अध्याय 208, Verse 1
मुनय ऊचुः ।
श्रोतुमिच्छामहे भूयो बलभद्रस्य धीमतः ।
मुने पराक्रमं शौर्यं तन् नो व्याख्यातुमर्हसि ॥ २०८.१॥
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
श्रोतुमिच्छामहे भूयो बलभद्रस्य धीमतः ।
मुने पराक्रमं शौर्यं तन् नो व्याख्यातुमर्हसि ॥ २०८.१॥
यमुनाकर्षणादीनि श्रुतान्यस्माभिरत्र वै ।
तत् कथ्यतां महाभाग यद् अन्यत् कृतवान् बलः ॥ २०८.२॥
व्यास उवाच ।
शृणुध्वं मुनयः कर्म यद् रामेणाभवत् कृतम् ।
अनन्तेनाप्रमेयेन शेषेण धरणीभृता ॥ २०८.३॥
दुर्योधनस्य तनयां स्वयंवरकृतेक्षणाम् ।
बलाद् आदत्तवान् वीरः साम्बो जाम्बवतीसुतः ॥ २०८.४॥
ततः क्रुद्धा महावीर्याः कर्णदुर्योधनादयः ।
भीष्मद्रोणादयश्चैव बबन्धुर्युधि निर्जितम् ॥ २०८.५॥
तच्छ्रुत्वा यादवाः सर्वे क्रोधं दुर्योधनादिषु ।
मुनयः प्रतिचक्रुश्च तान् विहन्तुं महोद्यमम् ॥ २०८.६॥
तान् निवार्य बलः प्राह मदलोलाकुलाक्षरम् ।
मोक्ष्यन्ति ते मद्वचनाद् यास्याम्येको हि कौरवान् ॥ २०८.७॥
बलदेवस्ततो गत्वा नगरं नागसाह्वयम् ।
बाह्योपवनमध्येऽभून् न विवेश च तत् पुरम् ॥ २०८.८॥
बलमागतमाज्ञाय तदा दुर्योधनादयः ।
गामर्घमुदकं चैव रामाय प्रत्यवेदयन् ।
गृहीत्वा विधिवत् सर्वं ततस्तान् आह कौरवान् ॥ २०८.९॥
बलदेव उवाच ।
आज्ञापयत्युग्रसेनः साम्बमाशु विमुञ्चत ॥ २०८.१०॥
व्यास उवाच ।
ततस्तद्वचनं श्रुत्वा भीष्मद्रोणादयो द्विजाः ।
कर्णदुर्योधनाद्याश्च चुक्रुधुर्द्विजसत्तमाः ॥ २०८.११॥
ऊचुश्च कुपिताः सर्वे बाह्लिकाद्याश्च भूमिपाः ।
अराजार्हं यदोर्वंशमवेक्ष्य मुशलायुधम् ॥ २०८.१२॥
कौरवा ऊचुः ।
भो भोः किमेतद् भवता बलभद्रेरितं वचः ।
आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति ॥ २०८.१३॥
उग्रसेनोऽपि यद्याज्ञां कौरवाणां प्रदास्यति ।
तद् अलं पाण्डुरैश्छत्त्रैर्नृपयोग्यैरलंकृतैः ॥ २०८.१४॥
तद् गच्छ बलभद्र त्वं साम्बमन्यायचेष्टितम् ।
विमोक्ष्यामो न भवतो नोग्रसेनस्य शासनात् ॥ २०८.१५॥
प्रणतिर्या कृतास्माकं मान्यानां कुकुरान्धकैः ।
न नाम सा कृता केयमाज्ञा स्वामिनि भृत्यतः ॥ २०८.१६॥
गर्वमारोपिता यूयं समानासनभोजनैः ।
को दोषो भवतां नीतिर्यत् प्रीणात्यनपेक्षिता ॥ २०८.१७॥
अस्माभिरर्च्यो भवता योऽयं बल निवेदितः ।
प्रेम्णैव न तद् अस्माकं कुलाद् युष्मत्कुलोचितम् ॥ २०८.१८॥
व्यास उवाच ।
इत्युक्त्वा कुरवः सर्वे नामुञ्चन्त हरेः सुतम् ।
कृतैकनिश्चयाः सर्वे विविशुर्गजसाह्वयम् ॥ २०८.१९॥
मत्तः कोपेन चाघूर्णं ततोऽधिक्षेपजन्मना ।
उत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः ॥ २०८.२०॥
ततो विदारिता पृथ्वी पार्ष्णिघातान् महात्मनः ।
आस्फोटयामास तदा दिशः शब्देन पूरयन् ।
उवाच चातिताम्राक्षो भ्रुकुटीकुटिलाननः ॥ २०८.२१॥
बलदेव उवाच ।
अहो महावलेपोऽयमसाराणां दुरात्मनाम् ।
कौरवाणामाधिपत्यमस्माकं किल कालजम् ॥ २०८.२२॥
उग्रसेनस्य ये नाज्ञां मन्यन्ते चाप्यलङ्घनाम् ।
आज्ञां प्रतीच्छेद् धर्मेण सह देवैः शचीपतिः ॥ २०८.२३॥
सदाध्यास्ते सुधर्मां तामुग्रसेनः शचीपतेः ।
धिङ् मनुष्यशतोच्छिष्टे तुष्टिरेषां नृपासने ॥ २०८.२४॥
पारिजाततरोः पुष्प+ ंअञ्जरीर्वनिताजनः ।
बिभर्ति यस्य भृत्यानां सोऽप्येषां न महीपतिः ॥ २०८.२५॥
समस्तभूभुजां नाथ उग्रसेनः स तिष्ठतु ।
अद्य निष्कौरवामुर्वीं कृत्वा यास्यामि तां पुरीम् ॥ २०८.२६॥
कर्णं दुर्योधनं द्रोणमद्य भीष्मं सबाह्लिकम् ।
दुःशासनादीन् भूरिं च भूरिश्रवसमेव च ॥ २०८.२७॥
सोमदत्तं शलं भीममर्जुनं सयुधिष्ठिरम् ।
यमजौ कौरवांश्चान्यान् हन्यां साश्वरथद्विपान् ॥ २०८.२८॥
वीरमादाय तं साम्बं सपत्नीकं ततः पुरीम् ।
द्वारकामुग्रसेनादीन् गत्वा द्रक्ष्यामि बान्धवान् ॥ २०८.२९॥
अथवा कौरवादीनां समस्तैः कुरुभिः सह ।
भारावतरणे शीघ्रं देवराजेन चोदितः ॥ २०८.३०॥