अध्याय 200, Verse 1
मुनय ऊचुः ।
शम्बरेण हृतो वीरः प्रद्युम्नः स कथं पुनः ।
शम्बरश्च महावीर्यः प्रद्युम्नेन कथं हतः ॥ २००.१॥
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
शम्बरेण हृतो वीरः प्रद्युम्नः स कथं पुनः ।
शम्बरश्च महावीर्यः प्रद्युम्नेन कथं हतः ॥ २००.१॥
व्यास उवाच ।
षष्ठेऽह्नि जातमात्रे तु प्रद्युम्नं सूतिकागृहात् ।
ममैष हन्तेति द्विजा हृतवान् कालशम्बरः ॥ २००.२॥
नीत्वा चिक्षेप चैवैनं ग्राहोऽग्रे लवणार्णवे ।
कल्लोलजनितावर्ते सुघोरे मकरालये ॥ २००.३॥
पतितं चैव तत्रैको मत्स्यो जग्राह बालकम् ।
न ममार च तस्यापि जठरानलदीपितः ॥ २००.४॥
मत्स्यबन्धैश्च मत्स्योऽसौ मत्स्यैरन्यैः सह द्विजाः ।
घातितोऽसुरवर्याय शम्बराय निवेदितः ॥ २००.५॥
तस्य मायावती नाम पत्नी सर्वगृहेश्वरी ।
कारयामास सूदानामाधिपत्यमनिन्दिता ॥ २००.६॥
दारिते मत्स्यजठरे ददृशे सातिशोभनम् ।
कुमारं मन्मथतरोर्दग्धस्य प्रथमाङ्कुरम् ॥ २००.७॥
कोऽयं कथमयं मत्स्य+ ।
जठरे समुपागतः ।
इत्येवं कौतुकाविष्टां तां तन्वीं प्राह नारदः ॥ २००.८॥
नारद उवाच ।
अयं समस्तजगतां सृष्टिसंहारकारिणा ।
शम्बरेण हृतः कृष्ण+ ।
तनयः सूतिकागृहात् ॥ २००.९॥
क्षिप्तः समुद्रे मत्स्येन निगीर्णस्ते वशं गतः ।
नररत्नमिदं सुभ्रु विश्रब्धा परिपालय ॥ २००.१०॥
व्यास उवाच ।
नारदेनैवमुक्ता सा पालयामास तं शिशुम् ।
बाल्याद् एवातिरागेण रूपातिशयमोहिता ॥ २००.११॥
स यदा यौवनाभोग+ ।
भूषितोऽभूद् द्विजोत्तमाः ।
साभिलाषा तदा सा तु बभूव गजगामिनी ॥ २००.१२॥
मायावती ददौ चास्मै माया सर्वा महात्मने ।
प्रद्युम्नायात्मभूताय तन्न्यस्तहृदयेक्षणा ।
प्रसज्जन्तीं तु तामाह स कार्ष्णिः कमललोचनः ॥ २००.१३॥
प्रद्युम्न उवाच ।
मातृभावं विहायैव किमर्थं
व्यास उवाच ।
सा चास्मै कथयामास न पुत्रस्त्वं ममेति वै ।
तनयं त्वामयं विष्णोर्हृतवान् कालशम्बरः ॥ २००.१५॥
क्षिप्तः समुद्रे मत्स्यस्य सम्प्राप्तो जठरान् मया ।
सा तु रोदिति ते माता कान्ताद्याप्यतिवत्सला ॥ २००.१६॥
व्यास उवाच ।
इत्युक्तः शम्बरं युद्धे प्रद्युम्नः स समाह्वयत् ।
क्रोधाकुलीकृतमना युयुधे च महाबलः ॥ २००.१७॥
हत्वा सैन्यमशेषं तु तस्य दैत्यस्य माधविः ।
सप्त माया व्यतिक्रम्य मायां संयुयुजेऽष्टमीम् ॥ २००.१८॥
तया जघान तं दैत्यं मायया कालशम्बरम् ।
उत्पत्य च तया सार्धमाजगाम पितुः पुरम् ॥ २००.१९॥
अन्तःपुरे च पतितं मायावत्या समन्वितम् ।
तं दृष्ट्वा हृष्टसंकल्पा बभूवुः कृष्णयोषितः ।
रुक्मिणी चाब्रवीत् प्रेम्णा *आसक्तदृष्टिरनिन्दिता ॥ २००.२०॥
रुक्मिण्युवाच ।
धन्यायाः खल्वयं पुत्रो वर्तते नवयौवने ।
अस्मिन् वयसि पुत्रो मे प्रद्युम्नो यदि जीवति ॥ २००.२१॥
सभाग्या जननी वत्स त्वया कापि विभूषिता ।
अथवा यादृशः स्नेहो मम यादृग् वपुश्च ते ।
हरेरपत्यं सुव्यक्तं भवान् वत्स भविष्यति ॥ २००.२२॥
व्यास उवाच ।
एतस्मिन्न् अन्तरे प्राप्तः सह कृष्णेन नारदः ।
अन्तःपुरवरां देवीं रुक्मिणीं प्राह हर्षितः ॥ २००.२३॥
श्रीकृष्ण उवाच ।
एष ते तनयः सुभ्रु हत्वा शम्बरमागतः ।
हृतो येनाभवत् पूर्वं पुत्रस्ते सूतिकागृहात् ॥ २००.२४॥
इयं मायावती भार्या तनयस्यास्य ते सती ।
शम्बरस्य न भार्येयं श्रूयतामत्र कारणम् ॥ २००.२५॥
मन्मथे तु गते नाशं तदुद्भवपरायणा ।
शम्बरं मोहयामास मायारूपेण रुक्मिणि ॥ २००.२६॥
विवाहाद्युपभोगेषु रूपं मायामयं शुभम् ।
दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा ॥ २००.२७॥
कामोऽवतीर्णः पुत्रस्ते तस्येयं दयिता रतिः ।
विशङ्का नात्र कर्तव्या स्नुषेयं तव शोभना ॥ २००.२८॥
व्यास उवाच ।
ततो हर्षसमाविष्टौ रुक्मिणीकेशवौ तदा ।
नगरी च समस्ता सा साधु साध्वित्यभाषत ॥ २००.२९॥
चिरं नष्टेन पुत्रेण संगतां प्रेक्ष्य रुक्मिणीम् ।
अवाप विस्मयं सर्वो द्वारवत्यां जनस्तदा ॥ २००.३०॥