अध्याय 203, Verse 1
व्यास उवाच ।
गरुडो वारुणं छत्त्रं तथैव मणिपर्वतम् ।
सभार्यं च हृषीकेशं लीलयैव वहन् ययौ ॥ २०३.१॥
Containing 73 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
गरुडो वारुणं छत्त्रं तथैव मणिपर्वतम् ।
सभार्यं च हृषीकेशं लीलयैव वहन् ययौ ॥ २०३.१॥
ततः शङ्खमुपाध्माय स्वर्गद्वारं गतो हरिः ।
उपतस्थुस्ततो देवाः सार्घपात्रा जनार्दनम् ॥ २०३.२॥
स देवैरर्चितः कृष्णो देवमातुर्निवेशनम् ।
सिताभ्रशिखराकारं प्रविश्य ददृशेऽदितिम् ॥ २०३.३॥
स तां प्रणम्य शक्रेण सहितः कुण्डलोत्तमे ।
ददौ नरकनाशं च शशंसास्यै जनार्दनः ॥ २०३.४॥
ततः प्रीता जगन्माता धातारं जगतां हरिम् ।
तुष्टावादितिरव्यग्रं कृत्वा तत्प्रवणं मनः ॥ २०३.५॥
अदितिरुवाच ।
नमस्ते पुण्डरीकाक्ष भक्तानामभयंकर ।
सनातनात्मन् भूतात्मन् सर्वात्मन् भूतभावन ॥ २०३.६॥
प्रणेतर्मनसो बुद्धेरिन्द्रियाणां गुणात्मक ।
सितदीर्घादिनिःशेष+ ।
कल्पनापरिवर्जित ॥ २०३.७॥
जन्मादिभिरसंस्पृष्ट+ ।
स्वप्नादिवारिवर्जितः ।
संध्या रात्रिरहर्भूमिर्गगनं वायुरम्बु च ॥ २०३.८॥
हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाच्युत ।
सृष्टिस्थितिविनाशानां कर्ता कर्तृपतिर्भवान् ॥ २०३.९॥
ब्रह्मविष्णुशिवाख्याभिरात्ममूर्तिभिरीश्वरः ।
मायाभिरेतद् व्याप्तं ते जगत् स्थावरजङ्गमम् ॥ २०३.१०॥
अनात्मन्यात्मविज्ञानं सा ते माया जनार्दन ।
अहं ममेति भावोऽत्र यया समुपजायते ॥ २०३.११॥
संसारमध्ये मायायास्तवैतन् नाथ चेष्टितम् ।
यैः स्वधर्मपरैर्नाथ नरैराराधितो भवान् ॥ २०३.१२॥
ते तरन्त्यखिलामेतां मायामात्मविमुक्तये ।
ब्रह्माद्याः सकला देवा मनुष्याः पशवस्तथा ॥ २०३.१३॥
विष्णुमायामहावर्ते मोहान्धतमसावृताः ।
आराध्य त्वामभीप्सन्ते कामान् आत्मभवक्षये ॥ २०३.१४॥
पदे ते पुरुषा बद्धा मायया भगवंस्तव ।
मया त्वं पुत्रकामिन्या वैरिपक्षक्षयाय च ॥ २०३.१५॥
आराधितो न मोक्षाय मायाविलसितं हि तत् ।
कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमाद् अपि ॥ २०३.१६॥
जायते यद् अपुण्यानां सोऽपराधः स्वदोषजः ।
तत् प्रसीदाखिलजगन्+ ंआयामोहकराव्यय ॥ २०३.१७॥
अज्ञानं ज्ञानसद्भाव भूतभूतेश नाशय ।
नमस्ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः ॥ २०३.१८॥
गदाहस्ताय ते विष्णो शङ्खहस्ताय ते नमः ।
एतत् पश्यामि ते रूपं स्थूलचिह्नोपशोभितम् ।
न जानामि परं यत् ते प्रसीद परमेश्वर ॥ २०३.१९॥
व्यास उवाच ।
अदित्यैवं स्तुतो विष्णुः प्रहस्याह सुरारणिम् ॥ २०३.२०॥
श्रीकृष्ण उवाच ।
माता देवि त्वमस्माकं प्रसीद वरदा भव ॥ २०३.२१॥
अदितिरुवाच ।
एवमस्तु यथेच्छा ते त्वमशेषसुरासुरैः ।
अजेयः पुरुषव्याघ्र मर्त्यलोके भविष्यसि ॥ २०३.२२॥
व्यास उवाच ।
ततोऽनन्तरमेवास्य शक्राणीसहितां दितिम् ।
सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः ॥ २०३.२३॥
अदितिरुवाच ।
मत्प्रसादान् न ते सुभ्रु जरा वैरूप्यमेव च ।
भविष्यत्यनवद्याङ्गि सर्वकामा भविष्यसि ॥ २०३.२४॥
व्यास उवाच ।
अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् ।
यथावत् पूजयामास बहुमानपुरःसरम् ॥ २०३.२५॥
ततो ददर्श कृष्णोऽपि सत्यभामासहायवान् ।
देवोद्यानानि सर्वाणि नन्दनादीनि सत्तमाः ॥ २०३.२६॥
ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् ।
शैत्याह्लादकरं दिव्यं ताम्रपल्लवशोभितम् ॥ २०३.२७॥
मथ्यमानेऽमृते जातं जातरूपसमप्रभम् ।
पारिजातं जगन्नाथः केशवः केशिसूदनः ।
तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तमाः ॥ २०३.२८॥
सत्यभामोवाच ।
कस्मान् न द्वारकामेष नीयते कृष्ण पादपः ।
यदि ते तद् वचः सत्यं सत्यात्यर्थं प्रियेति मे ॥ २०३.२९॥
मद्गृहे निष्कुटार्थाय तद् अयं नीयतां तरुः ।
न मे जाम्बवती तादृग् अभीष्टा न च रुक्मिणी ॥ २०३.३०॥