अध्याय 205, Verse 1
व्यास उवाच ।
प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्यां कथिता द्विजाः ।
भान्वादिकांश्च वै पुत्रान् सत्यभामा व्यजायत ॥ २०५.१॥
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्यां कथिता द्विजाः ।
भान्वादिकांश्च वै पुत्रान् सत्यभामा व्यजायत ॥ २०५.१॥
दीप्तिमन्तः प्रपक्षाद्या रोहिण्यास्तनया हरेः ।
बभूवुर्जाम्बवत्याश्च साम्बाद्या बाहुशालिनः ॥ २०५.२॥
तनया भद्रविन्दाद्या नाग्नजित्यां महाबलाः ।
संग्रामजित्प्रधानास्तु शैब्यायां चाभवन् सुताः ॥ २०५.३॥
वृकाद्यास्तु सुता माद्री गात्रवत्प्रमुखान् सुतान् ।
अवाप लक्ष्मणा पुत्रान् कालिन्द्याश्च श्रुतादयः ॥ २०५.४॥
अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः ।
अष्टायुतानि पुत्राणां सहस्राणि शतं तथा ॥ २०५.५॥
प्रद्युम्नः प्रमुखस्तेषां रुक्मिण्यास्तु सुतस्ततः ।
प्रद्युम्नाद् अनिरुद्धोऽभूद् वज्रस्तस्माद् अजायत ॥ २०५.६॥
अनिरुद्धो रणे रुद्धो बलेः पौत्रीं महाबलः ।
बाणस्य तनयामूषामुपयेमे द्विजोत्तमाः ॥ २०५.७॥
यत्र युद्धमभूद् घोरं हरिशंकरयोर्महत् ।
छिन्नं सहस्रं बाहूनां यत्र बाणस्य चक्रिणा ॥ २०५.८॥
मुनय ऊचुः ।
कथं युद्धमभूद् ब्रह्मन्न् उषार्थे हरकृष्णयोः ।
कथं क्षयं च बाणस्य बाहूनां कृतवान् हरिः ॥ २०५.९॥
एतत् सर्वं महाभाग वक्तुमर्हसि नोऽखिलम् ।
महत् कौतूहलं जातं श्रोतुमेतां कथां शुभाम् ॥ २०५.१०॥
व्यास उवाच ।
उषा बाणसुता विप्राः पार्वतीं शम्भुना सह ।
क्रीडन्तीमुपलक्ष्योच्चैः स्पृहां चक्रे तदा स्वयम् ।
ततः सकलचित्तज्ञा गौरी तामाह भामिनीम् ॥ २०५.११॥
गौर्युवाच ।
अलमित्यनुतापेन भर्त्रा त्वमपि रंस्यसे ॥ २०५.१२॥
व्यास उवाच ।
इत्युक्ता सा तदा चक्रे कदेति मतिमात्मनः ।
को वा भर्ता ममेत्येनां पुनरप्याह पार्वती ॥ २०५.१३॥
पार्वत्युवाच ।
वैशाखे शुक्लद्वादश्यां स्वप्ने योऽभिभवं तव ।
करिष्यति स ते भर्ता राजपुत्रि भविष्यति ॥ २०५.१४॥
व्यास उवाच ।
तस्यां तिथौ पुमान् स्वप्ने यथा देव्या उदीरितः ।
तथैवाभिभवं चक्रे रागं चक्रे च तत्र सा ।
ततः प्रबुद्धा पुरुषमपश्यन्ती तमुत्सुका ॥ २०५.१५॥
उषोवाच ।
क्व गतोऽसीति निर्लज्जा द्विजाश्चोक्तवती सखीम् ।
बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा तु तत्सुता ॥ २०५.१६॥
तस्याः सख्यभवत् सा च प्राह कोऽयं त्वयोच्यते ।
यदा लज्जाकुला नास्य कथयामास सा सखी ॥ २०५.१७॥
तदा विश्वासमानीय सर्वमेवान्ववेदयत् ।
विदितायां तु तामाह पुनरूषा यथोदितम् ।
देव्या तथैव तत्प्राप्तौ योऽभ्युपायः कुरुष्व तम् ॥ २०५.१८॥
व्यास उवाच ।
ततः पटे सुरान् दैत्यान् गन्धर्वांश्च प्रधानतः ।
मनुष्यांश्चाभिलिख्यासौ चित्रलेखाप्यदर्शयत् ॥ २०५.१९॥
अपास्य सा तु गन्धर्वांस्तथोरगसुरासुरान् ।
मनुष्येषु ददौ दृष्टिं तेष्वप्यन्धकवृष्णिषु ॥ २०५.२०॥
कृष्णरामौ विलोक्यासीत् सुभ्रूर्लज्जायतेक्षणा ।
प्रद्युम्नदर्शने व्रीडा+ ।
दृष्टिं निन्ये ततो द्विजाः ॥ २०५.२१॥
दृष्ट्वानिरुद्धं च ततो लज्जा क्वापि निराकृता ।
सोऽयं सोऽयं ममेत्युक्ते तया सा योगगामिनी ।
ययौ द्वारवतीमूषां समाश्वास्य ततः सखी ॥ २०५.२२॥