अध्याय 197, Verse 1
व्यास उवाच ।
इत्थं स्तुतस्तदा तेन मुचुकुन्देन धीमता ।
प्राहेशः सर्वभूतानामनादिनिधनो हरिः ॥ १९७.१॥
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यास उवाच ।
इत्थं स्तुतस्तदा तेन मुचुकुन्देन धीमता ।
प्राहेशः सर्वभूतानामनादिनिधनो हरिः ॥ १९७.१॥
श्रीकृष्ण उवाच ।
यथाभिवाञ्छितांल्लोकान् दिव्यान् गच्छ नरेश्वर ।
अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः ॥ १९७.२॥
भुक्त्वा दिव्यान् महाभोगान् भविष्यसि महाकुले ।
जातिस्मरो मत्प्रसादात् ततो मोक्षमवाप्स्यसि ॥ १९७.३॥
व्यास उवाच ।
इत्युक्तः प्रणिपत्येशं जगतामच्युतं नृपः ।
गुहामुखाद् विनिष्क्रान्तो ददृशे सोऽल्पकान् नरान् ॥ १९७.४॥
ततः कलियुगं ज्ञात्वा प्राप्तं तप्तुं ततो नृपः ।
नरनारायणस्थानं प्रययौ गन्धमादनम् ॥ १९७.५॥
कृष्णोऽपि घातयित्वारिमुपायेन हि तद्बलम् ।
जग्राह मथुरामेत्य हस्त्यश्वस्यन्दनोज्ज्वलम् ॥ १९७.६॥
आनीय चोग्रसेनाय द्वारवत्यां न्यवेदयत् ।
पराभिभवनिःशङ्कं बभूव च यदोः कुलम् ॥ १९७.७॥
बलदेवोऽपि विप्रेन्द्राः प्रशान्ताखिलविग्रहः ।
ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम् ॥ १९७.८॥
ततो गोपाश्च गोप्यश्च यथापूर्वममित्रजित् ।
तथैवाभ्यवदत् प्रेम्णा बहुमानपुरःसरम् ॥ १९७.९॥
कैश्चापि सम्परिष्वक्तः कांश्चित् स परिषस्वजे ।
हासं चक्रे समं कैश्चिद् गोपगोपीजनैस्तथा ॥ १९७.१०॥
प्रियाण्यनेकान्यवदन् गोपास्तत्र हलायुधम् ।
गोप्यश्च प्रेममुदिताः प्रोचुः सेर्ष्यमथापराः ॥ १९७.११॥
गोप्यः पप्रच्छुरपरा नागरीजनवल्लभः ।
कच्चिद् आस्ते सुखं कृष्णश्चलत्प्रेमरसाकुलः ॥ १९७.१२॥
अस्मच्चेष्टोपहसनं न कच्चित् पुरयोषिताम् ।
सौभाग्यमानमधिकं करोति क्षणसौहृदः ॥ १९७.१३॥
कच्चित् स्मरति नः कृष्णो गीतानुगमनं कृतम् ।
अप्यसौ मातरं द्रष्टुं सकृद् अप्यागमिष्यति ॥ १९७.१४॥
अथवा किं तदालापैः क्रियन्तामपराः कथाः ।
यद् अस्माभिर्विना तेन विनास्माकं भविष्यति ॥ १९७.१५॥
पिता माता तथा भ्राता भर्ता बन्धुजनश्च कः ।
न त्यक्तस्तत्कृतेऽस्माभिरकृतज्ञस्ततो हि सः ॥ १९७.१६॥
तथापि कच्चिद् आत्मीयमिहागमनसंश्रयम् ।
करोति कृष्णो वक्तव्यं भवता वचनामृतम् ॥ १९७.१७॥
दामोदरोऽसौ गोविन्दः पुरस्त्रीसक्तमानसः ।
अपेतप्रीतिरस्मासु दुर्दर्शः प्रतिभाति नः ॥ १९७.१८॥
व्यास उवाच ।
आमन्त्रितः स कृष्णेति पुनर्दामोदरेति च ।
जहसुः सुस्वरं गोप्यो हरिणा कृष्टचेतसः ॥ १९७.१९॥
संदेशैः सौम्यमधुरैः प्रेमगर्भैरगर्वितैः ।
रामेणाश्वासिता गोप्यः कृष्णस्यातिमधुस्वरैः ॥ १९७.२०॥
गोपैश्च पूर्ववद् रामः परिहासमनोहरैः ।
कथाश्चकार प्रेम्णा च सह तैर्व्रजभूमिषु ॥ १९७.२१॥