अध्याय 213, Verse 1
मुनय ऊचुः ।
अहो कृष्णस्य माहात्म्यमद्भुतं चातिमानुषम् ।
रामस्य च मुनिश्रेष्ठ त्वयोक्तं भुवि दुर्लभम् ॥ २१३.१॥
Containing 171 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
अहो कृष्णस्य माहात्म्यमद्भुतं चातिमानुषम् ।
रामस्य च मुनिश्रेष्ठ त्वयोक्तं भुवि दुर्लभम् ॥ २१३.१॥
न तृप्तिमधिगच्छामः शृण्वन्तो भगवत्कथाम् ।
तस्माद् ब्रूहि महाभाग भूयो देवस्य चेष्टितम् ॥ २१३.२॥
प्रादुर्भावः पुराणेषु विष्णोरमिततेजसः ।
सतां कथयतामेव वराह इति नः श्रुतम् ॥ २१३.३॥
न जानीमोऽस्य चरितं न विधिं न च विस्तरम् ।
न कर्मगुणसद्भावं न हेतुत्वमनीषितम् ॥ २१३.४॥
किमात्मको वराहोऽसौ का मूर्तिः का च देवता ।
किमाचारप्रभावो वा किं वा तेन तदा कृतम् ॥ २१३.५॥
यज्ञार्थे समवेतानां मिषतां च द्विजन्मनाम् ।
महावराहचरितं सर्वलोकसुखावहम् ॥ २१३.६॥
यथा नारायणो ब्रह्मन् वाराहं रूपमास्थितः ।
दंष्ट्रया गां समुद्रस्थामुज्जहारारिमर्दनः ॥ २१३.७॥
विस्तरेणैव कर्माणि सर्वाणि रिपुघातिनः ।
श्रोतुं नो वर्तते बुद्धिर्हरेः कृष्णस्य धीमतः ॥ २१३.८॥
कर्मणामानुपूर्व्या च प्रादुर्भावाश्च ये विभो ।
या वास्य प्रकृतिर्ब्रह्मंस्ताश्चाख्यातुं त्वमर्हसि ॥ २१३.९॥
व्यास उवाच ।
प्रश्नभारो महान् एष भवद्भिः समुदाहृतः ।
यथाशक्त्या तु वक्ष्यामि श्रूयतां वैष्णवं यशः ॥ २१३.१०॥
विष्णोः प्रभावश्रवणे दिष्ट्या वो मतिरुत्थिता ।
तस्माद् विष्णोः समस्ता वै शृणुध्वं याः प्रवृत्तयः ॥ २१३.११॥
सहस्रास्यं सहस्राक्षं सहस्रचरणं च यम् ।
सहस्रशिरसं देवं सहस्रकरमव्ययम् ॥ २१३.१२॥
सहस्रजिह्वं भास्वन्तं सहस्रमुकुटं प्रभुम् ।
सहस्रदं सहस्रादिं सहस्रभुजमव्ययम् ॥ २१३.१३॥
हवनं सवनं चैव होतारं हव्यमेव च ।
पात्राणि च पवित्राणि वेदिं दीक्षां समित् स्रुवम् ॥ २१३.१४॥
स्रुक्सोमसूर्यमुशलं प्रोक्षणीं दक्षिणायनम् ।
अध्वर्युं सामगं विप्रं सदस्यं सदनं सदः ॥ २१३.१५॥
यूपं चक्रं ध्रुवां दर्वीं चरूंश्चोलूखलानि च ।
प्राग्वंशं यज्ञभूमिं च होतारं च परं च यत् ॥ २१३.१६॥
ह्रस्वाण्यतिप्रमाणानि स्थावराणि चराणि च ।
प्रायश्चित्तानि वार्घ्यं च स्थण्डिलानि कुशास्तथा ॥ २१३.१७॥
मन्त्रयज्ञवहं वह्निं भागं भागवहं च यत् ।
अग्रासिनं सोमभुजं हुतार्चिषमुदायुधम् ॥ २१३.१८॥
आहुर्वेदविदो विप्रा यं यज्ञे शाश्वतं प्रभुम् ।
तस्य विष्णोः सुरेशस्य श्रीवत्साङ्कस्य धीमतः ॥ २१३.१९॥
प्रादुर्भावसहस्राणि समतीतान्यनेकशः ।
भूयश्चैव भविष्यन्ति ह्येवमाह पितामहः ॥ २१३.२०॥
यत् पृच्छध्वं महाभागा दिव्यां पुण्यामिमां कथाम् ।
प्रादुर्भावाश्रितां विष्णोः सर्वपापहरां शिवाम् ॥ २१३.२१॥
शृणुध्वं तां महाभागास्तद्गतेनान्तरात्मना ।
प्रवक्ष्याम्यानुपूर्व्येण यत् पृच्छध्वं ममानघाः ॥ २१३.२२॥
वासुदेवस्य माहात्म्यं चरितं च महामतेः ।
हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च ॥ २१३.२३॥
बहुशः सर्वभूतात्मा प्रादुर्भवति वीर्यवान् ।
प्रादुर्भावांश्च वक्ष्यामि पुण्यान् दिव्यान् गुणान्वितान् ॥ २१३.२४॥
सुप्तो युगसहस्रं यः प्रादुर्भवति कार्यतः ।
पूर्णे युगसहस्रेऽथ देवदेवो जगत्पतिः ॥ २१३.२५॥
ब्रह्मा च कपिलश्चैव त्र्यम्बकस्त्रिदशास्तथा ।
देवाः सप्तर्षयश्चैव नागाश्चाप्सरसस्तथा ॥ २१३.२६॥
सनत्कुमारश्च महानुभावो ।
मनुर्महात्मा भगवान् प्रजाकरः ।
पुराणदेवोऽथ पुराणि चक्रे ।
प्रदीप्तवैश्वानरतुल्यतेजाः ॥ २१३.२७॥
योऽसौ चार्णवमध्यस्थो नष्टे स्थावरजङ्गमे ।
नष्टे देवासुरनरे प्रनष्टोरगराक्षसे ॥ २१३.२८॥
योद्धुकामौ दुराधर्षौ तावुभौ मधुकैटभौ ।
हतौ भगवता तेन तयोर्दत्त्वामितं वरम् ॥ २१३.२९॥
पुरा कमलनाभस्य स्वपतः सागराम्भसि ।
पुष्करे तत्र सम्भूता देवाः सर्षिगणास्तथा ॥ २१३.३०॥