अध्याय 201, Verse 1
व्यास उवाच ।
चारुदेष्णं सुदेष्णं च चारुदेहं च शोभनम् ।
सुषेणं चारुगुप्तं च भद्रचारुं तथापरम् ॥ २०१.१॥
Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
चारुदेष्णं सुदेष्णं च चारुदेहं च शोभनम् ।
सुषेणं चारुगुप्तं च भद्रचारुं तथापरम् ॥ २०१.१॥
चारुविन्दं सुचारुं च चारुं च बलिनां वरम् ।
रुक्मिण्यजनयत् पुत्रान् कन्यां चारुमतीं तथा ॥ २०१.२॥
अन्याश्च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः ।
कालिन्दी मित्रविन्दा च सत्या नाग्नजिती तथा ॥ २०१.३॥
देवी जाम्बवती चापि सदा तुष्टा तु रोहिणी ।
मद्रराजसुता चान्या सुशीला शीलमण्डला ॥ २०१.४॥
सात्राजिती सत्यभामा लक्ष्मणा चारुहासिनी ।
षोडशात्र सहस्राणि स्त्रीणामन्यानि चक्रिणः ॥ २०१.५॥
प्रद्युम्नोऽपि महावीर्यो रुक्मिणस्तनयां शुभाम् ।
स्वयंवरस्थां जग्राह सापि तं तनयं हरेः ॥ २०१.६॥
तस्यामस्याभवत् पुत्रो महाबलपराक्रमः ।
अनिरुद्धो रणे रुद्धो वीर्योदधिररिंदमः ॥ २०१.७॥
तस्यापि रुक्मिणः पौत्रीं वरयामास केशवः ।
दौहित्राय ददौ रुक्मी स्पर्धयन्न् अपि शौरिणा ॥ २०१.८॥
तस्या विवाहे रामाद्या यादवा हरिणा सह ।
रुक्मिणो नगरं जग्मुर्नाम्ना भोजकटं द्विजाः ॥ २०१.९॥
विवाहे तत्र निर्वृत्ते प्राद्युम्नेः सुमहात्मनः ।
कलिङ्गराजप्रमुखा रुक्मिणं वाक्यमब्रुवन् ॥ २०१.१०॥
कलिङ्गादय ऊचुः ।
अनक्षज्ञो हली द्यूते तथास्य व्यसनं महत् ।
तन् नयामो बलं तस्माद् द्यूतेनैव महाद्युते ॥ २०१.११॥
व्यास उवाच ।
तथेति तान् आह नृपान् रुक्मी बलसमन्वितः ।
सभायां सह रामेण चक्रे द्यूतं च वै तदा ॥ २०१.१२॥
सहस्रमेकं निष्काणां रुक्मिणा विजितो बलः ।
द्वितीये दिवसे चान्यत् सहस्रं रुक्मिणा जितः ॥ २०१.१३॥
ततो दश सहस्राणि निष्काणां पणमाददे ।
बलभद्रप्रपन्नानि रुक्मी द्यूतविदां वरः ॥ २०१.१४॥
ततो जहासाथ बलं कलिङ्गाधिपतिर्द्विजाः ।
दन्तान् विदर्शयन् मूढो रुक्मी चाह मदोद्धतः ॥ २०१.१५॥
रुक्म्युवाच ।
अविद्योऽयं महाद्यूते बलभद्रः पराजितः ।
मृषैवाक्षावलेपत्वाद् योऽयं मेनेऽक्षकोविदम् ॥ २०१.१६॥
दृष्ट्वा कलिङ्गराजं तु प्रकाशदशनाननम् ।
रुक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः ॥ २०१.१७॥
व्यास उवाच ।
ततः कोपपरीतात्मा निष्ककोटिं हलायुधः ।
ग्लहं जग्राह रुक्मी च ततस्त्वक्षान् अपातयत् ॥ २०१.१८॥
अजयद् बलदेवोऽथ प्राहोच्चैस्तं जितं मया ।
ममेति रुक्मी प्राहोच्चैरलीकोक्तैरलं बलम् ॥ २०१.१९॥
त्वयोक्तोऽयं ग्लहः सत्यं न ममैषोऽनुमोदितः ।
एवं त्वया चेद् विजितं न मया विजितं कथम् ॥ २०१.२०॥
ततोऽन्तरिक्षे वाग् उच्चैः प्राह गम्भीरनादिनी ।
बलदेवस्य तं कोपं वर्धयन्ती महात्मनः ॥ २०१.२१॥
आकाशवाग् उवाच ।
जितं तु बलदेवेन रुक्मिणा भाषितं मृषा ।
अनुक्त्वा वचनं किंचित् कृतं भवति कर्मणा ॥ २०१.२२॥
व्यास उवाच ।
ततो बलः समुत्थाय क्रोधसंरक्तलोचनः ।
जघानाष्टापदेनैव रुक्मिणं स महाबलः ॥ २०१.२३॥
कलिङ्गराजं चादाय विस्फुरन्तं बलाद् बलः ।
बभञ्ज दन्तान् कुपितो यैः प्रकाशं जहास सः ॥ २०१.२४॥
आकृष्य च महास्तम्भं जातरूपमयं बलः ।
जघान ये तत्पक्षास्तान् भूभृतः कुपितो बलः ॥ २०१.२५॥
ततो हाहाकृतं सर्वं पलायनपरं द्विजाः ।
तद् राजमण्डलं सर्वं बभूव कुपिते बले ॥ २०१.२६॥
बलेन निहतं श्रुत्वा रुक्मिणं मधुसूदनः ।
नोवाच वचनं किंचिद् रुक्मिणीबलयोर्भयात् ॥ २०१.२७॥
ततोऽनिरुद्धमादाय कृतोद्वाहं द्विजोत्तमाः ।
द्वारकामाजगामाथ यदुचक्रं सकेशवम् ॥ २०१.२८॥