अध्याय 199, Verse 1
व्यास उवाच ।
भीष्मकः कुण्डिने राजा विदर्भविषयेऽभवत् ।
रुक्मिणी तस्य दुहिता रुक्मी चैव सुतो द्विजाः ॥ १९९.१॥
Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
भीष्मकः कुण्डिने राजा विदर्भविषयेऽभवत् ।
रुक्मिणी तस्य दुहिता रुक्मी चैव सुतो द्विजाः ॥ १९९.१॥
रुक्मिणीं चकमे कृष्णः सा च तं चारुहासिनी ।
न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे ॥ १९९.२॥
ददौ स शिशुपालाय जरासंधप्रचोदितः ।
भीष्मको रुक्मिणा सार्धं रुक्मिणीमुरुविक्रमः ॥ १९९.३॥
विवाहार्थं ततः सर्वे जरासंधमुखा नृपाः ।
भीष्मकस्य पुरं जग्मुः शिशुपालश्च कुण्डिनम् ॥ १९९.४॥
कृष्णोऽपि बलभद्राद्यैर्यदुभिः परिवारितः ।
प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूपतेः ॥ १९९.५॥
श्वोभाविनि विवाहे तु तां कन्यां हृतवान् हरिः ।
विपक्षभावमासाद्य रामाद्येष्वेव बन्धुषु ॥ १९९.६॥
ततश्च पौण्ड्रकः श्रीमान् दन्तवक्त्रो विदूरथः ।
शिशुपालो जरासंधः शाल्वाद्याश्च महीभृतः ॥ १९९.७॥
कुपितास्ते हरिं हन्तुं चक्रुरुद्योगमुत्तमम् ।
निर्जिताश्च समागम्य रामाद्यैर्यदुपुंगवैः ॥ १९९.८॥
कुण्डिनं न प्रवेक्ष्यामि अहत्वा युधि केशवम् ।
कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णमभिद्रुतः ॥ १९९.९॥
हत्वा बलं स नागाश्व+ ।
पत्तिस्यन्दनसंकुलम् ।
निर्जितः पातितश्चोर्व्यां लीलयैव स चक्रिणा ॥ १९९.१०॥
निर्जित्य रुक्मिणं सम्यग् उपयेमे स रुक्मिणीम् ।
राक्षसेन विधानेन सम्प्राप्तो मधुसूदनः ॥ १९९.११॥
तस्यां जज्ञे च प्रद्युम्नो मदनांशः स वीर्यवान् ।
जहार शम्बरो यं वै यो जघान च शम्बरम् ॥ १९९.१२॥