अध्याय 211, Verse 1
व्यास उवाच ।
इत्युक्तो दारुकः कृष्णं प्रणिपत्य पुनः पुनः ।
प्रदक्षिणं च बहुशः कृत्वा प्रायाद् यथोदितम् ॥ २११.१॥
Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
इत्युक्तो दारुकः कृष्णं प्रणिपत्य पुनः पुनः ।
प्रदक्षिणं च बहुशः कृत्वा प्रायाद् यथोदितम् ॥ २११.१॥
स च गत्वा तथा चक्रे द्वारकायां तथार्जुनम् ।
आनिनाय महाबुद्धिं वज्रं चक्रे तथा नृपम् ॥ २११.२॥
भगवान् अपि गोविन्दो वासुदेवात्मकं परम् ।
ब्रह्मात्मनि समारोप्य सर्वभूतेष्वधारयत् ॥ २११.३॥
स मानयन् द्विजवचो दुर्वासा यद् उवाच ह ।
योगयुक्तोऽभवत् पादं कृत्वा जानुनि सत्तमाः ॥ २११.४॥
सम्प्राप्तो वै जरा नाम तदा तत्र स लुब्धकः ।
मुशलशेषलोहस्य सायकं धारयन् परम् ॥ २११.५॥
स तत्पादं मृगाकारं समवेक्ष्य व्यवस्थितः ।
ततो विव्याध तेनैव तोमरेण द्विजोत्तमाः ॥ २११.६॥
गतश्च ददृशे तत्र चतुर्बाहुधरं नरम् ।
प्रणिपत्याह चैवैनं प्रसीदेति पुनः पुनः ॥ २११.७॥
अजानता कृतमिदं मया हरिणशङ्कया ।
क्षम्यतामात्मपापेन दग्धं मा दग्धुमर्हसि ॥ २११.८॥
व्यास उवाच ।
ततस्तं भगवान् आह नास्ति ते भयमण्वपि ।
गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गेश्वरास्पदम् ॥ २११.९॥
व्यास उवाच ।
विमानमागतं सद्यस्तद्वाक्यसमनन्तरम् ।
आरुह्य प्रययौ स्वर्गं लुब्धकस्तत्प्रसादतः ॥ २११.१०॥
गते तस्मिन् स भगवान् संयोज्यात्मानमात्मनि ।
ब्रह्मभूतेऽव्ययेऽचिन्त्ये वासुदेवमयेऽमले ॥ २११.११॥
अजन्मन्यजरेऽनाशिन्यप्रमेयेऽखिलात्मनि ।
त्यक्त्वा स मानुषं देहमवाप त्रिविधां गतिम् ॥ २११.१२॥