अध्याय 202, Verse 1
व्यास उवाच ।
द्वारवत्यां ततः शौरिं शक्रस्त्रिभुवनेश्वरः ।
आजगामाथ मुनयो मत्तैरावतपृष्ठगः ॥ २०२.१॥
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
द्वारवत्यां ततः शौरिं शक्रस्त्रिभुवनेश्वरः ।
आजगामाथ मुनयो मत्तैरावतपृष्ठगः ॥ २०२.१॥
प्रविश्य द्वारकां सोऽथ समीपे च हरेस्तदा ।
कथयामास दैत्यस्य नरकस्य विचेष्टितम् ॥ २०२.२॥
इन्द्र उवाच ।
त्वया नाथेन देवानां मनुष्यत्वेऽपि तिष्ठता ।
प्रशमं सर्वदुःखानि नीतानि मधुसूदन ॥ २०२.३॥
तपस्विजनरक्षायै सोऽरिष्टो धेनुकस्तथा ।
प्रलम्बाद्यास्तथा केशी ते सर्वे निहतास्त्वया ॥ २०२.४॥
कंसः कुवलयापीडः पूतना बालघातिनी ।
नाशं नीतास्त्वया सर्वे येऽन्ये जगदुपद्रवाः ॥ २०२.५॥
युष्मद्दोर्दण्डसम्बुद्धि+ ।
परित्राते जगत्त्रये ।
यज्ञे यज्ञहविः प्राश्य तृप्तिं यान्ति दिवौकसः ॥ २०२.६॥
सोऽहं साम्प्रतमायातो यन्निमित्तं जनार्दन ।
तच्छ्रुत्वा तत्प्रतीकार+ ।
प्रयत्नं कर्तुमर्हसि ॥ २०२.७॥
भौमोऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः ।
करोति सर्वभूतानामपघातमरिंदम ॥ २०२.८॥
देवसिद्धसुरादीनां नृपाणां च जनार्दन ।
हत्वा तु सोऽसुरः कन्या रुरोध निजमन्दिरे ॥ २०२.९॥
छत्त्रं यत् सलिलस्रावि तज्जहार प्रचेतसः ।
मन्दरस्य तथा शृङ्गं हृतवान् मणिपर्वतम् ॥ २०२.१०॥
अमृतस्राविणी दिव्ये मातुर्मेऽमृतकुण्डले ।
जहार सोऽसुरोऽदित्या वाञ्छत्यैरावतं द्विपम् ॥ २०२.११॥
दुर्नीतमेतद् गोविन्द मया तस्य तवोदितम् ।
यद् अत्र प्रतिकर्तव्यं तत् स्वयं परिमृश्यताम् ॥ २०२.१२॥
व्यास उवाच ।
इति श्रुत्वा स्मितं कृत्वा भगवान् देवकीसुतः ।
गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात् ॥ २०२.१३॥
संचिन्तितमुपारुह्य गरुडं गगनेचरम् ।
सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम् ॥ २०२.१४॥
आरुह्यैरावतं नागं शक्रोऽपि त्रिदशालयम् ।
ततो जगाम सुमनाः पश्यतां द्वारकौकसाम् ॥ २०२.१५॥
प्राग्ज्योतिषपुरस्यास्य समन्ताच्छतयोजनम् ।
आचितं भैरवैः पाशैः परसैन्यनिवारणे ॥ २०२.१६॥
तांश्चिच्छेद हरिः पाशान् क्षिप्त्वा चक्रं सुदर्शनम् ।
ततो मुरः समुत्तस्थौ तं जघान च केशवः ॥ २०२.१७॥
मुरोस्तु तनयान् सप्त सहस्रास्तांस्ततो हरिः ।
चक्रधाराग्निनिर्दग्धांश्चकार शलभान् इव ॥ २०२.१८॥
हत्वा मुरं हयग्रीवं तथा पञ्चजनं द्विजाः ।
प्राग्ज्योतिषपुरं धीमांस्त्वरावान् समुपाद्रवत् ॥ २०२.१९॥
नरकेनास्य तत्राभून् महासैन्येन संयुगः ।
कृष्णस्य यत्र गोविन्दो जघ्ने दैत्यान् सहस्रशः ॥ २०२.२०॥
शस्त्रास्त्रवर्षं मुञ्चन्तं स भौमं नरकं बली ।
क्षिप्त्वा चक्रं द्विधा चक्रे चक्री दैतेयचक्रहा ॥ २०२.२१॥
हते तु नरके भूमिर्गृहीत्वादितिकुण्डले ।
उपतस्थे जगन्नाथं वाक्यं चेदमथाब्रवीत् ॥ २०२.२२॥
धरण्युवाच ।
यदाहमुद्धृता नाथ त्वया शूकरमूर्तिना ।
त्वत्संस्पर्शभवः पुत्रस्तदायं मय्यजायत ॥ २०२.२३॥
सोऽयं त्वयैव दत्तो मे त्वयैव विनिपातितः ।
गृहाण कुण्डले चेमे पालयास्य च संततिम् ॥ २०२.२४॥
भारावतरणार्थाय ममैव भगवान् इमम् ।
अंशेन लोकमायातः प्रसादसुमुख प्रभो ॥ २०२.२५॥
त्वं कर्ता च विकर्ता च संहर्ता प्रभवोऽव्ययः ।
जगत्स्वरूपो यश्च त्वं स्तूयसेऽच्युत किं मया ॥ २०२.२६॥
व्यापी व्याप्यः क्रिया कर्ता कार्यं च भगवान् सदा ।
सर्वभूतात्मभूतात्मा स्तूयसेऽच्युत किं मया ॥ २०२.२७॥
परमात्मा त्वमात्मा च भूतात्मा चाव्ययो भवान् ।
यदा तदा स्तुतिर्नास्ति किमर्थं ते प्रवर्तताम् ॥ २०२.२८॥
प्रसीद सर्वभूतात्मन् नरकेन कृतं च यत् ।
तत् क्षम्यतामदोषाय मत्सुतः स निपातितः ॥ २०२.२९॥
व्यास उवाच ।
तथेति चोक्त्वा धरणीं भगवान् भूतभावनः ।
रत्नानि नरकावासाज्जग्राह मुनिसत्तमाः ॥ २०२.३०॥