अध्याय 2, Verse 1
लोमहर्षण उवाच ।
स सृष्ट्वा तु प्रजास्त्वेवमापवो वै प्रजापतिः ।
लेभे वै पुरुषः पत्नीं शतरूपामयोनिजाम् ॥ २.१॥
Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
स सृष्ट्वा तु प्रजास्त्वेवमापवो वै प्रजापतिः ।
लेभे वै पुरुषः पत्नीं शतरूपामयोनिजाम् ॥ २.१॥
आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः ।
धर्मेणैव मुनिश्रेष्ठाः शतरूपा व्यजायत ॥ २.२॥
सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।
भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥ २.३॥
स वै स्वायम्भुवो विप्राः पुरुषो मनुरुच्यते ।
तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते ॥ २.४॥
वैराजात् पुरुषाद् वीरं शतरूपा व्यजायत ।
प्रियव्रतोत्तानपादौ वीरात् काम्या व्यजायत ॥ २.५॥
काम्या नाम सुता श्रेष्ठा कर्दमस्य प्रजापतेः ।
काम्यापुत्रास्तु चत्वारः सम्राट् कुक्षिर्विराट् प्रभुः ॥ २.६॥
उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः ।
उत्तानपादाच्चतुरः सूनृता सुषुवे सुतान् ॥ २.७॥
धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता ।
उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शुभा ॥ २.८॥
ध्रुवं च कीर्तिमन्तं च आयुष्मन्तं वसुं तथा ।
उत्तानपादोऽजनयत् सूनृतायां प्रजापतिः ॥ २.९॥
ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भो द्विजाः ।
तपस्तेपे महाभागः प्रार्थयन् सुमहद् यशः ॥ २.१०॥
तस्मै ब्रह्मा ददौ प्रीतः स्थानमात्मसमं प्रभुः ।
अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः ॥ २.११॥
तस्याभिमानम् ऋद्धिं च महिमानं निरीक्ष्य च ।
देवासुराणामाचार्यः श्लोकं प्राग् उशना जगौ ॥ २.१२॥
अहोऽस्य तपसो वीर्यमहो श्रुतमहोऽद्भुतम् ।
यमद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥ २.१३॥
तस्माच्छ्लिष्टिं च भव्यं च ध्रुवाच्छम्भुर्व्यजायत ।
श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रान् अकल्मषान् ॥ २.१४॥
रिपुं रिपुंजयं वीरं वृकलं वृकतेजसम् ।
रिपोराधत्त बृहती चक्षुषं सर्वतेजसम् ॥ २.१५॥
अजीजनत् पुष्करिण्यां वैरिण्यां चाक्षुषं मनुम् ।
प्रजापतेरात्मजायां वीरण्यस्य महात्मनः ॥ २.१६॥
मनोरजायन्त दश नड्वलायां महौजसः ।
कन्यायां मुनिशार्दूला वैराजस्य प्रजापतेः ॥ २.१७॥
कुत्सः पुरुः शतद्युम्नस्तपस्वी सत्यवाक् कविः ।
अग्निष्टुद् अतिरात्रश्च सुद्युम्नश्चेति ते नव ॥ २.१८॥
अभिमन्युश्च दशमो नड्वलायां महौजसः ।
पुरोरजनयत् पुत्रान् षड् आग्नेयी महाप्रभान् ॥ २.१९॥
अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं मयम् ।
अङ्गात् सुनीथापत्यं वै वेणमेकं व्यजायत ॥ २.२०॥
अपचारेण वेणस्य प्रकोपः सुमहान् अभूत् ।
प्रजार्थम् ऋषयो यस्य ममन्थुर्दक्षिणं करम् ॥ २.२१॥
वेणस्य मथिते पाणौ सम्बभूव महान् नृपः ।
तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः ॥ २.२२॥
करिष्यति महातेजा यशश्च प्राप्स्यते महत् ।
स धन्वी कवची जातो ज्वलज्ज्वलनसंनिभः ॥ २.२३॥
पृथुर्वैण्यस्तथा चेमां ररक्ष क्षत्रपूर्वजः ।
राजसूयाभिषिक्तानामाद्यः स वसुधापतिः ॥ २.२४॥
तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ ।
तेनेयं गौर्मुनिश्रेष्ठा दुग्धा सस्यानि भूभृता ॥ २.२५॥
प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह ।
पितृभिर्दानवैश्चैव गन्धर्वैरप्सरोगणैः ॥ २.२६॥
सर्पैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा ।
तेषु तेषु च पात्रेषु दुह्यमाना वसुंधरा ॥ २.२७॥
प्रादाद् यथेप्सितं क्षीरं तेन प्राणान् अधारयन् ।
पृथोस्तु पुत्रौ धर्मज्ञौ यज्ञान्तेऽन्तर्धिपातिनौ ॥ २.२८॥
शिखण्डिनी हविर्धानमन्तर्धानाद् व्यजायत ।
हविर्धानात् षड् आग्नेयी धिषणाजनयत् सुतान् ॥ २.२९॥
प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ ।
प्राचीनबर्हिर्भगवान् महान् आसीत् प्रजापतिः ॥ २.३०॥