्तूभयोरपि ।
जीवस्य नीयमानस्य यमलोकं ब्रवीहि नः ॥ २१४.८॥
व्यास उवाच ।
शृणुध्वं मुनिशार्दूला वदतो मम सुव्रताः ।
संसारचक्रमजरं स्थितिर्यस्य न विद्यते ॥ २१४.९॥
सोऽहं वदामि वः सर्वं यममार्गस्य निर्णयम् ।
उत्क्रान्तिकालाद् आरभ्य यथा नान्यो वदिष्यति ॥ २१४.१०॥
स्वरूपं चैव मार्गस्य यन् मां पृच्छथ सत्तमाः ।
यमलोकस्य चाध्वानमन्तरं मानुषस्य च ॥ २१४.११॥
योजनानां सहस्राणि षडशीतिस्तद् अन्तरम् ।
तप्तताम्रमिवातप्तं तद् अध्वानमुदाहृतम् ॥ २१४.१२॥
तद् अवश्यं हि गन्तव्यं प्राणिभिर्जीवसंज्ञकैः ।
पुण्यान् पुण्यकृतो यान्ति पापान् पापकृतोऽधमाः ॥ २१४.१३॥
द्वाविंशतिश्च नरका यमस्य विषये स्थिताः ।
येषु दुष्कृतकर्माणो विपच्यन्ते पृथक् पृथक् ॥ २१४.१४॥
नरको रौरवो रौद्रः शूकरस्ताल एव च ।
कुम्भीपाको महाघोरः शाल्मलोऽथ विमोहनः ॥ २१४.१५॥
कीटादः कृमिभक्षश्च नालाभक्षो भ्रमस्तथा ।
नद्यः पूयवहाश्चान्या रुधिराम्भस्तथैव च ॥ २१४.१६॥
अग्निज्वालो महाघोरः संदंशः शुनभोजनः ।
घोरा वैतरणी चैव असिपत्त्रवनं तथा ॥ २१४.१७॥
न तत्र वृक्षच्छाया वा न तडागाः सरांसि च ।
न वाप्यो दीर्घिका वापि न कूपो न प्रपा सभा ॥ २१४.१८॥
न मण्डपो नायतनं न नद्यो न च पर्वताः ।
न किंचिद् आश्रमस्थानं विद्यते तत्र वर्त्मनि ॥ २१४.१९॥
यत्र विश्रमते श्रान्तः पुरुषो अतीवकर्षितः ।
अवश्यमेव गन्तव्यः स सर्वैस्तु महापथः ॥ २१४.२०॥
प्राप्ते काले तु संत्यज्य सुहृद्बन्धुधनादिकम् ।
जरायुजाण्डजाश्चैव स्वेदजाश्चोद्भिजास्तथा ॥ २१४.२१॥
जङ्गमाजङ्गमाश्चैव गमिष्यन्ति महापथम् ।
देवासुरमनुष्यैश्च वैवस्वतवशानुगैः ॥ २१४.२२॥
स्त्रीपुंनपुंसकैश्चैव पृथिव्यां जीवसंज्ञितैः ।
पूर्वाह्णे चापराह्णे वा मध्याह्ने वा तथा पुनः ॥ २१४.२३॥
संध्याकालेऽर्धरात्रे वा प्रत्यूषे वाप्युपस्थिते ।
वृद्धैर्वा मध्यमैर्वापि यौवनस्थैस्तथैव च ॥ २१४.२४॥
गर्भवासेऽथ बाल्ये वा गन्तव्यः स महापथः ।
प्रवासस्थैर्गृहस्थैर्वा पर्वतस्थैः स्थलेऽपि वा ॥ २१४.२५॥
क्षेत्रस्थैर्वा जलस्थैर्वा गृहमध्यगतैस्तथा ।
आसीनैश्चास्थितैर्वापि शयनीयगतैस्तथा ॥ २१४.२६॥
जाग्रद्भिर्वा प्रसुप्तैर्वा गन्तव्यः स महापथः ।
इहानुभूय निर्दिष्टमायुर्जन्तुः स्वयं तदा ॥ २१४.२७॥
तस्यान्ते च स्वयं प्राणैरनिच्छन्न् अपि मुच्यते ।
जलमग्निर्विषं शस्त्रं क्षुद् व्याधिः पतनं गिरेः ॥ २१४.२८॥
निमित्तं किंचिद् आसाद्य देही प्राणैर्विमुच्यते ।
विहाय सुमहत् कृत्स्नं शरीरं पाञ्चभौतिकम् ॥ २१४.२९॥
अन्यच्छरीरमादत्ते यातनीयं स्वकर्मजम् ।
दृढं शरीरमाप्नोति सुखदुःखोपभुक्तये ॥ २१४.३०॥