अध्याय 210, Verse 1
व्यास उवाच ।
एवं दैत्यवधं कृष्णो बलदेवसहायवान् ।
चक्रे दुष्टक्षितीशानां तथैव जगतः कृते ॥ २१०.१॥
Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
एवं दैत्यवधं कृष्णो बलदेवसहायवान् ।
चक्रे दुष्टक्षितीशानां तथैव जगतः कृते ॥ २१०.१॥
क्षितेश्च भारं भगवान् फाल्गुनेन समं विभुः ।
अवतारयामास हरिः समस्ताक्षौहिणीवधात् ॥ २१०.२॥
कृत्वा भारावतरणं भुवो हत्वाखिलान् नृपान् ।
शापव्याजेन विप्राणामुपसंहृतवान् कुलम् ॥ २१०.३॥
उत्सृज्य द्वारकां कृष्णस्त्यक्त्वा मानुष्यमात्मभूः ।
स्वांशो विष्णुमयं स्थानं प्रविवेश पुनर्निजम् ॥ २१०.४॥
मुनय ऊचुः ।
स विप्रशापव्याजेन संजह्रे स्वकुलं कथम् ।
कथं च मानुषं देहमुत्ससर्ज जनार्दनः ॥ २१०.५॥
व्यास उवाच ।
विश्वामित्रस्तथा कण्वो नारदश्च महामुनिः ।
पिण्डारके महातीर्थे दृष्टा यदुकुमारकैः ॥ २१०.६॥
ततस्ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः ।
साम्बं जाम्बवतीपुत्रं भूषयित्वा स्त्रियं यथा ।
प्रसृतास्तान् मुनीन् ऊचुः प्रणिपातपुरःसरम् ॥ २१०.७॥
कुमारा ऊचुः ।
इयं स्त्री पुत्रकामा तु प्रभो किं जनयिष्यति ॥ २१०.८॥
व्यास उवाच ।
दिव्यज्ञानोपपन्नास्ते विप्रलब्धा कुमारकैः ।
शापं ददुस्तदा विप्रास्तेषां नाशाय सुव्रताः ॥ २१०.९॥
मुनयः कुपिताः प्रोचुर्मुशलं जनयिष्यति ।
येनाखिलकुलोत्सादो यादवानां भविष्यति ॥ २१०.१०॥
इत्युक्तास्तैः कुमारास्त आचचक्षुर्यथातथम् ।
उग्रसेनाय मुशलं जज्ञे साम्बस्य चोदरात् ॥ २१०.११॥
तद् उग्रसेनो मुशलमयश्चूर्णमकारयत् ।
जज्ञे तच्चैरका चूर्णं प्रक्षिप्तं वै महोदधौ ॥ २१०.१२॥
मुसलस्याथ लौहस्य चूर्णितस्यान्धकैर्द्विजाः ।
खण्डं चूर्णयितुं शेकुर्नैव ते तोमराकृति ॥ २१०.१३॥
तद् अप्यम्बुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः ।
घातितस्योदरात् तस्य लुब्धो जग्राह तज्जरा ॥ २१०.१४॥
विज्ञातपरमार्थोऽपि भगवान् मधुसूदनः ।
नैच्छत् तद् अन्यथा कर्तुं विधिना यत् समाहृतम् ॥ २१०.१५॥
देवैश्च प्रहितो दूतः प्रणिपत्याह केशवम् ।
रहस्येवमहं दूतः प्रहितो भगवन् सुरैः ॥ २१०.१६॥
वस्वश्विमरुदादित्य+ ।
रुद्रसाध्यादिभिः सह ।
विज्ञापयति वः शक्रस्तद् इदं श्रूयतां प्रभो ॥ २१०.१७॥
देवा ऊचुः ।
भारावतरणार्थाय वर्षाणामधिकं शतम् ।
भगवान् अवतीर्णोऽत्र त्रिदशैः सम्प्रसादितः ॥ २१०.१८॥
दुर्वृत्ता निहता दैत्या भुवो भारोऽवतारितः ।
त्वया सनाथास्त्रिदशा व्रजन्तु त्रिदिवेशताम् ॥ २१०.१९॥
तद् अतीतं जगन्नाथ वर्षाणामधिकं शतम् ।
इदानीं गम्यतां स्वर्गो भवता यदि रोचते ॥ २१०.२०॥
देवैर्विज्ञापितो देवोऽप्यथात्रैव रतिस्तव ।
तत् स्थीयतां यथाकालमाख्येयमनुजीविभिः ॥ २१०.२१॥
श्रीभगवान् उवाच ।
यत् त्वमात्थाखिलं दूत वेद्मि चैतद् अहं पुनः ।
प्रारब्ध एव हि मया यादवानामपि क्षयः ॥ २१०.२२॥
भुवो नामातिभारोऽयं यादवैरनिबर्हितैः ।
अवतारं करोम्यस्य सप्तरात्रेण सत्वरः ॥ २१०.२३॥
यथागृहीतं चाम्भोधौ हृत्वाहं द्वारकां पुनः ।
यादवान् उपसंहृत्य यास्यामि त्रिदशालयम् ॥ २१०.२४॥
मनुष्यदेहमुत्सृज्य संकर्षणसहायवान् ।
प्राप्त एवास्मि मन्तव्यो देवेन्द्रेण तथा सुरैः ॥ २१०.२५॥
जरासंधादयो येऽन्ये निहता भारहेतवः ।
क्षितेस्तेभ्यः स भारो हि यदूनां समधीयत ॥ २१०.२६॥
तद् एतत् सुमहाभारमवतार्य क्षितेरहम् ।
यास्याम्यमरलोकस्य पालनाय ब्रवीहि तान् ॥ २१०.२७॥
व्यास उवाच ।
इत्युक्तो वासुदेवेन देवदूतः प्रणम्य तम् ।
द्विजाः स दिव्यया गत्या देवराजान्तिकं ययौ ॥ २१०.२८॥
भगवान् अप्यथोत्पातान् दिव्यान् भौमान्तरिक्षगान् ।
ददर्श द्वारकापुर्यां विनाशाय दिवानिशम् ॥ २१०.२९॥
तान् दृष्ट्वा यादवान् आह पश्यध्वमतिदारुणान् ।
महोत्पाताञ् शमायैषां प्रभासं याम मा चिरम् ॥ २१०.३०॥