अध्याय 212, Verse 1
व्यास उवाच ।
अर्जुनोऽपि तदान्विष्य कृष्णरामकलेवरे ।
संस्कारं लम्भयामास तथान्येषामनुक्रमात् ॥ २१२.१॥
Containing 95 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
अर्जुनोऽपि तदान्विष्य कृष्णरामकलेवरे ।
संस्कारं लम्भयामास तथान्येषामनुक्रमात् ॥ २१२.१॥
अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास्तु याः ।
उपगृह्य हरेर्देहं विविशुस्ता हुताशनम् ॥ २१२.२॥
रेवती चैव रामस्य देहमाश्लिष्य सत्तमाः ।
विवेश ज्वलितं वह्निं तत्सङ्गाह्लादशीतलम् ॥ २१२.३॥
उग्रसेनस्तु तच्छ्रुत्वा तथैवानकदुन्दुभिः ।
देवकी रोहिणी चैव विविशुर्जातवेदसम् ॥ २१२.४॥
ततोऽर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि ।
निश्चक्राम जनं सर्वं गृहीत्वा वज्रमेव च ॥ २१२.५॥
द्वारवत्या विनिष्क्रान्ताः कृष्णपत्न्यः सहस्रशः ।
वज्रं जनं च कौन्तेयः पालयञ् शनकैर्ययौ ॥ २१२.६॥
सभा सुधर्मा कृष्णेन मर्त्यलोके समाहृता ।
स्वर्गं जगाम भो विप्राः पारिजातश्च पादपः ॥ २१२.७॥
यस्मिन् दिने हरिर्यातो दिवं संत्यज्य मेदिनीम् ।
तस्मिन् दिनेऽवतीर्णोऽयं कालकायः कलिः किल ॥ २१२.८॥
प्लावयामास तां शून्यां द्वारकां च महोदधिः ।
यदुश्रेष्ठगृहं त्वेकं नाप्लावयत सागरः ॥ २१२.९॥
नातिक्रामति भो विप्रास्तद् अद्यापि महोदधिः ।
नित्यं संनिहितस्तत्र भगवान् केशवो यतः ॥ २१२.१०॥
तद् अतीव महापुण्यं सर्वपातकनाशनम् ।
विष्णुक्रीडान्वितं स्थानं दृष्ट्वा पापात् प्रमुच्यते ॥ २१२.११॥
पार्थः पञ्चनदे देशे बहुधान्यधनान्विते ।
चकार वासं सर्वस्य जनस्य मुनिसत्तमाः ॥ २१२.१२॥
ततो लोभः समभवत् पार्थेनैकेन धन्विना ।
दृष्ट्वा स्त्रियो नीयमाना दस्यूनां निहतेश्वराः ॥ २१२.१३॥
ततस्ते पापकर्माणो लोभोपहतचेतसः ।
आभीरा मन्त्रयामासुः समेत्यात्यन्तदुर्मदाः ॥ २१२.१४॥
आभीरा ऊचुः ।
अयमेकोऽर्जुनो धन्वी स्त्रीजनं निहतेश्वरम् ।
नयत्यस्मान् अतिक्रम्य धिग् एतत् क्रियतां बलम् ॥ २१२.१५॥
हत्वा गर्वसमारूढो भीष्मद्रोणजयद्रथान् ।
कर्णादींश्च न जानाति बलं ग्रामनिवासिनाम् ॥ २१२.१६॥
बलज्येष्ठान् नरान् अन्यान् ग्राम्यांश्चैव विशेषतः ।
सर्वान् एवावजानाति किं वो बहुभिरुत्तरैः ॥ २१२.१७॥
व्यास उवाच ।
ततो यष्टिप्रहरणा दस्यवो लोष्टहारिणः ।
सहस्रशोऽभ्यधावन्त तं जनं निहतेश्वरम् ।
ततो निवृत्तः कौन्तेयः प्राहाभीरान् हसन्न् इव ॥ २१२.१८॥
अर्जुन उवाच ।
निवर्तध्वमधर्मज्ञा यदीतो न मुमूर्षवः ॥ २१२.१९॥
व्यास उवाच ।
अवज्ञाय वचस्तस्य जगृहुस्ते तदा धनम् ।
स्त्रीजनं चापि कौन्तेयाद् विष्वक्सेनपरिग्रहम् ॥ २१२.२०॥
ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं युधि ।
आरोपयितुमारेभे न शशाक स वीर्यवान् ॥ २१२.२१॥
चकार सज्जं कृच्छ्रात् तु तद् अभूच्छिथिलं पुनः ।
न सस्मार तथास्त्राणि चिन्तयन्न् अपि पाण्डवः ॥ २१२.२२॥
शरान् मुमोच चैतेषु पार्थः शेषान् स हर्षितः ।
न भेदं ते परं चक्रुरस्ता गाण्डीवधन्वना ॥ २१२.२३॥
वह्निना चाक्षया दत्ताः शरास्तेऽपि क्षयं ययुः ।
युध्यतः सह गोपालैरर्जुनस्याभवत् क्षयः ॥ २१२.२४॥
अचिन्तयत् तु कौन्तेयः कृष्णस्यैव हि तद् बलम् ।
यन् मया शरसंघातैः सबला भूभृतो जिताः ॥ २१२.२५॥
मिषतः पाण्डुपुत्रस्य ततस्ताः प्रमदोत्तमाः ।
अपाकृष्यन्त चाभीरैः कामाच्चान्याः प्रवव्रजुः ॥ २१२.२६॥
ततः शरेषु क्षीणेषु धनुष्कोट्या धनंजयः ।
जघान दस्यूंस्ते चास्य प्रहाराञ् जहसुर्द्विजाः ॥ २१२.२७॥
पश्यतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः ।
जग्मुरादाय ते म्लेच्छाः समन्तान् मुनिसत्तमाः ॥ २१२.२८॥
ततः स दुःखितो जिष्णुः कष्टं कष्टमिति ब्रुवन् ।
अहो भगवता तेन मुक्तोऽस्मीति रुरोद वै ॥ २१२.२९॥
अर्जुन उवाच ।
तद् धनुस्तानि चास्त्राणि स रथस्ते च वाजिनः ।
सर्वमेकपदे नष्टं दानमश्रोत्रिये यथा ॥ २१२.३०॥