अध्याय 209, Verse 1
व्यास उवाच ।
शृणुध्वं मुनयः सर्वे बलस्य बलशालिनः ।
कृतं यद् अन्यद् एवाभूत् तद् अपि श्रूयतां द्विजाः ॥ २०९.१॥
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
शृणुध्वं मुनयः सर्वे बलस्य बलशालिनः ।
कृतं यद् अन्यद् एवाभूत् तद् अपि श्रूयतां द्विजाः ॥ २०९.१॥
नरकस्यासुरेन्द्रस्य देवपक्षविरोधिनः ।
सखाभवन् महावीर्यो द्विविदो नाम वानरः ॥ २०९.२॥
वैरानुबन्धं बलवान् स चकार सुरान् प्रति ॥ २०९.३॥
द्विविद उवाच ।
नरकं हतवान् कृष्णो बलदर्पसमन्वितम् ।
करिष्ये सर्वदेवानां तस्माद् एष प्रतिक्रियाम् ॥ २०९.४॥
व्यास उवाच ।
यज्ञविध्वंसनं कुर्वन् मर्त्यलोकक्षयं तथा ।
ततो विध्वंसयामास यज्ञान् अज्ञानमोहितः ॥ २०९.५॥
बिभेद साधुमर्यादां क्षयं चक्रे च देहिनाम् ।
ददाह चपलो देशं पुरग्रामान्तराणि च ॥ २०९.६॥
क्वचिच्च पर्वतक्षेपाद् ग्रामादीन् समचूर्णयत् ।
शैलान् उत्पाट्य तोयेषु मुमोचाम्बुनिधौ तथा ॥ २०९.७॥
पुनश्चार्णवमध्यस्थः क्षोभयामास सागरम् ।
तेनातिक्षोभितश्चाब्धिरुद्वेलो जायते द्विजाः ॥ २०९.८॥
प्लावयंस्तीरजान् ग्रामान् पुरादीन् अतिवेगवान् ।
कामरूपं महारूपं कृत्वा सस्यान्यनेकशः ॥ २०९.९॥
लुठन् भ्रमणसम्मर्दैः संचूर्णयति वानरः ।
तेन विप्रकृतं सर्वं जगद् एतद् दुरात्मना ॥ २०९.१०॥
निःस्वाध्यायवषट्कारं द्विजाश्चासीत् सुदुःखितम् ।
कदाचिद् रैवतोद्याने पपौ पानं हलायुधः ॥ २०९.११॥
रेवती च महाभागा तथैवान्या वरस्त्रियः ।
उद्गीयमानो विलसल्+ ।
ललनामौलिमध्यगः ॥ २०९.१२॥
रेमे यदुवरश्रेष्ठः कुबेर इव मन्दरे ।
ततः स वानरोऽभ्येत्य गृहीत्वा सीरिणो हलम् ॥ २०९.१३॥
मुशलं च चकारास्य सम्मुखः स विडम्बनाम् ।
तथैव योषितां तासां जहासाभिमुखं कपिः ॥ २०९.१४॥
पानपूर्णांश्च करकांश्चिक्षेपाहत्य वै तदा ।
ततः कोपपरीतात्मा भर्त्सयामास तं बलम् ॥ २०९.१५॥
तथापि तमवज्ञाय चक्रे किलकिलाध्वनिम् ।
ततः समुत्थाय बलो जगृहे मुशलं रुषा ॥ २०९.१६॥
सोऽपि शैलशिलां भीमां जग्राह प्लवगोत्तमः ।
चिक्षेप च स तां क्षिप्तां मुशलेन सहस्रधा ॥ २०९.१७॥
बिभेद यादवश्रेष्ठः सा पपात महीतले ।
अपतन् मुशलं चासौ समुल्लङ्घ्य प्लवंगमः ॥ २०९.१८॥
वेगेनायम्य रोषेण बलेनोरस्यताडयत् ।
ततो बलेन कोपेन मुष्टिना मूर्ध्नि ताडितः ॥ २०९.१९॥
पपात रुधिरोद्गारी द्विविदः क्षीणजीवितः ।
पतता तच्छरीरेण गिरेः शृङ्गमशीर्यत ॥ २०९.२०॥
मुनयः शतधा वज्रि+ ।
वज्रेणेव हि ताडितम् ।
पुष्पवृष्टिं ततो देवा रामस्योपरि चिक्षिपुः ॥ २०९.२१॥
प्रशशंसुस्तदाभ्येत्य साध्वेतत् ते महत् कृतम् ।
अनेन दुष्टकपिना दैत्यपक्षोपकारिणा ।
जगन् निराकृतं वीर दिष्ट्या स क्षयमागतः ॥ २०९.२२॥
व्यास उवाच ।
एवंविधान्यनेकानि बलदेवस्य धीमतः ।
कर्माण्यपरिमेयानि शेषस्य धरणीभृतः ॥ २०९.२३॥