अध्याय 207, Verse 1
मुनय ऊचुः ।
चक्रे कर्म महच्छौरिर्बिभ्रद् यो मानुषीं तनुम् ।
जिगाय शक्रं शर्वं च सर्वदेवांश्च लीलया ॥ २०७.१॥
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
चक्रे कर्म महच्छौरिर्बिभ्रद् यो मानुषीं तनुम् ।
जिगाय शक्रं शर्वं च सर्वदेवांश्च लीलया ॥ २०७.१॥
यच्चान्यद् अकरोत् कर्म दिव्यचेष्टाविघातकृत् ।
कथ्यतां तन् मुनिश्रेष्ठ परं कौतूहलं हि नः ॥ २०७.२॥
व्यास उवाच ।
गदतो मे मुनिश्रेष्ठाः श्रूयतामिदमादरात् ।
नरावतारे कृष्णेन दग्धा वाराणसी यथा ॥ २०७.३॥
पौण्ड्रको वासुदेवश्च वासुदेवोऽभवद् भुवि ।
अवतीर्णस्त्वमित्युक्तो जनैरज्ञानमोहितैः ॥ २०७.४॥
स मेने वासुदेवोऽहमवतीर्णो महीतले ।
नष्टस्मृतिस्ततः सर्वं विष्णुचिह्नमचीकरत् ।
दूतं च प्रेषयामास स कृष्णाय द्विजोत्तमाः ॥ २०७.५॥
दूत उवाच ।
त्यक्त्वा चक्रादिकं चिह्नं मदीयं नाम मात्मनः ।
वासुदेवात्मकं मूढ मुक्त्वा सर्वमशेषतः ॥ २०७.६॥
आत्मनो जीवितार्थं च तथा मे प्रणतिं व्रज ॥ २०७.७॥
व्यास उवाच ।
इत्युक्तः स प्रहस्यैव दूतं प्राह जनार्दनः ॥ २०७.८॥
श्रीभगवान् उवाच ।
निजचिह्नमहं चक्रं समुत्स्रक्ष्ये त्वयीति वै ।
वाच्यश्च पौण्ड्रको गत्वा त्वया दूत वचो मम ॥ २०७.९॥
ज्ञातस्त्वद्वाक्यसद्भावो यत् कार्यं तद् विधीयताम् ।
गृहीतचिह्न एवाहमागमिष्यामि ते पुरम् ॥ २०७.१०॥
उत्स्रक्ष्यामि च ते चक्रं निजचिह्नमसंशयम् ।
आज्ञापूर्वं च यद् इदमागच्छेति त्वयोदितम् ॥ २०७.११॥
सम्पादयिष्ये श्वस्तुभ्यं तद् अप्येषोऽविलम्बितम् ।
शरणं ते समभ्येत्य कर्तास्मि नृपते तथा ।
यथा त्वत्तो भयं भूयो नैव किंचिद् भविष्यति ॥ २०७.१२॥
व्यास उवाच ।
इत्युक्तेऽपगते दूते संस्मृत्याभ्यागतं हरिः ।
गरुत्मन्तं समारुह्य त्वरितं तत्पुरं ययौ ॥ २०७.१३॥
तस्यापि केशवोद्योगं श्रुत्वा काशिपतिस्तदा ।
सर्वसैन्यपरीवार+ ।
पार्ष्णिग्राहमुपाययौ ॥ २०७.१४॥
ततो बलेन महता काशिराजबलेन च ।
पौण्ड्रको वासुदेवोऽसौ केशवाभिमुखं ययौ ॥ २०७.१५॥
तं ददर्श हरिर्दूराद् उदारस्यन्दने स्थितम् ।
चक्रशङ्खगदापाणिं पाणिना विधृताम्बुजम् ॥ २०७.१६॥
स्रग्धरं धृतशार्ङ्गं च सुपर्णरचनाध्वजम् ।
वक्षस्थलकृतं चास्य श्रीवत्सं ददृशे हरिः ॥ २०७.१७॥
किरीटकुण्डलधरं पीतवासःसमन्वितम् ।
दृष्ट्वा तं भावगम्भीरं जहास मधुसूदनः ॥ २०७.१८॥
युयुधे च बलेनास्य हस्त्यश्वबलिना द्विजाः ।
निस्त्रिंशर्ष्टिगदाशूल+ ।
शक्तिकार्मुकशालिना ॥ २०७.१९॥
क्षणेन शार्ङ्गनिर्मुक्तैः शरैरग्निविदारणैः ।
गदाचक्रातिपातैश्च सूदयामास तद्बलम् ॥ २०७.२०॥
काशिराजबलं चैव क्षयं नीत्वा जनार्दनः ।
उवाच पौण्ड्रकं मूढमात्मचिह्नोपलक्षणम् ॥ २०७.२१॥
श्रीभगवान् उवाच ।
पौण्ड्रकोक्तं त्वया यत् तद् दूतवक्त्रेण मां प्रति ।
समुत्सृजेति चिह्नानि तत् ते सम्पादयाम्यहम् ॥ २०७.२२॥
चक्रमेतत् समुत्सृष्टं गदेयं ते विसर्जिता ।
गरुत्मान् एष निर्दिष्टः समारोहतु ते ध्वजम् ॥ २०७.२३॥
इत्युच्चार्य विमुक्तेन चक्रेणासौ विदारितः ।
पोथितो गदया भग्नो गरुत्मांश्च गरुत्मता ॥ २०७.२४॥
ततो हाहाकृते लोके काशीनामधिपस्तदा ।
युयुधे वासुदेवेन मित्रस्यापचितौ स्थितः ॥ २०७.२५॥
ततः शार्ङ्गविनिर्मुक्तैश्छित्त्वा तस्य शरैः शिरः ।
काशिपुर्यां स चिक्षेप कुर्वंल्लोकस्य विस्मयम् ॥ २०७.२६॥
हत्वा तु पौण्ड्रकं शौरिः काशिराजं च सानुगम् ।
रेमे द्वारवतीं प्राप्तोऽमरः स्वर्गगतो यथा ॥ २०७.२७॥
तच्छिरः पतितं तत्र दृष्ट्वा काशिपतेः पुरे ।
जनः किमेतद् इत्याह केनेत्यत्यन्तविस्मितः ॥ २०७.२८॥
ज्ञात्वा तं वासुदेवेन हतं तस्य सुतस्ततः ।
पुरोहितेन सहितस्तोषयामास शंकरम् ॥ २०७.२९॥
अविमुक्ते महाक्षेत्रे तोषितस्तेन शंकरः ।
वरं वृणीष्वेति तदा तं प्रोवाच नृपात्मजम् ॥ २०७.३०॥