अध्याय 204, Verse 1
व्यास उवाच ।
संस्तुतो भगवान् इत्थं देवराजेन केशवः ।
प्रहस्य भावगम्भीरमुवाचेदं द्विजोत्तमाः ॥ २०४.१॥
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
संस्तुतो भगवान् इत्थं देवराजेन केशवः ।
प्रहस्य भावगम्भीरमुवाचेदं द्विजोत्तमाः ॥ २०४.१॥
श्रीभगवान् उवाच ।
देवराजो भवान् इन्द्रो वयं मर्त्या जगत्पते ।
क्षन्तव्यं भवतैवैतद् अपराधकृतं मम ॥ २०४.२॥
पारिजाततरुश्चायं नीयतामुचितास्पदम् ।
गृहीतोऽयं मया शक्र सत्यावचनकारणात् ॥ २०४.३॥
वज्रं चेदं गृहाण त्वं यष्टव्यं प्रहितं त्वया ।
तवैवैतत् प्रहरणं शक्र वैरिविदारणम् ॥ २०४.४॥
शक्र उवाच ।
विमोहयसि मामीश मर्त्योऽहमिति किं वदन् ।
जानीमस्त्वां भगवतोऽनन्तसौख्यविदो वयम् ॥ २०४.५॥
योऽसि सोऽसि जगन्नाथ प्रवृत्तौ नाथ संस्थितः ।
जगतः शल्यनिष्कर्षं करोष्यसुरसूदन ॥ २०४.६॥
नीयतां पारिजातोऽयं कृष्ण द्वारवतीं पुरीम् ।
मर्त्यलोके त्वया मुक्ते नायं संस्थास्यते भुवि ॥ २०४.७॥
व्यास उवाच ।
तथेत्युक्त्वा तु देवेन्द्रमाजगाम भुवं हरिः ।
प्रयुक्तैः सिद्धगन्धर्वैः स्तूयमानस्त्वथर्षिभिः ॥ २०४.८॥
जगाम कृष्णः सहसा गृहीत्वा पादपोत्तमम् ।
ततः शङ्खमुपाध्माय द्वारकोपरि संस्थितः ॥ २०४.९॥
हर्षमुत्पादयामास द्वारकावासिनां द्विजाः ।
अवतीर्याथ गरुडात् सत्यभामासहायवान् ॥ २०४.१०॥
निष्कुटे स्थापयामास पारिजातं महातरुम् ।
यमभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम् ॥ २०४.११॥
वास्यते यस्य पुष्पाणां गन्धेनोर्वी त्रियोजनम् ।
ततस्ते यादवाः सर्वे देवगन्धान् अमानुषान् ॥ २०४.१२॥
ददृशुः पादपे तस्मिन् कुर्वतो मुखदर्शनम् ।
किंकरैः समुपानीतं हस्त्यश्वादि ततो धनम् ॥ २०४.१३॥
स्त्रियश्च कृष्णो जग्राह नरकस्य परिग्रहात् ।
ततः काले शुभे प्राप्त उपयेमे जनार्दनः ॥ २०४.१४॥
ताः कन्या नरकावासात् सर्वतो याः समाहृताः ।
एकस्मिन्न् एव गोविन्दः कालेनासां द्विजोत्तमाः ॥ २०४.१५॥
जग्राह विधिवत् पाणीन् पृथग्देहे स्वधर्मतः ।
षोडश स्त्रीसहस्राणि शतमेकं तथाधिकम् ॥ २०४.१६॥
तावन्ति चक्रे रूपाणि भगवान् मधुसूदनः ।
एकैकशश्च ताः कन्या मेनिरे मधुसूदनम् ॥ २०४.१७॥
ममैव पाणिग्रहणं गोविन्दः कृतवान् इति ।
निशासु जगतः स्रष्टा तासां गेहेषु केशवः ।
उवास विप्राः सर्वासां विश्वरूपधरो हरिः ॥ २०४.१८॥