अध्याय 206, Verse 1
व्यास उवाच ।
बाणोऽपि प्रणिपत्याग्रे ततश्चाह त्रिलोचनम् ॥ २०६.१॥
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
बाणोऽपि प्रणिपत्याग्रे ततश्चाह त्रिलोचनम् ॥ २०६.१॥
बाण उवाच ।
देव बाहुसहस्रेण निर्विण्णोऽहं विनाहवम् ।
कच्चिन् ममैषां बाहूनां साफल्यकरणो रणः ।
भविष्यति विना युद्धं भाराय मम किं भुजैः ॥ २०६.२॥
शंकर उवाच ।
मयूरध्वजभङ्गस्ते यदा बाण भविष्यति ।
पिशिताशिजनानन्दं प्राप्स्यसि त्वं तदा रणम् ॥ २०६.३॥
व्यास उवाच ।
ततः प्रणम्य मुदितः शम्भुमभ्यागतो गृहात् ।
भग्नं ध्वजमथालोक्य हृष्टो हर्षं परं ययौ ॥ २०६.४॥
एतस्मिन्न् एव काले तु योगविद्याबलेन तम् ।
अनिरुद्धमथानिन्ये चित्रलेखा वरा सखी ॥ २०६.५॥
कन्यान्तःपुरमध्ये तं रममाणं सहोषया ।
विज्ञाय रक्षिणो गत्वा शशंसुर्दैत्यभूपतेः ॥ २०६.६॥
व्यादिष्टं किंकराणां तु सैन्यं तेन महात्मना ।
जघान परिघं लौहमादाय परवीरहा ॥ २०६.७॥
हतेषु तेषु बाणोऽपि रथस्थस्तद्वधोद्यतः ।
युध्यमानो यथाशक्ति यदा वीरेण निर्जितः ॥ २०६.८॥
मायया युयुधे तेन स तदा मन्त्रचोदितः ।
ततश्च पन्नगास्त्रेण बबन्ध यदुनन्दनम् ॥ २०६.९॥
द्वारवत्यां क्व यातोऽसावनिरुद्धेति जल्पताम् ।
यदूनामाचचक्षे तं बद्धं बाणेन नारदः ॥ २०६.१०॥
तं शोणितपुरे श्रुत्वा नीतं विद्याविदग्धया ।
योषिता प्रत्ययं जग्मुर्यादवा नाम वैरिति ॥ २०६.११॥
ततो गरुडमारुह्य स्मृतमात्रागतं हरिः ।
बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम् ॥ २०६.१२॥
पुरीप्रवेशे प्रमथैर्युद्धमासीन् महाबलैः ।
ययौ बाणपुराभ्याशं नीत्वा तान् संक्षयं हरिः ॥ २०६.१३॥
ततस्त्रिपादस्त्रिशिरा ज्वरो माहेश्वरो महान् ।
बाणरक्षार्थमत्यर्थं युयुधे शार्ङ्गधन्वना ॥ २०६.१४॥
तद्भस्मस्पर्शसम्भूत+ ।
तापं कृष्णाङ्गसंगमात् ।
अवाप बलदेवोऽपि समं सम्मीलितेक्षणः ॥ २०६.१५॥
ततः संयुध्यमानस्तु सह देवेन शार्ङ्गिणा ।
वैष्णवेन ज्वरेणाशु कृष्णदेहान् निराकृतः ॥ २०६.१६॥
नारायणभुजाघात+ ।
परिपीडनविह्वलम् ।
तं वीक्ष्य क्षम्यतामस्येत्याह देवः पितामहः ॥ २०६.१७॥
ततश्च क्षान्तमेवेति प्रोच्य तं वैष्णवं ज्वरम् ।
आत्मन्येव लयं निन्ये भगवान् मधुसूदनः ॥ २०६.१८॥
मम त्वया समं युद्धं ये स्मरिष्यन्ति मानवाः ।
विज्वरास्ते भविष्यन्तीत्युक्त्वा चैनं ययौ हरिः ॥ २०६.१९॥
ततोऽग्नीन् भगवान् पञ्च जित्वा नीत्वा क्षयं तथा ।
दानवानां बलं विष्णुश्चूर्णयामास लीलया ॥ २०६.२०॥
ततः समस्तसैन्येन दैतेयानां बलेः सुतः ।
युयुधे शंकरश्चैव कार्त्तिकेयश्च शौरिणा ॥ २०६.२१॥
हरिशंकरयोर्युद्धमतीवासीत् सुदारुणम् ।
चुक्षुभुः सकला लोकाः शस्त्रास्त्रैर्बहुधार्दिताः ॥ २०६.२२॥
प्रलयोऽयमशेषस्य जगतो नूनमागतः ।
मेनिरे त्रिदशा यत्र वर्तमाने महाहवे ॥ २०६.२३॥
जृम्भणास्त्रेण गोविन्दो जृम्भयामास शंकरम् ।
ततः प्रणेशुर्दैतेयाः प्रमथाश्च समन्ततः ॥ २०६.२४॥
जृम्भाभिभूतश्च हरो रथोपस्थमुपाविशत् ।
न शशाक तदा योद्धुं कृष्णेनाक्लिष्टकर्मणा ॥ २०६.२५॥
गरुडक्षतबाहुश्च प्रद्युम्नास्त्रेण पीडितः ।
कृष्णहुंकारनिर्धूत+ ।
शक्तिश्चापययौ गुहः ॥ २०६.२६॥
जृम्भिते शंकरे नष्टे दैत्यसैन्ये गुहे जिते ।
नीते प्रमथसैन्ये च संक्षयं शार्ङ्गधन्वना ॥ २०६.२७॥
नन्दीशसंगृहीताश्वमधिरूढो महारथम् ।
बाणस्तत्राययौ योद्धुं कृष्णकार्ष्णिबलैः सह ॥ २०६.२८॥
बलभद्रो महावीर्यो बाणसैन्यमनेकधा ।
विव्याध बाणैः प्रद्युम्नो धर्मतश्चापलायतः ॥ २०६.२९॥
आकृष्य लाङ्गलाग्रेण मुशलेन च पोथितम् ।
बलं बलेन ददृशे बाणो बाणैश्च चक्रिणः ॥ २०६.३०॥