अध्याय 21, Verse 1
लोमहर्षण उवाच ।
विस्तार एष कथितः पृथिव्या मुनिसत्तमाः ।
सप्ततिस्तु सहस्राणि तदुच्छ्रायोऽपि कथ्यते ॥ २१.१॥
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
विस्तार एष कथितः पृथिव्या मुनिसत्तमाः ।
सप्ततिस्तु सहस्राणि तदुच्छ्रायोऽपि कथ्यते ॥ २१.१॥
दशसाहस्रमेकैकं पातालं मुनिसत्तमाः ।
अतलं वितलं चैव नितलं सुतलं तथा ॥ २१.२॥
तलातलं रसातलं पातालं चापि सप्तमम् ।
कृष्णा शुक्लारुणा पीता शर्करा शैलकाञ्चनी ॥ २१.३॥
भूमयो यत्र विप्रेन्द्रा वरप्रासादशोभिताः ।
तेषु दानवदैतेयजातयः शतशः स्थिताः ॥ २१.४॥
नागानां च महाङ्गानां ज्ञातयश्च द्विजोत्तमाः ।
स्वर्लोकाद् अपि रम्याणि पातालानीति नारदः ॥ २१.५॥
प्राह स्वर्गसदोमध्ये पातालेभ्यो गतो दिवम् ।
आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः ॥ २१.६॥
नागाभरणभूषाश्च पातालं केन तत्समम् ।
दैत्यदानवकन्याभिरितश्चेतश्च शोभिते ॥ २१.७॥
पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते ।
दिवार्करश्मयो यत्र प्रभास्तन्वन्ति नातपम् ॥ २१.८॥
शशिनश्च न शीताय निशि द्योताय केवलम् ।
भक्ष्यभोज्यमहापान+ ंअदमत्तैश्च भोगिभिः ॥ २१.९॥
यत्र न ज्ञायते कालो गतोऽपि दनुजादिभिः ।
वनानि नद्यो रम्याणि सरांसि कमलाकराः ॥ २१.१०॥
पुंस्कोकिलादिलापाश्च मनोज्ञान्यम्बराणि च ।
भूषणान्यतिरम्याणि गन्धाद्यं चानुलेपनम् ॥ २१.११॥
वीणावेणुमृदङ्गानां निःस्वनाश्च सदा द्विजाः ।
एतान्यन्यानि रम्याणि भाग्यभोग्यानि दानवैः ॥ २१.१२॥
दैत्योरगैश्च भुज्यन्ते पातालान्तरगोचरैः ।
पातालानामधश्चास्ते विष्णोर्या तामसी तनुः ॥ २१.१३॥
शेषाख्या यद्गुणान् वक्तुं न शक्ता दैत्यदानवाः ।
योऽनन्तः पठ्यते सिद्धैर्देवदेवर्षिपूजितः ॥ २१.१४॥
सहस्रशिरसा व्यक्तः स्वस्तिकामलभूषणः ।
फणामणिसहस्रेण यः स विद्योतयन् दिशः ॥ २१.१५॥
सर्वान् करोति निर्वीर्यान् हिताय जगतोऽसुरान् ।
मदाघूर्णितनेत्रोऽसौ यः सदैवैककुण्डलः ॥ २१.१६॥
किरीटी स्रग्धरो भाति साग्निश्वेत इवाचलः ।
नीलवासा मदोत्सिक्तः श्वेतहारोपशोभितः ॥ २१.१७॥
साभ्रगङ्गाप्रपातोऽसौ कैलासाद्रिरिवोत्तमः ।
लाङ्गलासक्तहस्ताग्रो बिभ्रन् मुशलमुत्तमम् ॥ २१.१८॥
उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्तया ।
कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः ॥ २१.१९॥
संकर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम् ।
स बिभ्रच्छिखरीभूतमशेषं क्षितिमण्डलम् ॥ २१.२०॥
आस्ते पातालमूलस्थः शेषोऽशेषसुरार्चितः ।
तस्य वीर्यं प्रभावश्च स्वरूपं रूपमेव च ॥ २१.२१॥
नहि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैरपि ।
यस्यैषा सकला पृथ्वी फणामणिशिखारुणा ॥ २१.२२॥
आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति ।
यदा विजृम्भतेऽनन्तो मदाघूर्णितलोचनः ॥ २१.२३॥
तदा चलति भूरेषा साद्रितोयाधिकानना ।
गन्धर्वाप्सरसः सिद्धाः किंनरोरगवारणाः ॥ २१.२४॥
नान्तं गुणानां गच्छन्ति ततोऽनन्तोऽयमव्ययः ।
यस्य नागवधूहस्तैर्लापितं हरिचन्दनम् ॥ २१.२५॥
मुहुः श्वासानिलायस्तं याति दिक्पटवासताम् ।
यमाराध्य पुराणर्षिर्गर्गो ज्योतींषि तत्त्वतः ॥ २१.२६॥
ज्ञातवान् सकलं चैव निमित्तपठितं फलम् ।
तेनेयं नागवर्येण शिरसा विधृता मही ।
बिभर्ति सकलांल्लोकान् सदेवासुरमानुषान् ॥ २१.२७॥