अध्याय 198, Verse 1
व्यास उवाच ।
वने विहरतस्तस्य सह गोपैर्महात्मनः ।
मानुषच्छद्मरूपस्य शेषस्य धरणीभृतः ॥ १९८.१॥
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
वने विहरतस्तस्य सह गोपैर्महात्मनः ।
मानुषच्छद्मरूपस्य शेषस्य धरणीभृतः ॥ १९८.१॥
निष्पादितोरुकार्यस्य कार्येणैवावतारिणः ।
उपभोगार्थमत्यर्थं वरुणः प्राह वारुणीम् ॥ १९८.२॥
वरुण उवाच ।
अभीष्टां सर्वदा ह्यस्य मदिरे त्वं महौजसः ।
अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ॥ १९८.३॥
व्यास उवाच ।
इत्युक्ता वारुणी तेन संनिधानमथाकरोत् ।
वृन्दावनतटोत्पन्न+ ।
कदम्बतरुकोटरे ॥ १९८.४॥
विचरन् बलदेवोऽपि मदिरागन्धमुद्धतम् ।
आघ्राय मदिराहर्षमवापाथ पुरातनम् ॥ १९८.५॥
ततः कदम्बात् सहसा मद्यधारां स लाङ्गली ।
पतन्तीं वीक्ष्य मुनयः प्रययौ परमां मुदम् ॥ १९८.६॥
पपौ च गोपगोपीभिः समवेतो मुदान्वितः ।
उपगीयमानो ललितं गीतवाद्यविशारदैः ॥ १९८.७॥
श्रमतोऽत्यन्तघर्माम्भः+ ।
कणिकामौक्तिकोज्ज्वलः ।
आगच्छ यमुने स्नातुमिच्छामीत्याह विह्वलः ॥ १९८.८॥
तस्य वाचं नदी सा तु मत्तोक्तामवमन्य वै ।
नाजगाम ततः क्रुद्धो हलं जग्राह लाङ्गली ॥ १९८.९॥
गृहीत्वा तां तटेनैव चकर्ष मदविह्वलः ।
पापे नायासि नायासि गम्यतामिच्छयान्यतः ॥ १९८.१०॥
सा कृष्टा तेन सहसा मार्गं संत्यज्य निम्नगा ।
यत्रास्ते बलदेवोऽसौ प्लावयामास तद् वनम् ॥ १९८.११॥
शरीरिणी तथोपेत्य त्रासविह्वललोचना ।
प्रसीदेत्यब्रवीद् रामं मुञ्च मां मुशलायुध ॥ १९८.१२॥
सोऽब्रवीद् अवजानासि मम शौर्यबलं यदि ।
सोऽहं त्वां हलपातेन नयिष्यामि सहस्रधा ॥ १९८.१३॥
व्यास उवाच ।
इत्युक्तयातिसंत्रस्तस्तया नद्या प्रसादितः ।
भूभागे प्लाविते तत्र मुमोच यमुनां बलः ॥ १९८.१४॥
ततः स्नातस्य वै कान्तिराजगाम महावने ।
अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम् ॥ १९८.१५॥
वरुणप्रहितां चास्मै मालामम्लानपङ्कजाम् ।
समुद्रार्हे तथा वस्त्रे नीले लक्ष्मीरयच्छत ॥ १९८.१६॥
कृतावतंसः स तदा चारुकुण्डलभूषितः ।
नीलाम्बरधरः स्रग्वी शुशुभे कान्तिसंयुतः ॥ १९८.१७॥
इत्थं विभूषितो रेमे तत्र रामस्तदा व्रजे ।
मासद्वयेन यातश्च पुनः स मथुरां पुरीम् ॥ १९८.१८॥
रेवतीं चैव तनयां रैवतस्य महीपतेः ।
उपयेमे बलस्तस्यां जज्ञाते निशठोल्मुकौ ॥ १९८.१९॥