अध्याय 20, Verse 1
लोमहर्षण उवाच ।
क्षारोदेन यथा द्वीपो जम्बूसंज्ञोऽभिवेष्टितः ।
संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः ॥ २०.१॥
Containing 99 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
क्षारोदेन यथा द्वीपो जम्बूसंज्ञोऽभिवेष्टितः ।
संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः ॥ २०.१॥
जम्बूद्वीपस्य विस्तारः शतसाहस्रसम्मितः ।
स एव द्विगुणो विप्राः प्लक्षद्वीपेऽप्युदाहृतः ॥ २०.२॥
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै ।
श्रेष्ठः शान्तभयो नाम शिशिरस्तदनन्तरम् ॥ २०.३॥
सुखोदयस्तथानन्दः शिवः क्षेमक एव च ।
ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥ २०.४॥
पूर्वं शान्तभयं वर्षं शिशिरं सुखदं तथा ।
आनन्दं च शिवं चैव क्षेमकं ध्रुवमेव च ॥ २०.५॥
मर्यादाकारकास्तेषां तथान्ये वर्षपर्वताः ।
सप्तैव तेषां नामानि शृणुध्वं मुनिसत्तमाः ॥ २०.६॥
गोमेदश्चैव चन्द्रश्च नारदो दन्दुभिस्तथा ।
सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः ॥ २०.७॥
वर्षाचलेषु रम्येषु वर्षेष्वेतेषु चानघाः ।
वसन्ति देवगन्धर्व+ ।
सहिताः सहितं प्रजाः ॥ २०.८॥
तेषु पुण्या जनपदा वीरा न म्रियते जनः ।
नाधयो व्याधयो वापि सर्वकालसुखं हि तत् ॥ २०.९॥
तेषां नद्यश्च सप्तैव वर्षाणां तु समुद्रगाः ।
नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः ॥ २०.१०॥
अनुतप्ता शिखा चैव विप्राशा त्रिदिवा क्रमुः ।
अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥ २०.११॥
एते शैलास्तथा नद्यः प्रधानाः कथिता द्विजाः ।
क्षुद्रनद्यस्तथा शैलास्तत्र सन्ति सहस्रशः ॥ २०.१२॥
ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते ।
अवसर्पिणी नदी तेषां न चैवोत्सर्पिणी द्विजाः ॥ २०.१३॥
न तेष्वस्ति युगावस्था तेषु स्थानेषु सप्तसु ।
त्रेतायुगसमः कालः सर्वदैव द्विजोत्तमाः ॥ २०.१४॥
प्लक्षद्वीपादिके विप्राः शाकद्वीपान्तिकेषु वै ।
पञ्चवर्षसहस्राणि जना जीवन्त्यनामयाः ॥ २०.१५॥
धर्मश्चतुर्विधस्तेषु वर्णाश्रमविभागजः ।
वर्णाश्च तत्र चत्वारस्तान् बुधाः प्रवदामि वः ॥ २०.१६॥
आर्यकाः कुरवश्चैव विविश्वा भाविनश्च ये ।
विप्रक्षत्रियवैश्यास्ते शूद्राश्च मुनिसत्तमाः ॥ २०.१७॥
जम्बूवृक्षप्रमाणस्तु तन्मध्ये सुमहातरुः ।
प्लक्षस्तन्नामसंज्ञोऽयं प्लक्षद्वीपो द्विजोत्तमाः ॥ २०.१८॥
इज्यते तत्र भगवांस्तैर्वर्णैरार्यकादिभिः ।
सोमरूपी जगत्स्रष्टा सर्वः सर्वेश्वरो हरिः ॥ २०.१९॥
प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः ।
तथैवेक्षुरसोदेन परिवेषानुकारिणा ॥ २०.२०॥
इत्येतद् वो मुनिश्रेष्ठाः प्लक्षद्वीप उदाहृतः ।
संक्षेपेण मया भूयः शाल्मलं तं निबोधत ॥ २०.२१॥
शाल्मलस्येश्वरो वीरो वपुष्मांस्तत्सुता द्विजाः ।
तेषां तु नाम संज्ञानि सप्तवर्षाणि तानि वै ॥ २०.२२॥
श्वेतोऽथ हरितश्चैव जीमूतो रोहितस्तथा ।
वैद्युतो मानसश्चैव सुप्रभश्च द्विजोत्तमाः ॥ २०.२३॥
शाल्मनश्च समुद्रोऽसौ द्वीपेनेक्षुरसोदकः ।
विस्ताराद् द्विगुणेनाथ सर्वतः संवृतः स्थितः ॥ २०.२४॥
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः ।
वर्षाभिव्यञ्जकास्ते तु तथा सप्तैव निम्नगाः ॥ २०.२५॥
कुमुदश्चोन्नतश्चैव तृतीयस्तु बलाहकः ।
द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः ॥ २०.२६॥
कङ्कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा ।
ककुद्मान् पर्वतवरः सरिन्नामान्यतो द्विजाः ॥ २०.२७॥
श्रोणी तोया वितृष्णा च चन्द्रा शुक्रा विमोचनी ।
निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः ॥ २०.२८॥
श्वेतं च लोहितं चैव जीमूतं हरितं तथा ।
वैद्युतं मानसं चैव सुप्रभं नाम सप्तमम् ॥ २०.२९॥
सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि च ।
वर्णाश्च शाल्मले ये च वसन्त्येषु द्विजोत्तमाः ॥ २०.३०॥